एकाक्षरादुकाराख्याद्द्विधा विष्णुरुदीर्यते एकाक्षरान्मकाराख्याच्छिवो रुद्र उदाहृतः
दक्षिणांगान्महेशस्य जातो ब्रह्मात्मसंज्ञिकः वामांगादभवद्विष्णुस्ततो विद्येति संज्ञितः
हृदयान्नीलरुद्रो भूच्छिवस्य शिवसंज्ञिकः सृष्टेः प्रवर्तको ब्रह्मा स्थितेर्विष्णुर्विमोहकः
संहारस्य तथा रुद्रस्तयोर्नित्यं नियामकः
तस्मात्त्रयस्ते कथ्यंते जगतः कारणानि च कारणत्रयहेतुश्च शिवः परमकारणम्
अर्थमेतमविज्ञाय रजसा बद्धवैरयोः युवयोः प्रतिबोधाय मध्ये लिंगमुपस्थितम्
एवमोमिति मां प्राहुर्यदिहोक्तमथर्वणा ऋचो यजूंषि सामानि शाखाश्चान्याः सहस्रशः
वेदेष्वेवं स्वयं वक्त्रैर्व्यक्तमित्यवदत्स्वपि स्वप्नानुभूतमिव तत्ताभ्यां नाध्यवसीयते
तयोस्तत्र प्रबोधाय तमोपनयनाय च लिंगेपि मुद्रितं सर्वं यथा वेदैरुदाहृतम्
तद्दृष्ट्वा मुद्रितं लिंगे प्रसादाल्लिंगिनस्तदा प्रशांतमनसौ देवौ प्रबुद्धौ संबभूवतुः
उत्पत्तिं विलयं चैव यथात्म्यं च षडध्वनाम् ततः परतरं धाम धामवंतं च पूरुषम्
निरुत्तरतरं ब्रह्म निष्कलं शिवमीश्वरम् पशुपाशमयस्यास्य प्रपञ्चस्य सदा पतिम्
अकुतोभयमत्यंतमवृद्धिक्षयमव्ययम् वाह्यमाभ्यंतरं व्याप्तं वाह्याभ्यंतरवर्जितम्
निरस्तातिशयं शश्वद्विश्वलोकविलक्षणम् अलक्षणमनिर्देश्यमवाङ्मनसगोचरम्
प्रकाशैकरसं शांतं प्रसन्नं सततोदितम् सर्वकल्याणनिलयं शक्त्या तादृशयान्वितम्
ज्ञात्वा देवं विरूपाक्षं ब्रह्मनारायणौ तदा रचयित्वांजलिं मूर्ध्नि भीतौ तौ वाचमूचतुः
अज्ञो वाहमभिज्ञो वा त्वयादौ देव निर्मितः ईदृशीं भ्रांतिमापन्न इति को ऽत्रापराध्यति
आस्तां ममेदमज्ञानं त्वयि सन्निहते प्रभो निर्भयः को ऽभिभाषेत कृत्यं स्वस्य परस्य वा
आवयोर्देवदेवस्य विवादो ऽपि हि शोभनः पादप्रणामफलदो नाथस्य भवतो यतः
स्तोतुं देव न वागस्ति महिम्नः सदृशी तव प्रभोरग्रे विधेयानां तूष्णींभावो व्यतिक्रमः
किमत्र संघटेत्कृत्यमित्येवावसरोचितम् अजानन्नपि यत्किंचित्प्रलप्य त्वां नतो ऽस्म्यहम्
कारणत्वं त्वया दत्तं विस्मृतं तव मायया मोहितो ऽहंकृतश्चापि पुनरेवास्मि शासितः
विज्ञापितैः किं बहुभिर्भीतोस्मि भृशमीश्वर यतो ऽहमपरिच्छेद्यं त्वां परिच्छेत्तुमुद्यतः
त्वामुशंति महादेवं भीतानामार्तिनाशनम् अतो व्यतिक्रमं मे ऽद्य क्षंतुमर्हसि शंकर
इति विज्ञापितस्ताभ्याम् ईश्वराभ्यां महेश्वरः प्रीतो ऽनुगृह्य तौ देवौ स्मितपूर्वमभाषत
वत्सवत्स विधे विष्णो मायया मम मोहितौ युवां प्रभुत्वे ऽहंकृत्य बुद्धवैरो परस्परम्
विवादं युद्धपर्यंतं कृत्वा नोपरतौ किल ततश्च्छिन्ना प्रजासृष्टिर्जगत्कारणभूतयोः
अज्ञानमानप्रभवाद्वैमत्याद्युवयोरपि तन्निवर्तयितुं युष्मद्दर्पमोहौ मयैव तु
एवं निवारितावद्यलिंगाविर्भावलीलया तस्माद्भूयो विवादं च व्रीडां चोत्सृज्य कृत्स्नशः
यथास्वं कर्म कुर्यातां भवंतौ वीतमत्सरौ पुरा ममाज्ञया सार्धं समस्तज्ञानसंहिताः