भगवञ्छ्रोतुमिच्छामि प्रतिष्ठाविधिमुत्तमम् लिंगस्यापि च बेरस्य शिवेन विहितं यथा
अनात्मप्रतिकूले तु दिवसे शुक्लपक्षके शिवशास्त्रोक्तमार्गेण कुर्याल्लिंगं प्रमाणवत्
स्वीकृत्याथ शुभस्थानं भूपरीक्षां विधाय च दशोपचारान्कुर्वीत लक्षणोद्धारपूर्वकान्
स्थानशुद्ध्यादिकं कृत्वालिंगं स्नानालयं नयेत्
लक्षितं लक्षणं शिल्पशास्त्रेण विलिखेत्ततः
अष्टमृत्सलिलैर्वाथ पञ्चमृत्सलिलैस्तथा लिङ्गं पिंडिकया सार्धं पञ्चगव्यैश्च शोधयेत्
सवेदिकं समभ्यर्च्य दिव्याद्यं तु जलाशयम् नीत्वाधिवासयेत्तत्र लिंगं पिंडिकया सह
अधिवासालये शुद्धे सर्वशोभासमन्विते सतोरणे सावरणे दर्भमालासमावृते
दिग्गजाष्टकसंपन्ने दिक्पालाष्टघटान्विते अष्टमंगलकैर्युक्ते कृतदिक्पालकार्चिते
तेजसं दारवं वापि कृत्वा पद्मासनांकितम् विन्यसेन्मध्यतस्तत्र विपुलं पीठकालयम्
द्वारपालान्समभ्यर्च्य भद्रादींश्चतुरःक्रमात् समुद्रश्च विभद्रश्च सुनंदश्च विनंदकः
स्नापयित्वा समभ्यर्च्य लिंगं वेदिकया सह सकूर्चाभ्यां तु वस्त्राभ्यां समावेष्ट्यं समंततः
प्रापय्य शनकैस्तोयं पीठिकोपरि शाययेत् प्राक्शिरस्कमधःसूत्रं पिंडिकां चास्य पश्चिमे
सर्वमंगलसंयुक्तं लिंगं तत्राधिवासयेत् पञ्चरात्रं त्रिरात्रं वाप्येकरात्रमथापि वा
विसृज्य पूजितं तत्र शोधयित्वा च पूर्ववत् संपूज्योत्सवमार्गेण शयनालयमानयेत्
तत्रापि शयनस्थानं कुर्यान्मंडलमध्यतः शुद्धैर्जलैः स्नापयित्वा लिंगमभ्यर्चयेत्क्रमात्
ऐशान्यां पद्ममालिख्य शुद्धलिप्ते महीतले शिवकुंभं शोधयित्वा तत्रावाह्य शिवं यजेत्
वेदीमध्ये सितं पद्मं परिकल्प्य विधानतः तस्य पश्चिमतश्चापि चंडिकापद्ममालिखेत्
क्षौमाद्यैर्वाहतैर्वस्त्रैः पुष्पैर्दर्भैरथापि वा प्रकल्प्य शयनं तस्मिन्हेमपुष्पं विनिक्षिपेत्
तत्र लिंगं समानीय सर्वमंगलनिःस्वनैः रक्तेन वस्त्रयुग्मेन सकूर्चेन समंततः
सह पिंडिकयावेष्ट्य शाययेच्च यथा पुरा पुरस्तात्पद्ममालिख्य तद्दलेषु यथाक्रमम्
विद्येशकलशान्न्यस्येन्मध्ये शैवीं च वर्धनीम् परीत्य पद्मत्रितयं जुहुयुर्द्विजसत्तमाः
ते चाष्टमूर्तयः कल्प्याः पूर्वादिपरितः स्थिताः चत्वारश्चाथ वा दिक्षु स्वध्येतारस्सजापकाः
जुहुयुस्ते विरंच्याद्याश्चतस्रो मूर्तयः स्मृताः दैशिकः प्रथमं तेषामैशान्यां पश्चिमे ऽथ वा
प्रधानहोमं कुर्वीत सप्तद्रव्यैर्यथाक्रमम् आचार्यात्पादमर्धं वा जुहुयुश्चापरे द्विजाः
प्रधानमेकमेवात्र जुहुयादथ वा गुरुः पूर्वं पूर्णाहुतिं हुत्वा घृतेनाष्टोत्तरं शतम्
मूर्ध्नि मूलेन लिंगस्य शिवहस्तं प्रविन्यसेत् शतमर्धं तदर्धं वा क्रमाद्द्रव्यैश्च सप्तभिः
हुत्वाहुत्वा स्पृशेल्लिंगं वेदिकां च पुनः पुनः पूर्णाहुतिं ततो हुत्वा क्रमाद्दद्याच्च दक्षिणाम्
आचार्यात्पादमर्धं वा होत्ःणां स्थपतेरपि तदर्धं देयमन्येभ्यः सदस्येभ्यश्च शक्तितः
ततः श्वभ्रे वृषं हैमं कूर्चं वापि निवेश्य च मृदंभसा पञ्चगव्यैः पुनः शुद्धजलेन च