दशारे वा षडस्रे वा चतुरस्रे शिवं स्मरेत् भ्रुवोरंतरतः पद्मं द्विदलं तडिदुज्ज्वलम्
भ्रूमध्यस्थारविन्दस्य क्रमाद्वै दक्षिणोत्तरे विद्युत्समानवर्णे च पर्णे वर्णावसानके
षोडशारस्य पत्राणि स्वराः षोडश तानि वै पूर्वादीनि क्रमादेतत्पद्मं कन्दस्य मूलतः
ककारादिटकारांता वर्णाः पर्णान्यनुक्रमात्
गोक्षीरधवलस्योक्ता डादिफान्ता यथाक्रमम्
विधूमांगारवर्णस्य वर्णा वाद्याश्च लान्तिमाः मूलाधारारविंदस्य हेमाभस्य यथाक्रमम् वकारादिसकारान्ता वर्णाः पर्णमयाः स्थिताः
एतेष्वथारविंदेषु यत्रैवाभिरतं मनः तत्रैव देवं देवीं च चिंतयेद्धीरया धिया
अंगुष्ठमात्रममलं दीप्यमानं समंततः शुद्धदीपशिखाकारं स्वशक्त्या पूर्णमण्डितम्
इन्दुरेखासमाकारं तारारूपमथापि वा नीवारशूकस्सदृशं बिससुत्राभमेव वा
कदम्बगोलकाकारं तुषारकणिकोपमम् क्षित्यादितत्त्वविजयं ध्याता यद्यपि वाञ्छति
तत्तत्तत्त्वाधिपामेव मूर्तिं स्थूलां विचिंतयेत् सदाशिवांता ब्रह्माद्यभवाद्याश्चाष्टमूर्तयः
शिवस्य मूर्तयः स्थूलाः शिवशास्त्रे विनिश्चिताः घोरा मिश्रा प्रशान्ताश्च मूर्तयस्ता मुनीश्वरैः
फलाभिलाषरहितैश्चिन्त्याश्चिन्ताविशारदैः घोराश्चेच्चिंतिताः कुर्युः पापरोगपरिक्षयम्
चिरेण मिश्रे सौम्ये तु न सद्यो न चिरादपि सौम्ये मुक्तिर्विशेषेण शांतिः प्रज्ञा प्रसिध्यति
सिध्यंति सिद्धयश्चात्र क्रमशो नात्र संशयः
श्रीकंठनाथं स्मरतां सद्यः सर्वार्थसिद्धयः प्रसिध्यंतीति मत्वैके तं वै ध्यायंति योगिनः
स्थित्यर्थं मनसः केचित्स्थूलध्यानं प्रकुर्वते स्थूलं तु निश्चलं चेतो भवेत्सूक्ष्मे तु तत्स्थिरम्
शिवे तु चिंतिते साक्षात्सर्वाः सिध्यन्ति सिद्धयः मूर्त्यंतरेषु ध्यातेषु शिवरूपं विचिंतयेत्
लक्षयेन्मनसः स्थैर्यं तत्तद्ध्यायेत्पुनः पुनः ध्यानमादौ सविषयं ततो निर्विषयं जगुः
तत्र निर्विषयं ध्यानं नास्तीत्येव सतां मतम् बुद्धेर्हि सन्ततिः काचिद्ध्यानमित्यभिधीयते
तेन निर्विषया बुद्धिः केवलेह प्रवर्तते तस्मात्सविषयं ध्यानं बालार्ककिरणाश्रयम्
सूक्ष्माश्रयं निर्विषयं नापरं परमार्थतः यद्वा सविषयं ध्यानं तत्साकारसमाश्रयम्
निराकारात्मसंवित्तिर्ध्यानं निर्विषयं मतम् निर्बीजं च सबीजं च तदेव ध्यानमुच्यते
निराकारश्रयत्वेन साकाराश्रयतस्तथा तस्मात्सविषयं ध्यानमादौ कृत्वा सबीजकम्
अंते निर्विषयं कुर्यान्निर्बीजं सर्वसिद्धये प्राणायामेन सिध्यंति देव्याः शांत्यादयः क्रमात्
शांतिः प्रशांतिर्दीप्तिश्च प्रसादश्च ततः परम् शमः सर्वापदां चैव शांतिरित्यभिधीयते
तमसो ऽन्तबहिर्नाशः प्रशान्तिः परिगीयते बहिरन्तःप्रकाशो यो दीप्तिरित्यभिधीयते
स्वस्थता या तु सा बुद्धः प्रसादः परिकीर्तितः कारणानि च सर्वाणि सबाह्याभ्यंतराणि च
बुद्धेः प्रसादतः क्षिप्रं प्रसन्नानि भवन्त्युत ध्याता ध्यानं तथा ध्येयं यद्वा ध्यानप्रयोजनम् एतच्चतुष्टयं ज्ञात्वा ध्याता ध्यानं समाचरेत्
ज्ञानवैराग्यसंपन्नो नित्यमव्यग्रमानसः श्रद्दधानः प्रसन्नात्मा ध्याता सद्भिरुदाहृतः