तस्माद्गुणांश्च भोगांश्च देवासुरमहीभृताम् तृणवद्यस्त्यजेत्तस्य योगसिद्धिः परा भवेत्
अथवानुग्रहेच्छायां जगतो विचरेन्मुनिः यथाकामंगुणान्भोगान्भुक्त्वा मुक्तिं प्रयास्यति
अथ प्रयोगं योगस्य वक्ष्ये शृणु समाहितः शुभे काले शुभे देशे शिवक्षेत्रादिके पुनः विजने जंतुरहिते निःशब्दे बाधवर्जिते
सुप्रलिप्ते स्थले सौम्ये गन्धधूपादिवासिते मुक्तपुष्पसमाकीर्णे वितानादि विचित्रिते
कुशपुष्पसमित्तोयफलमूलसमन्विते नाग्न्यभ्याशे जलाभ्याशे शुष्कपर्णचये ऽपि वा
न दंशमशकाकीर्णे सर्पश्वापदसंकुले न च दुष्टमृगाकीर्णे न भये दुर्जनावृते
श्मशाने चैत्यवल्मीके जीर्णागारे चतुष्पथे नदीनदसमुद्राणां तीरे रथ्यांतरे ऽपि वा
न जीर्णोद्यानगोष्ठादौ नानिष्टे न च निंदिते नाजीर्णाम्लरसोद्गारे न च विण्मूत्रदूषिते
नच्छर्द्यामातिसारे वा नातिभुक्तौ श्रमान्विते न चातिचिंताकुलितो न चातिक्षुत्पिपासितः
नापि स्वगुरुकर्मादौ प्रसक्तो योगमाचरेत् युक्ताहारविहारश्च युक्तचेष्टश्च कर्मसु
युक्तनिद्राप्रबोधश्च सर्वायासविवर्जितः आसनं मृदुलं रम्यं विपुलं सुसमं शुचि
पद्मकस्वस्तिकादीनामभ्यसेदासनेषु च अभिवंद्य स्वगुर्वंतानभिवाद्याननुक्रमात्
ऋजुग्रीवशिरोवक्षा नातिष्ठेच्छिष्टलोचनः किंचिदुन्नामितशिरा दंतैर्दंतान्न संस्पृशेत्
दंताग्रसंस्थिता जिह्वामचलां सन्निवेश्य च पार्ष्णिभ्यां वृषणौ रक्षंस्तथा प्रजननं पुनः
ऊर्वोरुपरि संस्थाप्य बाहू तिर्यगयत्नतः दक्षिणं करपृष्ठं तु न्यस्य वामतलोपरि
उन्नाम्य शनकैः पृष्ठमुरो विष्टभ्य चाग्रतः संप्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन्
संभृतप्राणसंचारः पाषाण इव निश्चलः स्वदेहायतनस्यांतर्विचिंत्य शिवमंबया
हृत्पद्मपीठिकामध्ये ध्यानयज्ञेन पूजयेत् मूले नासाग्रतो नाभौ कंठे वा तालुरंध्रयोः
भ्रूमध्ये द्वारदेशे वा ललाटे मूर्ध्नि वा स्मरेत् परिकल्प्य यथान्यायं शिवयोः परमासनम्
तत्र सावरणं वापि निरावरणमेव वा द्विदलेषोडशारे वा द्वादशारे यथाविधि
दशारे वा षडस्रे वा चतुरस्रे शिवं स्मरेत् भ्रुवोरंतरतः पद्मं द्विदलं तडिदुज्ज्वलम्
भ्रूमध्यस्थारविन्दस्य क्रमाद्वै दक्षिणोत्तरे विद्युत्समानवर्णे च पर्णे वर्णावसानके
षोडशारस्य पत्राणि स्वराः षोडश तानि वै पूर्वादीनि क्रमादेतत्पद्मं कन्दस्य मूलतः
ककारादिटकारांता वर्णाः पर्णान्यनुक्रमात्
गोक्षीरधवलस्योक्ता डादिफान्ता यथाक्रमम्
विधूमांगारवर्णस्य वर्णा वाद्याश्च लान्तिमाः मूलाधारारविंदस्य हेमाभस्य यथाक्रमम् वकारादिसकारान्ता वर्णाः पर्णमयाः स्थिताः
एतेष्वथारविंदेषु यत्रैवाभिरतं मनः तत्रैव देवं देवीं च चिंतयेद्धीरया धिया
अंगुष्ठमात्रममलं दीप्यमानं समंततः शुद्धदीपशिखाकारं स्वशक्त्या पूर्णमण्डितम्
इन्दुरेखासमाकारं तारारूपमथापि वा नीवारशूकस्सदृशं बिससुत्राभमेव वा
कदम्बगोलकाकारं तुषारकणिकोपमम् क्षित्यादितत्त्वविजयं ध्याता यद्यपि वाञ्छति