जानुं प्रदक्षिणीकृत्य न द्रुतं न विलंबितम् अंगुलीस्फोटनं कुर्यात्सा मात्रेति प्रकीर्तिता
मात्राक्रमेण विज्ञेयाश्चोद्वातक्रमयोगतः नाडीविशुद्धिपूर्वं तु प्राणायामं समाचरेत्
अगर्भश्च सगर्भश्च प्राणायामो द्विधा स्मृतः जपं ध्यानं विनागर्भः सगर्भस्तत्समन्वयात्
अगर्भाद्गर्भसंयुक्तः प्राणायामःशताधिकः तस्मात्सगर्भं कुर्वन्ति योगिनः प्राणसंयमम्
प्राणो ऽपानः समानश्च ह्युदानो व्यान एव च
नागः कूर्मश्च कृकलो देवदत्तो धनंजयः प्रयाणं कुरुते यस्मात्तस्मात्प्राणो ऽभिधीयते
अवाङ्नयत्यपानाख्यो यदाहारादि भुज्यते व्यानो व्यानशयत्यंगान्यशेषाणि विवर्धयन्
उद्वेजयति मर्माणीत्युदानो वायुरीरितः समं नयति सर्वांगं समानस्तेन गीयते
उद्गारे नाग आख्यातः कूर्म उन्मीलने स्थितः कृकलः क्षवथौ ज्ञेयो देवदत्तो विजृंभणे
न जहाति मृतं चापि सर्वव्यापी धनंजयः क्रमेणाभ्यस्यमानोयं प्राणायामप्रमाणवान्
निर्दहत्यखिलं दोषं कर्तुर्देहं च रक्षति प्राणे तु विजिते सम्यक् तच्चिह्नान्युपलक्षयेत्
विण्मूत्रश्लेष्मणां तावदल्पभावः प्रजायते बहुभोजनसामर्थ्यं चिरादुच्छ्वासनं तथा
लघुत्वं शीघ्रगामित्वमुत्साहः स्वरसौष्ठवम् सर्वरोगक्षयश्चैव बलं तेजः सुरूपता
धृतिर्मेधा युवत्वं च स्थिरता च प्रसन्नता तपांसि पापक्षयता यज्ञदानव्रतादयः
प्राणायामस्य तस्यैते कलां नार्हन्ति षोडशीम् इन्द्रियाणि प्रसक्तानि यथास्वं विषयेष्विह
आहत्य यन्निगृह्णाति स प्रत्याहार उच्यते नमःपूर्वाणींद्रियाणि स्वर्गं नरकमेव च
निगृहीतनिसृष्टानि स्वर्गाय नरकाय च तस्मात्सुखार्थी मतिमाञ्ज्ञानवैराग्यमास्थितः
इंद्रियाश्वान्निगृह्याशु स्वात्मनात्मानमुद्धरेत् धारणा नाम चित्तस्य स्थानबन्धस्समासतः
स्थानं च शिव एवैको नान्यद्दोषत्रयं यतः कालं कंचावधीकृत्य स्थाने ऽवस्थापितं मनः
न तु प्रच्यवते लक्ष्याद्धारणा स्यान्न चान्यथा मनसः प्रथमं स्थैर्यं धारणातः प्रजायते
तस्माद्धीरं मनः कुर्याद्धारणाभ्यासयोगतः ध्यै चिंतायां स्मृतो धातुः शिवचिंता मुहुर्मुहुः
अव्याक्षिप्तेन मनसा ध्यानं नाम तदुच्यते ध्येयावस्थितचित्तस्य सदृशः प्रत्ययश्च यः
प्रत्ययान्तरनिर्मुक्तः प्रवाहो ध्यानमुच्यते सर्वमन्यत्परित्यज्य शिव एव शिवंकरः
परो ध्येयो ऽधिदेवेशः समाप्ताथर्वणी श्रुतिः तथा शिवा परा ध्येया सर्वभूतगतौ शिवौ
तौ श्रुतौ स्मृतिशास्त्रेभ्यः सर्वगौ सर्वदोदितौ सर्वज्ञौ सततं ध्येयौ नानारूपविभेदतः
विमुक्तिः प्रत्ययः पूर्वः प्रत्ययश्चाणिमादिकम् इत्येतद्द्विविधं ज्ञेयं ध्यानस्यास्य प्रयोजनम्
ध्याता ध्यानं तथा ध्येयं यच्च ध्यानप्रयोजनम् एतच्चतुष्टयं ज्ञात्वा योगं युञ्जीत योगवित्
ज्ञानवैराग्यसंपन्नः श्रद्दधानः क्षमान्वितः निर्ममश्च सदोत्साही ध्यातेत्थं पुरुषः स्मृतः
जपाच्छ्रांतः पुनर्ध्यायेद्ध्यानाच्छ्रांतः पुनर्जपेत् जपध्यनाभियुक्तस्य क्षिप्रं योगः प्रसिद्ध्यति
धारणा द्वादशायामा ध्यानं द्वादशधारणम् ध्यानद्वादशकं यावत्समाधिरभिधीयते