स्पर्शनाधिगमस्तद्वद्वेदना नाम विश्रुता गन्धादीनां च दिव्यानामाब्रह्मभुवनाधिपाः
संतिष्ठन्ते च रत्नानि प्रयच्छंति बहूनि च स्वच्छन्दमधुरा वाणी विविधास्यात्प्रवर्तते
रसायनानि सर्वाणि दिव्याश्चौषधयस्तथा सिध्यंति प्रणिपत्यैनं दिशंति सुरयोषितः
योगसिद्ध्यैकदेशे ऽपि दृष्टे मोक्षे भवेन्मतिः दृष्टमेतन्मया यद्वत्तद्वन्मोक्षो भवेदिति
कृशता स्थूलता बाल्यं वार्धक्यं चैव यौवनम् नानाचातिस्वरूपं च चतुर्णां देहधारणम्
पार्थिवांशं विना नित्यं सुरभिर्गन्धसंग्रहः एवमष्टगुणं प्राहुः पैशाचं पार्थिवं पदम्
जले निवसनं चैव भूम्यामेवं विनिर्गमः इच्छेच्छक्तः स्वयं पातुं समुद्रमपि नातुरः
यत्रेच्छति जगत्यस्मिंस्तत्रैव जलदर्शनम् विना कुम्भादिकं पाणौ जलसञ्चयधारणम्
यद्वस्तु विरसञ्चापि भोक्तुमिच्छति तत्क्षणात् रसादिकं भवेच्चान्यत्त्रयाणां देहधारणम्
निर्व्रणत्वं शरीरस्य पार्थिवैश्च समन्वितम् तदिदं षोडशगुणमाप्यमैश्वर्यमद्भुतम्
शरीरादग्निनिर्माणं तत्तापभयवर्जनम् शक्तिर्जगदिदं दग्धुं यदीच्छेदप्रयत्नतः
स्थापनं वानलस्या ऽप्सु पाणौ पावकधारणम् दग्धे सर्गे यथापूर्वं मुखे चान्नादिपाचनम् द्वाभ्यां देहविनिर्माणमाप्यैश्वर्यसमन्वितम्
एतच्चतुर्विंशतिधा तैजसं परिचक्षते मनोजवत्वं भूतानां क्षणादन्तःप्रवेशनम्
पर्वतादिमहाभारधारणञ्चाप्रयत्नतः गुरुत्वञ्च लघुत्वञ्च पाणावनिलधारणम्
अंगुल्यग्रनिपाताद्यैर्भूमेरपि च कम्पनम् एकेन देहनिष्पत्तिर्युक्तं भोगैश्च तैजसैः
द्वात्रिंशद्गुणमैश्वर्यं मारुतं कवयो विदुः छायाहीनविनिष्पत्तिरिन्द्रियाणामदर्शनम्
खेचरत्वं यथाकाममिन्द्रियार्थसमन्वयः आकाशलंघनं चैव स्वदेहे तन्निवेशनम्
आकाशपिण्डीकरणमशरीरत्वमेव च अनिलैश्वर्यसंयुक्तं चत्वारिंशद्गुणं महत्
ऐन्द्रमैश्वर्यमाख्यातमाम्बरं तत्प्रचक्षते यथाकामोपलब्धिश्च यथाकामविनिर्गमः
सर्वस्याभिभवश्चैव सर्वगुह्यार्थदर्शनम् कर्मानुरूपनिर्माणं वशित्वं प्रियदर्शनम्
संसारदर्शनं चैव भोगैरैन्द्रैस्समन्वितम् एतच्चांद्रमसैश्वर्यं मानसं गुणतो ऽधिकम्
छेदनं ताडनं चैव बंधनं मोचनं तथा ग्रहणं सर्वभूतानां संसारवशवर्तिनाम्
प्रसादश्चापि सर्वेषां मृत्युकालजयस्तथा आभिमानिकमैश्वर्यं प्राजापत्यं प्रचक्षते
एतच्चान्द्रमसैर्भोगैः षट्पञ्चाशद्गुणं महत् सर्गः संकल्पमात्रेण त्राणं संहरणं तथा
स्वाधिकारश्च सर्वेषां भूतचित्तप्रवर्तनम् असादृश्यं च सर्वस्य निर्माणं जगतः पृथक्
शुभाशुभस्य करणं प्राजापत्यैश्च संयुतम् चतुष्षष्ठिगुणं ब्राह्ममैश्वर्यं च प्रचक्षते
बौद्धादस्मात्परं गौणमैश्वर्यं प्राकृतं विदुः वैष्णवं तत्समाख्यातं तस्यैव भुवनस्थितिः ब्रह्मणा तत्पदं सर्वं वक्तुमन्यैर्न शक्यते
तत्पौरुषं च गौणं च गणेशं पदमैश्वरम् विष्णुना तत्पदं किंचिज्ज्ञातुमन्यैर्न शक्यते
विज्ञानसिद्धयश्चैव सर्वा एवौपसर्गिकाः निरोद्धव्या प्रयत्नेन वर्राग्येण परेण तु
प्रतिभासेष्वशुद्धेषु गुणेष्वासक्तचेतसः न सिध्येत्परमैश्वर्यमभयं सार्वकामिकम्