शिवस्वभाव एवैकश्चिंत्यते निरुपाधिकः यथा शैवमनोवृत्तिर्महायोग इहोच्यते
दृष्टे तथानुश्रविके विरक्तं विषये मनः यस्य तस्याधिकारोस्ति योगे नान्यस्य कस्यचित्
विषयद्वयदोषाणां गुणानामीश्वरस्य च दर्शनादेव सततं विरक्तं जायते मनः
अष्टांगो वा षडंगो वा सर्वयोगः समासतः यमश्च नियमश्चैव स्वस्तिकाद्यं तथासनम्
प्राणायामः प्रत्याहारो धारणा ध्यानमेव च समाधिरिति योगांगान्यष्टावुक्तानि सूरिभिः
आसनं प्राणसंरोधः प्रत्याहारोथ धारणा ध्यानं समाधिर्योगस्य षडंगानि समासतः
पृथग्लक्षणमेतेषां शिवशास्त्रे समीरितम् शिवागमेषु चान्येषु विशेषात्कामिकादिषु
योगशास्त्रेष्वपि तथा पुराणेष्वपि केषु च अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहः यम इत्युच्यते सद्भिः पञ्चावयवयोगतः
शौचं तुष्टिस्तपश्चैव जपः प्रणिधिरेव च इति पञ्चप्रभेदस्स्यान्नियमः स्वांशभेदतः
स्वस्तिकं पद्ममध्येंदुं वीरं योगं प्रसाधितम् पर्यंकं च यथेष्टं च प्रोक्तमासनमष्टधा
प्राणः स्वदेहजो वायुस्तस्यायामो निरोधनम् तद्रोचकं पूरकं च कुंभकं च त्रिधोच्यते
नासिकापुटमंगुल्या पीड्यैकमपरेण तु औदरं रेचयेद्वायुं तथायं रेचकः स्मृतः
बाह्येन मरुता देहं दृतिवत्परिपूरयेत् नासापुटेनापरेण पूरणात्पूरकं मतम्
न मुंचति न गृह्णाति वायुमंतर्बहिः स्थितम् संपूर्णं कुंभवत्तिष्ठेदचलः स तु कुंभक
रेचकाद्यं त्रयमिदं न द्रुतं न विलंबितम् तद्यतः क्रमयोगेन त्वभ्यसेद्योगसाधकः
रेचकादिषु योभ्यासो नाडीशोधनपूर्वकः स्वेच्छोत्क्रमणपर्यंतः प्रोक्तो योगानुशासने
कन्यकादिक्रमवशात्प्राणायामनिरोधनम् तच्चतुर्धोपदिष्टं स्यान्मात्रागुणविभागतः
कन्यकस्तु चतुर्धा स्यात्स च द्वादशमात्रकः मध्यमस्तु द्विरुद्धातश्चतुर्विंशतिमात्रकः
उत्तमस्तु त्रिरुद्धातः षड्विंशन्मात्रकः परः स्वेदकंपादिजनकः प्राणायामस्तदुत्तरः
आनंदोद्भवरोमांचनेत्राश्रूणां विमोचनम् जल्पभ्रमणमूर्छाद्यं जायते योगिनः परम्
जानुं प्रदक्षिणीकृत्य न द्रुतं न विलंबितम् अंगुलीस्फोटनं कुर्यात्सा मात्रेति प्रकीर्तिता
मात्राक्रमेण विज्ञेयाश्चोद्वातक्रमयोगतः नाडीविशुद्धिपूर्वं तु प्राणायामं समाचरेत्
अगर्भश्च सगर्भश्च प्राणायामो द्विधा स्मृतः जपं ध्यानं विनागर्भः सगर्भस्तत्समन्वयात्
अगर्भाद्गर्भसंयुक्तः प्राणायामःशताधिकः तस्मात्सगर्भं कुर्वन्ति योगिनः प्राणसंयमम्
प्राणो ऽपानः समानश्च ह्युदानो व्यान एव च
नागः कूर्मश्च कृकलो देवदत्तो धनंजयः प्रयाणं कुरुते यस्मात्तस्मात्प्राणो ऽभिधीयते
अवाङ्नयत्यपानाख्यो यदाहारादि भुज्यते व्यानो व्यानशयत्यंगान्यशेषाणि विवर्धयन्
उद्वेजयति मर्माणीत्युदानो वायुरीरितः समं नयति सर्वांगं समानस्तेन गीयते
उद्गारे नाग आख्यातः कूर्म उन्मीलने स्थितः कृकलः क्षवथौ ज्ञेयो देवदत्तो विजृंभणे
न जहाति मृतं चापि सर्वव्यापी धनंजयः क्रमेणाभ्यस्यमानोयं प्राणायामप्रमाणवान्