ज्ञानसिद्ध्या मोक्षसिद्धिः सर्वेषां गुर्वनुग्रहात् मोक्षात्स्वरूपसिद्धिः स्यात्परानन्दं समश्नुते
सत्संगात्सर्वमेतद्वै नराणां जायते द्विजाः धनधान्यादिकं सर्वं देयं वै गृहमेधिना
यद्यत्काले वस्तुजातं फलं वा धान्यमेव च तत्तत्सर्वं ब्राह्मणेभ्यो देयं वै हितमिच्छता
जलं चैव सदा देयमन्नं क्षुद्व्याधिशांतये क्षेत्रं धान्यं तथा ऽ ऽमान्नमन्नमेवं चतुर्विधम्
यावत्कालं यदन्नं वै भुक्त्वा श्रवणमेधते तावत्कृतस्य पुण्यस्य त्वर्धं दातुर्न संशयः
ग्रहीताहिगृहीतस्य दानाद्वै तपसा तथा पापसंशोधनं कुर्यादन्यथा रौरवं व्रजेत्
आत्मवित्तं त्रिधा कुर्याद्धर्मवृद्ध्यात्मभोगतः नित्यं नैमित्तकं काम्यं कर्म कुर्यात्तु धर्मतः
वित्तस्य वर्धनं कुर्याद्वृद्ध्यंशेन हि साधकः हितेन मितमे ध्येन भोगं भोगांशतश्चरेत्
कृष्यर्जिते दशांशं हि देयं पापस्य शुद्धये शेषेण कुर्याद्धर्मादि अन्यथा रौरवं व्रजेत्
अथवा पापबुद्धिः स्यात्क्षयं वा सत्यमेष्यति वृद्धिवाणिज्यके देयष्षडंशो हि विचक्षणैः
शुद्धप्रतिग्रहे देयश्चतुर्थांशो द्विजोत्तमैः अकस्मादुत्थिते ऽर्थे हि देयमर्धं द्विजोत्तमैः
असत्प्रतिग्रहसर्वं दुर्दानं सागरे क्षिपेत् आहूय दानं कर्तव्यमात्मभोगसमृद्धये
पृष्टं सर्वं सदा देयमात्मशक्त्यनुसारतः जन्मांतरे ऋणी हि स्याददत्ते पृष्टवस्तुनि
परेषां च तथा दोषं न प्रशंसेद्विचक्षणः विशेषेण तथाब्रह्मञ्छ्रुतं दृष्टं च नो वदेत्
न वदेत्सर्वजंतूनां हृदि रोषकरं बुधः संध्ययोरग्निकार्यं च कुर्यादैश्वर्यसिद्धये
अशक्तस्त्वेककाले वा सूर्याग्नी च यथाविधि तंडुलं धान्यमाज्यं वा फलं कंदं हविस्तथा
स्थालीपाकं तथा कुर्याद्यथान्यायं यथाविधि प्रधानहोममात्रं वा हव्याभावे समाचरेत्
नित्यसंधानमित्युक्तं तमजस्रं विदुर्बुधाः अथवा जपमात्रं वा सूर्यवंदनमेव च
एवमात्मार्थिनः कुर्युरर्थार्थी च यथाविधि ब्रह्मयज्ञरता नित्यं देवपूजारतास्तथा
अग्निपूजापरा नित्यं गुरुपूजारतास्तथा ब्राह्मणानां तृप्तिकराः सर्वे स्वर्गस्य भागिनः
अग्नियज्ञदेवयज्ञं ब्रह्मयज्ञं तथैव च गुरुपूजां ब्रह्मतृप्तिं क्रमेण ब्रूहि नः प्रभो
अग्नौ जुहोति यद्द्रव्यमग्नियज्ञः स उच्यते ब्रह्मचर्याश्रमस्थानां समिदाधानमेव हि
समिदग्रौ व्रताद्यं च विशेषयजनादिकम् प्रथमाश्रमिणामेवं यावदौपासनं द्विजाः
आत्मन्यारोपिताग्नीनां वनिनां यतिनां द्विजाः हितं च मितमेध्यान्नं स्वकाले भोजनं हुतिः
औपासनाग्निसंधानं समारभ्य सुरक्षितम् कुंडे वाप्यथ भांडे वा तदजस्रं समीरितम्
अग्निमात्मन्यरण्यां वा राजदैववशाद्ध्रुवम् अग्नित्यागभयादुक्तं समारोपितमुच्यते
संपत्करी तथा ज्ञेया सायमग्न्याहुतिर्द्विजाः आयुष्करीति विज्ञेया प्रातः सूर्याहुतिस्तथा
अग्नियज्ञो ह्ययं प्रोक्तो दिवा सूर्यनिवेशनात् इंद्रादीन्सकलान्देवानुद्दिश्याग्नौ जुहोतियत्
देवयज्ञं हि तं विद्यात्स्थालीपाकादिकान्क्रतून् चौलादिकं तथा ज्ञेयं लौकिकाग्नौ प्रतिष्ठितम्
ब्रह्मयज्ञं द्विजः कुर्याद्देवानां तृप्तये सकृत् ब्रह्मयज्ञ इति प्रोक्तो वेदस्या ऽध्ययनं भवेत्