देवीं कृत्वा शुभे देशे तत्राब्जं पूर्ववल्लिखेत् विकीर्य पत्रपुष्पाद्यैर्मध्ये कुंभं निधाय च
परितस्तस्य चतुरः कलशान् दिक्षु विन्यसेत् पञ्च ब्रह्माणि तद्बीजैस्तेषु पञ्चसु पञ्चभिः
न्यस्य संपूज्य मुद्रादि दर्शयित्वाभिरक्ष्य च विशोध्य लिंगं बेरं वा मृत्तोयाद्यैर्यथा पुरा
स्थापयेत्पुष्पसंछन्नमुत्तरस्थे वरासने निधाय पुष्पं शिरसि प्रोक्षयेत्प्रोक्षणीजलैः
समभ्यर्च्य पुनः पुष्पैर्जयशब्दादिपूर्वकम् कुम्भैरीशानविद्यांतैः स्नापयेन्मूलविद्यया
ततः पञ्चकलान्यासं कृत्वा पूजां च पूर्ववत् नित्यमाराधयेत्तत्र देव्या देवं त्रिलोचनम्
एकमेवाथ वा कुंभं मूर्तिमन्त्रसमन्वितम् न्यस्य पद्मांतरे सर्वं शेषं पूर्ववदाचरेत्
अत्यंतोपहतं लिंगं विशोध्य स्थापयेत्पुनः संप्रोक्षयेदुपहतमनागुपहतं यजेत्
लिंगानि बाणसंज्ञानि स्थापनीयानि वा न वा तानि पूर्वं शिवेनैव संस्कृतानि यतस्ततः
शेषाणि स्थापनीयानि यानि दृष्टानि बाणवत् स्वयमुद्भूतलिंगे च दिव्ये चार्षे तथैव च
अपीठे पीठमावेश्य कृत्वा संप्रोक्षणं विधिम् यजेत्तत्र शिवं तेषां प्रतिष्ठा न विधीयते
दग्धं श्लथं क्षतांगं च क्षिपेल्लिंगं जलाशये संधानयोग्यं संधाय प्रतिष्ठाविधिमाचरेत्
बेराद्वा विकलाल्लिंगाद्देवपूजापुरस्सरम् उद्वास्य हृदि संधानं त्यागं वा युक्तमाचरेत्
एकाहपूजाविहतौ कुर्याद्द्विगुणमर्चनम् द्विरात्रे च महापूजां संप्रोक्षणमतः परम्
मासादूर्ध्वमनेकाहं पूजा यदि विहन्यते प्रतिष्ठा प्रोच्यते कैश्चित्कैश्चित्संप्रोक्षणक्रमः
संप्रोक्षणे तु लिंगादेर्देवमुद्वास्य पूर्ववत् अष्टपञ्चक्रमेणैव स्नापयित्वा मृदंभसा
गवां रसैश्च संस्नाप्य दर्भतोयैर्विशोध्य च प्रोक्षयेत्प्रोक्षणीतोयैर्मूलेनाष्टोत्तरं शतम्
सपुष्पं सकुशं पाणिं न्यस्य लिंगस्य मस्तके पञ्चवारं जपेन्मूलमष्टोत्तरशतं ततः
ततो मूलेन मूर्धादिपीठांतं संस्पृशेदपि पूजां च महतीं कुर्याद्देवमावाह्य पूर्ववत्
अलब्धे स्थापिते लिंगे शिवस्थाने जले ऽथ वा वह्नौ रवौ तथा व्योम्नि भगवंतं शिवं यजेत्
ज्ञाने क्रियायां चर्यायां सारमुद्धृत्य संग्रहात् उक्तं भगवता सर्वं श्रुतं श्रुतिसमं मया
इदानीं श्रोतुमिच्छामि योगं परमदुर्लभम् साधिकारं च सांगं च सविधिं सप्रयोजनम्
यद्यस्ति मरणं पूर्वं योगाद्यनुपमर्दतः सद्यः साधयितुं शक्यं येन स्यान्नात्महा नरः
तच्च तत्कारणं चैव तत्कालकरणानि च तद्भेदतारतम्यं च वक्तुमर्हसि तत्त्वतः
स्थाने पृष्टं त्वया कृष्ण सर्वप्रश्नार्थवेदिना ततः क्रमेण तत्सर्वं वक्ष्ये शृणु समाहितः
निरुद्धवृत्त्यंतरस्यं शिवे चित्तस्य निश्चला या वृत्तिः स समासेन योगः स खलु पञ्चधा
मंत्रयोगःस्पर्शयोगो भावयोगस्तथापरः अभावयोगस्सर्वेभ्यो महायोगः परो मतः
मंत्राभ्यासवशेनैव मंत्रवाच्यार्थगोचरः अव्याक्षेपा मनोवृत्तिर्मंत्रयोग उदाहृतः
प्राणायाममुखा सैव स्पर्शे योगोभिधीयते स मंत्रस्पर्शनिर्मुक्तो भावयोगः प्रकीर्तितः
विलीनावयवं विश्वं रूपं संभाव्यते यतः अभावयोगः संप्रोक्तो ऽनाभासाद्वस्तुनः सतः