युवाभ्यां हि मया दत्ता कारणत्वप्रसिद्धये मंत्ररत्नं च सूत्राख्यं पञ्चाक्षरमयं परम्
मयोपदिष्टं सर्वं तद्युवयोरद्य विस्मृतम् ददामि च पुनः सर्वं यथापूर्वं ममाज्ञया
यतो विना युवां तेन न क्षमौ सृष्टिरक्षणे एवमुक्त्वा महादेवो नारायणपितामहौ
मंत्रराजं ददौ ताभ्यां ज्ञानसंहितया सह तौ लब्ध्वा महतीं दिव्यामाज्ञां माहेश्वरीं पराम्
महार्थं मंत्ररत्नं च तथैव सकलाः कलाः दंडवत्प्रणतिं कृत्वा देवदेवस्य पादयोः
अतिष्ठतां वीतभयावानंदास्तिमितौ तदा एतस्मिन्नंतरे चित्रमिंद्रजालवदैश्वरम्
लिंगं क्वापि तिरोभूतं न ताभ्यामुपलभ्यते ततो विलप्य हाहेति सद्यःप्रणयभंगतः
किमसत्यमिदं वृत्तमिति चोक्त्वा परस्परम् अचिंत्यवैभवं शंभोर्विचिंत्य च गतव्यथौ
अभ्युपेत्य परां मैत्रीमालिंग्य च परस्परम् जगद्व्यापारमुद्दिश्य जग्मतुर्देवपुंगवौ
ततः प्रभृति शक्राद्याः सर्व एव सुरासुराः ऋषयश्च नरा नागा नार्यश्चापि विधानतः लिंगप्रतिष्ठा कुर्वंति लिंगे तं पूजयंति च
भगवञ्छ्रोतुमिच्छामि प्रतिष्ठाविधिमुत्तमम् लिंगस्यापि च बेरस्य शिवेन विहितं यथा
अनात्मप्रतिकूले तु दिवसे शुक्लपक्षके शिवशास्त्रोक्तमार्गेण कुर्याल्लिंगं प्रमाणवत्
स्वीकृत्याथ शुभस्थानं भूपरीक्षां विधाय च दशोपचारान्कुर्वीत लक्षणोद्धारपूर्वकान्
स्थानशुद्ध्यादिकं कृत्वालिंगं स्नानालयं नयेत्
लक्षितं लक्षणं शिल्पशास्त्रेण विलिखेत्ततः
अष्टमृत्सलिलैर्वाथ पञ्चमृत्सलिलैस्तथा लिङ्गं पिंडिकया सार्धं पञ्चगव्यैश्च शोधयेत्
सवेदिकं समभ्यर्च्य दिव्याद्यं तु जलाशयम् नीत्वाधिवासयेत्तत्र लिंगं पिंडिकया सह
अधिवासालये शुद्धे सर्वशोभासमन्विते सतोरणे सावरणे दर्भमालासमावृते
दिग्गजाष्टकसंपन्ने दिक्पालाष्टघटान्विते अष्टमंगलकैर्युक्ते कृतदिक्पालकार्चिते
तेजसं दारवं वापि कृत्वा पद्मासनांकितम् विन्यसेन्मध्यतस्तत्र विपुलं पीठकालयम्
द्वारपालान्समभ्यर्च्य भद्रादींश्चतुरःक्रमात् समुद्रश्च विभद्रश्च सुनंदश्च विनंदकः
स्नापयित्वा समभ्यर्च्य लिंगं वेदिकया सह सकूर्चाभ्यां तु वस्त्राभ्यां समावेष्ट्यं समंततः
प्रापय्य शनकैस्तोयं पीठिकोपरि शाययेत् प्राक्शिरस्कमधःसूत्रं पिंडिकां चास्य पश्चिमे
सर्वमंगलसंयुक्तं लिंगं तत्राधिवासयेत् पञ्चरात्रं त्रिरात्रं वाप्येकरात्रमथापि वा
विसृज्य पूजितं तत्र शोधयित्वा च पूर्ववत् संपूज्योत्सवमार्गेण शयनालयमानयेत्
तत्रापि शयनस्थानं कुर्यान्मंडलमध्यतः शुद्धैर्जलैः स्नापयित्वा लिंगमभ्यर्चयेत्क्रमात्
ऐशान्यां पद्ममालिख्य शुद्धलिप्ते महीतले शिवकुंभं शोधयित्वा तत्रावाह्य शिवं यजेत्
वेदीमध्ये सितं पद्मं परिकल्प्य विधानतः तस्य पश्चिमतश्चापि चंडिकापद्ममालिखेत्
क्षौमाद्यैर्वाहतैर्वस्त्रैः पुष्पैर्दर्भैरथापि वा प्रकल्प्य शयनं तस्मिन्हेमपुष्पं विनिक्षिपेत्
तत्र लिंगं समानीय सर्वमंगलनिःस्वनैः रक्तेन वस्त्रयुग्मेन सकूर्चेन समंततः