विद्याकलास्वघोरं च तथा ब्रह्मसु पञ्चसु लिंगभागेषु पीठोर्ध्वं बीजिनं कारणत्रये
पौरुषं च तथैश्वर्यमित्थं साम्ना ततं जगत् अथाथर्वाह नैर्गुण्यमर्थं प्रथममात्मनः
ततो महेश्वरं साक्षान्मूर्तिष्वपि सदाशिवम् क्रियासु निष्क्रियस्यापि शिवस्य परमात्मनः
भूतानुग्रहणं चैव मुच्यंते येन जंतवः लोकेष्वपि यतो वाचो निवृत्ता मनसा सह
तदूर्ध्वमुन्मना लोकात्सोमलोकमलौकिकम् सोमस्सहोमया यत्र नित्यं निवसतीश्वरः
तदूर्ध्वमुन्मना लोकाद्यं प्राप्तो न निवर्तते शांतिं च शांत्यतीतां च व्यापिकां चै कलास्वपि
तत्पूरुषं तथेशानं ब्रह्म ब्रह्मसु पञ्चसु मूर्धानमपि लिंगस्य नादभागेष्वनुत्तमम्
यत्रावाह्य समाराध्यः केवलो निष्कलः शिवः तत्तेष्वपि तदा बिंदोर्नादाच्छक्तेस्ततः परात्
तत्त्वादपि परं तत्त्वमतत्त्वं परमार्थतः कारणेषु त्रयातीतान्मायाविक्षोभकारणात्
अनंताच्छुद्धविद्यायाः परस्ताच्च महेश्वरात् सर्वविद्येश्वराधीशान्न पराच्च सदाशिवात्
सर्वमंत्रतनोर्देवाच्छक्तित्रयसमन्वितात् पञ्चवक्त्राद्दशभुजात्साक्षात्सकलनिष्कलात्
तस्मादपि पराद्बिंदोरर्धेदोश्च ततः परात् ततः परान्निशाधीशान्नादाख्याच्च ततः परात्
ततः परात्सुषुम्नेशाद्ब्रह्मरंध्रेश्वरादपि ततः परस्माच्छक्तेश्च परस्ताच्छिवतत्त्वतः
परमं कारणं साक्षात्स्वयं निष्कारणं शिवम् कारणानां च धातारं ध्यातारां ध्येयमव्ययम्
परमाकाशमध्यस्थं परमात्मोपरि स्थितं सर्वैश्वर्येण संपन्नं सर्वेश्वरमनीश्वरम्
ऐश्वर्याच्चापि मायेयादशुद्धान्मानुषादिकात् अपराच्च परात्त्याज्यादधिशुद्धाध्वगोचरात्
तत्पराच्छुद्धविद्याद्यादुन्मनांतात्परात्परात् परमं परमैश्वर्यमुन्मनाद्यमनादि च
अपारमपराधीनं निरस्तातिशयं स्थिरम् इत्थमर्थैर्दशविधैरियमाथर्वणी श्रुतिः
यस्माद्गरीयसी तस्माद्विश्वं व्याप्तमथर्वणात् ऋग्वेदः पुनराहेदं जाग्रद्रूपं मयोच्यते
येनाहमात्मतत्त्वस्य नित्यमस्म्यभिधायकः यजुर्वेदो ऽवदत्तद्वत्स्वप्नावस्था मयोच्यते
भोग्यात्मना परिणता विद्यावेद्या यतो मयि साम चाह सुषुप्त्याख्यमेवं सर्वं मयोच्यते
ममार्थेन शिवेनेदं तामसेनाभिधीयते अथर्वाह तुरायाख्यं तुरीयातीतमेव च
मयाभिधीयते तस्मादध्वातीतपदोस्म्यहम् अध्वात्मकं तु त्रितयं शिवविद्यात्मसंज्ञितम्
तत्त्रैगुण्यं त्रयीसाध्यं संशोध्यं च पदैषिणा अध्वातीतं तुरीयाख्यं निर्वाणं परमं पदम्
तदतीतं च नैर्गुण्यादध्वनोस्य विशोधकम् द्वयोः प्रमापको नादो नदांतश्च मदात्मकः
तस्मान्ममार्थस्वातंत्र्यात्प्रधानः परमेश्वरः यदस्ति वस्तु तत्सर्वं गुणप्रधान्ययोगतः
समस्तं व्यस्तमपि च प्रणवार्थं प्रचक्षते सवार्थवाचकं तस्मादेकं ब्रह्मैतदक्षरम्
तेनोमिति जगत्कृत्स्नं कुरुते प्रथमं शिवः शिवो हि प्रणवो ह्येष प्रणवो हि शिवः स्मृतः
वाच्यवाचकयोर्भेदो नात्यंतं विद्यते यतः चिंतया रहितो रुद्रो वाचोयन्मनसा सह
अप्राप्य तन्निवर्तंते वाच्यस्त्वेकाक्षरेण सः एकाक्षरादकाराख्यादात्मा ब्रह्माभिधीयते