सर्वमंत्रतनोर्देवाच्छक्तित्रयसमन्वितात् पञ्चवक्त्राद्दशभुजात्साक्षात्सकलनिष्कलात्
तस्मादपि पराद्बिंदोरर्धेदोश्च ततः परात् ततः परान्निशाधीशान्नादाख्याच्च ततः परात्
ततः परात्सुषुम्नेशाद्ब्रह्मरंध्रेश्वरादपि ततः परस्माच्छक्तेश्च परस्ताच्छिवतत्त्वतः
परमं कारणं साक्षात्स्वयं निष्कारणं शिवम् कारणानां च धातारं ध्यातारां ध्येयमव्ययम्
परमाकाशमध्यस्थं परमात्मोपरि स्थितं सर्वैश्वर्येण संपन्नं सर्वेश्वरमनीश्वरम्
ऐश्वर्याच्चापि मायेयादशुद्धान्मानुषादिकात् अपराच्च परात्त्याज्यादधिशुद्धाध्वगोचरात्
तत्पराच्छुद्धविद्याद्यादुन्मनांतात्परात्परात् परमं परमैश्वर्यमुन्मनाद्यमनादि च
अपारमपराधीनं निरस्तातिशयं स्थिरम् इत्थमर्थैर्दशविधैरियमाथर्वणी श्रुतिः
यस्माद्गरीयसी तस्माद्विश्वं व्याप्तमथर्वणात् ऋग्वेदः पुनराहेदं जाग्रद्रूपं मयोच्यते
येनाहमात्मतत्त्वस्य नित्यमस्म्यभिधायकः यजुर्वेदो ऽवदत्तद्वत्स्वप्नावस्था मयोच्यते
भोग्यात्मना परिणता विद्यावेद्या यतो मयि साम चाह सुषुप्त्याख्यमेवं सर्वं मयोच्यते
ममार्थेन शिवेनेदं तामसेनाभिधीयते अथर्वाह तुरायाख्यं तुरीयातीतमेव च
मयाभिधीयते तस्मादध्वातीतपदोस्म्यहम् अध्वात्मकं तु त्रितयं शिवविद्यात्मसंज्ञितम्
तत्त्रैगुण्यं त्रयीसाध्यं संशोध्यं च पदैषिणा अध्वातीतं तुरीयाख्यं निर्वाणं परमं पदम्
तदतीतं च नैर्गुण्यादध्वनोस्य विशोधकम् द्वयोः प्रमापको नादो नदांतश्च मदात्मकः
तस्मान्ममार्थस्वातंत्र्यात्प्रधानः परमेश्वरः यदस्ति वस्तु तत्सर्वं गुणप्रधान्ययोगतः
समस्तं व्यस्तमपि च प्रणवार्थं प्रचक्षते सवार्थवाचकं तस्मादेकं ब्रह्मैतदक्षरम्
तेनोमिति जगत्कृत्स्नं कुरुते प्रथमं शिवः शिवो हि प्रणवो ह्येष प्रणवो हि शिवः स्मृतः
वाच्यवाचकयोर्भेदो नात्यंतं विद्यते यतः चिंतया रहितो रुद्रो वाचोयन्मनसा सह
अप्राप्य तन्निवर्तंते वाच्यस्त्वेकाक्षरेण सः एकाक्षरादकाराख्यादात्मा ब्रह्माभिधीयते
एकाक्षरादुकाराख्याद्द्विधा विष्णुरुदीर्यते एकाक्षरान्मकाराख्याच्छिवो रुद्र उदाहृतः
दक्षिणांगान्महेशस्य जातो ब्रह्मात्मसंज्ञिकः वामांगादभवद्विष्णुस्ततो विद्येति संज्ञितः
हृदयान्नीलरुद्रो भूच्छिवस्य शिवसंज्ञिकः सृष्टेः प्रवर्तको ब्रह्मा स्थितेर्विष्णुर्विमोहकः
संहारस्य तथा रुद्रस्तयोर्नित्यं नियामकः
तस्मात्त्रयस्ते कथ्यंते जगतः कारणानि च कारणत्रयहेतुश्च शिवः परमकारणम्
अर्थमेतमविज्ञाय रजसा बद्धवैरयोः युवयोः प्रतिबोधाय मध्ये लिंगमुपस्थितम्
एवमोमिति मां प्राहुर्यदिहोक्तमथर्वणा ऋचो यजूंषि सामानि शाखाश्चान्याः सहस्रशः
वेदेष्वेवं स्वयं वक्त्रैर्व्यक्तमित्यवदत्स्वपि स्वप्नानुभूतमिव तत्ताभ्यां नाध्यवसीयते
तयोस्तत्र प्रबोधाय तमोपनयनाय च लिंगेपि मुद्रितं सर्वं यथा वेदैरुदाहृतम्
तद्दृष्ट्वा मुद्रितं लिंगे प्रसादाल्लिंगिनस्तदा प्रशांतमनसौ देवौ प्रबुद्धौ संबभूवतुः