तस्माद्धीरं मनः कुर्याद्धारणाभ्यासयोगतः ध्यै चिंतायां स्मृतो धातुः शिवचिंता मुहुर्मुहुः
अव्याक्षिप्तेन मनसा ध्यानं नाम तदुच्यते ध्येयावस्थितचित्तस्य सदृशः प्रत्ययश्च यः
प्रत्ययान्तरनिर्मुक्तः प्रवाहो ध्यानमुच्यते सर्वमन्यत्परित्यज्य शिव एव शिवंकरः
परो ध्येयो ऽधिदेवेशः समाप्ताथर्वणी श्रुतिः तथा शिवा परा ध्येया सर्वभूतगतौ शिवौ
तौ श्रुतौ स्मृतिशास्त्रेभ्यः सर्वगौ सर्वदोदितौ सर्वज्ञौ सततं ध्येयौ नानारूपविभेदतः
विमुक्तिः प्रत्ययः पूर्वः प्रत्ययश्चाणिमादिकम् इत्येतद्द्विविधं ज्ञेयं ध्यानस्यास्य प्रयोजनम्
ध्याता ध्यानं तथा ध्येयं यच्च ध्यानप्रयोजनम् एतच्चतुष्टयं ज्ञात्वा योगं युञ्जीत योगवित्
ज्ञानवैराग्यसंपन्नः श्रद्दधानः क्षमान्वितः निर्ममश्च सदोत्साही ध्यातेत्थं पुरुषः स्मृतः
जपाच्छ्रांतः पुनर्ध्यायेद्ध्यानाच्छ्रांतः पुनर्जपेत् जपध्यनाभियुक्तस्य क्षिप्रं योगः प्रसिद्ध्यति
धारणा द्वादशायामा ध्यानं द्वादशधारणम् ध्यानद्वादशकं यावत्समाधिरभिधीयते
समाधिर्न्नाम योगांगमन्तिमं परिकीर्तितम् समाधिना च सर्वत्र प्रज्ञालोकः प्रवर्तते
यदर्थमात्रनिर्भासं स्तिमितो दधिवत्स्थितम् स्वरूपशून्यवद्भानं समाधिरभिधीयते
ध्येये मनः समावेश्य पश्येदपि च सुस्थिरम् निर्वाणानलवद्योगी समाधिस्थः प्रगीयते
न शृणोति न चाघ्राति न जल्पति न पश्यति न च स्पर्शं विजानाति न संकल्पयते मनः
नवाभिमन्यते किंचिद्बध्यते न च काष्टवत् एवं शिवे विलीनात्मा समाधिस्थ इहोच्यते
यथा दीपो निवातस्थः स्पन्दते न कदाचन तथा समाधिनिष्ठो ऽपि तस्मान्न विचलेत्सुधीः
एवमभ्यसतश्चारं योगिनो योगमुत्तमम् तदन्तराया नश्यंति विघ्नाः सर्वे शनैःशनैः
आलस्यं व्याधयस्तीव्राः प्रमादः स्थानसंशयः अनवस्थितचित्तत्वमश्रद्धा भ्रांतिदर्शनम्
दुःखानि दौर्मनस्यं च विषयेषु च लोलता दशैते युञ्जतां पुंसामन्तरायाः प्रकीर्तिताः
आलस्यमलसत्त्वं तु योगिनां देहचेतनोः धातुवैषम्यजा दोषा व्याधयः कर्मदोषजाः
प्रमादो नाम योगस्य साधना नाम भावना इदं वेत्युभयाक्रान्तं विज्ञानं स्थानसंशयः
अप्रतिष्ठा हि मनसस्त्वनवस्थितिरुच्यते अश्रद्धा भावरहिता वृत्तिर्वै योगवर्त्मनि
विपर्यस्ता मतिर्या सा भ्रांतिरित्यभिधीयते दुःखमज्ञानजं पुंसां चित्तस्याध्यात्मिकं विदुः
आधिभौतिकमंगोत्थं यच्च दुःखं पुरा कृतैः आधिदैविकमाख्यातमशन्यस्त्रविषादिकम्
इच्छाविघातजं मोक्षं दौर्मनस्यं प्रचक्षते विषयेषु विचित्रेषु विभ्रमस्तत्र लोलता
शान्तेष्वेतेषु विघ्नेषु योगासक्तस्य योगिनः उपसर्गाः प्रवर्तंते दिव्यास्ते सिद्धिसूचकाः
प्रतिभा श्रवणं वार्ता दर्शनास्वादवेदनाः उपसर्गाः षडित्येते व्यये योगस्य सिद्धयः
सूक्ष्मे व्यवहिते ऽतीते विप्रकृष्टे त्वनागते प्रतिभा कथ्यते यो ऽर्थे प्रतिभासो यथातथम्
श्रवणं सर्वशब्दानां श्रवणे चाप्रयत्नतः वार्त्ता वार्त्तासु विज्ञानं सर्वेषामेव देहिनाम्
दर्शनं नाम दिव्यानां दर्शनं चाप्रयत्नतः तथास्वादश्च दिव्येषु रसेष्वास्वाद उच्यते