सह पिंडिकयावेष्ट्य शाययेच्च यथा पुरा पुरस्तात्पद्ममालिख्य तद्दलेषु यथाक्रमम्
विद्येशकलशान्न्यस्येन्मध्ये शैवीं च वर्धनीम् परीत्य पद्मत्रितयं जुहुयुर्द्विजसत्तमाः
ते चाष्टमूर्तयः कल्प्याः पूर्वादिपरितः स्थिताः चत्वारश्चाथ वा दिक्षु स्वध्येतारस्सजापकाः
जुहुयुस्ते विरंच्याद्याश्चतस्रो मूर्तयः स्मृताः दैशिकः प्रथमं तेषामैशान्यां पश्चिमे ऽथ वा
प्रधानहोमं कुर्वीत सप्तद्रव्यैर्यथाक्रमम् आचार्यात्पादमर्धं वा जुहुयुश्चापरे द्विजाः
प्रधानमेकमेवात्र जुहुयादथ वा गुरुः पूर्वं पूर्णाहुतिं हुत्वा घृतेनाष्टोत्तरं शतम्
मूर्ध्नि मूलेन लिंगस्य शिवहस्तं प्रविन्यसेत् शतमर्धं तदर्धं वा क्रमाद्द्रव्यैश्च सप्तभिः
हुत्वाहुत्वा स्पृशेल्लिंगं वेदिकां च पुनः पुनः पूर्णाहुतिं ततो हुत्वा क्रमाद्दद्याच्च दक्षिणाम्
आचार्यात्पादमर्धं वा होत्ःणां स्थपतेरपि तदर्धं देयमन्येभ्यः सदस्येभ्यश्च शक्तितः
ततः श्वभ्रे वृषं हैमं कूर्चं वापि निवेश्य च मृदंभसा पञ्चगव्यैः पुनः शुद्धजलेन च
शोधितां चंदनालिप्तां श्वभ्रे ब्रह्मशिलां क्षिपेत् करन्यासं ततः कृत्वा नवभिः शक्तिनामभिः
हरितालादिधातूंश्च बीजगंधौषधैरपि शिवशास्त्रोक्तविधिना क्षिपेद्ब्रह्मशिलोपरि
प्रतिलिंगं तु संस्थाप्य क्षीरं वृक्षसमुद्भवम् स्थितं बुद्ध्वा तदुत्सृज्य लिंगं ब्रह्मशिलोपरि
प्रागुदक्प्रवरां किंचित्स्थापयेन्मूलविद्यया पिंडिकां चाथ संयोज्य शाक्तं मूलमनुस्मरन्
बन्धनं बंधकद्रव्यैः कृत्वा स्थानं विशोध्य च दत्त्वा चार्घ्यं च पुष्पाणि कुर्युर्यवनिकां पुनः
यथायोग्यं निषेकादि लिंगस्य पुरतस्तदा आनीय शयनस्थानात्कलशान्विन्यसेत्क्रमात्
महापूजामथारभ्य संपूज्य कलशान्दश शिवमंत्रमनुस्मृत्य शिवकुंभजलांतरे
अंगुष्ठानामिकायोगादादाय तमुदीरयेत् न्यसेदीशानभागस्य मध्ये लिंगस्य मंत्रवित्
शक्तिं न्यसेत्तथा विद्यां विद्येशांश्च यथाक्रमम् लिङ्गमूले शिवजलैस्ततो लिंगं निषेचयेत्
वर्धन्यां पिंडिकालिंगं विद्येशकलशैः पुनः अभिषिच्यासनं पश्चादाधाराद्यं प्रकल्पयेत्
कृत्वा पञ्चकलान्यासं दीप्तं लिंगमनुस्मरेत् आवाहयेच्छिवौ साक्षात्प्राञ्जलिः प्रागुदङ्मुखः
वृषाधिराजमारुह्य विमानं वा नभस्तलात् अलंकृतं सहायांतं देव्या देवमनुस्मरन् सर्वाभरणशोभाढ्यं सर्वमंगलनिस्वनैः
ब्रह्मविष्णुमहेशार्कशक्राद्यैर्देवदानवैः आनंदक्लिन्नसर्वांगैर्विन्यस्तांजलिमस्तकैः
स्तुवद्भिरेव नृत्यद्भिर्नामद्भिरभितो वृतम् ततः पञ्चोपचारांश्च कृत्वा पूजां समापयेत्
नातः परतरः कश्चिद्विधिः पञ्चोपचारकात् प्रतिष्ठां लिंगवत्कुर्यात्प्रतिमास्वपि सर्वतः
लक्षणोद्धारसमये कार्यं नयनमोचनम् जलाधिवासे शयने शाययेत्तान्त्वधोमुखीम्
कुम्भोदशायितां मंत्रैर्हृदि तां सन्नियोजयेत् कृतालयां परामाहुः प्रतिष्ठामकृतालयात्
शक्तः कृतालयः पश्चात्प्रतिष्ठाविधिमाचरेत् अशक्तश्चेत्प्रतिष्ठाप्य लिंगं बेरमथापि वा
शक्तेरनुगुणं पश्चात्प्रकुर्वीत शिवालयम् गृहार्चां च पुनर्वक्ष्ये प्रतिष्ठाविधिमुत्तमम्
कृत्वा कनीयसंबेरं लिंगं वा लक्षणान्वितम् अयने चोत्तरे प्राप्ते शुक्लपक्शे शुभे दिने