कृत्वा पञ्चकलान्यासं दीप्तं लिंगमनुस्मरेत् आवाहयेच्छिवौ साक्षात्प्राञ्जलिः प्रागुदङ्मुखः
वृषाधिराजमारुह्य विमानं वा नभस्तलात् अलंकृतं सहायांतं देव्या देवमनुस्मरन् सर्वाभरणशोभाढ्यं सर्वमंगलनिस्वनैः
ब्रह्मविष्णुमहेशार्कशक्राद्यैर्देवदानवैः आनंदक्लिन्नसर्वांगैर्विन्यस्तांजलिमस्तकैः
स्तुवद्भिरेव नृत्यद्भिर्नामद्भिरभितो वृतम् ततः पञ्चोपचारांश्च कृत्वा पूजां समापयेत्
नातः परतरः कश्चिद्विधिः पञ्चोपचारकात् प्रतिष्ठां लिंगवत्कुर्यात्प्रतिमास्वपि सर्वतः
लक्षणोद्धारसमये कार्यं नयनमोचनम् जलाधिवासे शयने शाययेत्तान्त्वधोमुखीम्
कुम्भोदशायितां मंत्रैर्हृदि तां सन्नियोजयेत् कृतालयां परामाहुः प्रतिष्ठामकृतालयात्
शक्तः कृतालयः पश्चात्प्रतिष्ठाविधिमाचरेत् अशक्तश्चेत्प्रतिष्ठाप्य लिंगं बेरमथापि वा
शक्तेरनुगुणं पश्चात्प्रकुर्वीत शिवालयम् गृहार्चां च पुनर्वक्ष्ये प्रतिष्ठाविधिमुत्तमम्
कृत्वा कनीयसंबेरं लिंगं वा लक्षणान्वितम् अयने चोत्तरे प्राप्ते शुक्लपक्शे शुभे दिने
देवीं कृत्वा शुभे देशे तत्राब्जं पूर्ववल्लिखेत् विकीर्य पत्रपुष्पाद्यैर्मध्ये कुंभं निधाय च
परितस्तस्य चतुरः कलशान् दिक्षु विन्यसेत् पञ्च ब्रह्माणि तद्बीजैस्तेषु पञ्चसु पञ्चभिः
न्यस्य संपूज्य मुद्रादि दर्शयित्वाभिरक्ष्य च विशोध्य लिंगं बेरं वा मृत्तोयाद्यैर्यथा पुरा
स्थापयेत्पुष्पसंछन्नमुत्तरस्थे वरासने निधाय पुष्पं शिरसि प्रोक्षयेत्प्रोक्षणीजलैः
समभ्यर्च्य पुनः पुष्पैर्जयशब्दादिपूर्वकम् कुम्भैरीशानविद्यांतैः स्नापयेन्मूलविद्यया
ततः पञ्चकलान्यासं कृत्वा पूजां च पूर्ववत् नित्यमाराधयेत्तत्र देव्या देवं त्रिलोचनम्
एकमेवाथ वा कुंभं मूर्तिमन्त्रसमन्वितम् न्यस्य पद्मांतरे सर्वं शेषं पूर्ववदाचरेत्
अत्यंतोपहतं लिंगं विशोध्य स्थापयेत्पुनः संप्रोक्षयेदुपहतमनागुपहतं यजेत्
लिंगानि बाणसंज्ञानि स्थापनीयानि वा न वा तानि पूर्वं शिवेनैव संस्कृतानि यतस्ततः
शेषाणि स्थापनीयानि यानि दृष्टानि बाणवत् स्वयमुद्भूतलिंगे च दिव्ये चार्षे तथैव च
अपीठे पीठमावेश्य कृत्वा संप्रोक्षणं विधिम् यजेत्तत्र शिवं तेषां प्रतिष्ठा न विधीयते
दग्धं श्लथं क्षतांगं च क्षिपेल्लिंगं जलाशये संधानयोग्यं संधाय प्रतिष्ठाविधिमाचरेत्
बेराद्वा विकलाल्लिंगाद्देवपूजापुरस्सरम् उद्वास्य हृदि संधानं त्यागं वा युक्तमाचरेत्
एकाहपूजाविहतौ कुर्याद्द्विगुणमर्चनम् द्विरात्रे च महापूजां संप्रोक्षणमतः परम्
मासादूर्ध्वमनेकाहं पूजा यदि विहन्यते प्रतिष्ठा प्रोच्यते कैश्चित्कैश्चित्संप्रोक्षणक्रमः
संप्रोक्षणे तु लिंगादेर्देवमुद्वास्य पूर्ववत् अष्टपञ्चक्रमेणैव स्नापयित्वा मृदंभसा
गवां रसैश्च संस्नाप्य दर्भतोयैर्विशोध्य च प्रोक्षयेत्प्रोक्षणीतोयैर्मूलेनाष्टोत्तरं शतम्
सपुष्पं सकुशं पाणिं न्यस्य लिंगस्य मस्तके पञ्चवारं जपेन्मूलमष्टोत्तरशतं ततः
ततो मूलेन मूर्धादिपीठांतं संस्पृशेदपि पूजां च महतीं कुर्याद्देवमावाह्य पूर्ववत्
अलब्धे स्थापिते लिंगे शिवस्थाने जले ऽथ वा वह्नौ रवौ तथा व्योम्नि भगवंतं शिवं यजेत्