तवापराधो नास्त्यत्र भ्रांतोसि मम मायया मत्प्रसादादियं भ्रांतिरपैष्यति तवाचिरात्
शृणु सत्यं चतुर्वक्त्र सर्वदेवेश्वरो ह्यहम् कर्ता भर्ता च हर्ता च न मयास्ति समो विभुः
एवमेव विवादोभूद्ब्रह्मविष्ण्वोः परस्परम् अभवच्च महायुद्धं भैरवं रोमहर्षणम्
मुष्टिभिर्न्निघ्नतोस्तीव्रं रजसा बद्धवैरयोः तयोर्दर्पापहाराय प्रबोधाय च देवयोः
मध्ये समाविरभवल्लिंगमैश्वरमद्भुतम् ज्वालामालासहस्राढ्यमप्रमेयमनौपमम्
क्षयवृद्धिविनिर्मुक्तमादिमध्यांतवर्जितम् तस्य ज्वालासहस्रेण ब्रह्मविष्णू विमोहितौ
विसृज्य युद्धं किं त्वेतदित्यचिंतयतां तदा न तयोस्तस्य याथात्म्यं प्रबुद्धमभवद्यदा
तदा समुद्यतौ स्यातां तस्याद्यंतं परीक्षितुम्
तत्र हंसाकृतिर्ब्रह्मा विश्वतः पक्षसंयुतः मनोनिलजवो भूत्वा गतस्तूर्ध्वं प्रयत्नतः
नारायणोपि विश्वात्मा लीलाञ्जनचयोपमम् वाराहममितं रूपमस्थाय गतवानधः
एवं वर्षसहस्रं तु त्वरन् विष्णुरधोगतः नापश्यदल्पमप्यस्य मूलं लिंगस्य सूकरः
तावत्कालं गतश्चोर्ध्वं तस्यांतं ज्ञातुमिच्छया श्रांतोत्यंतमदृष्ट्वांतं पापताधः पितामहः
तथैव भगवान् विष्णुः श्रांतः संविग्नलोचनः क्लेशेन महता तूर्णमधस्तादुत्थितो ऽभवत्
समागतावथान्योन्यं विस्मयस्मेरवीक्षणौ मायया मोहितौ शंभोः कृत्याकृत्यं न जग्मतुः
पृष्ठतः पार्श्वतस्तस्य चाग्रतश्च स्थितावुभौ प्रणिपत्य किमात्मेदमित्यचिंतयतां तदा
अथाविरभवत्तत्र सनादं शब्दलक्षणम् ओमित्येकाक्षरं ब्रह्म ब्रह्मणः प्रतिपादकम्
तदप्यविदितं तावद्ब्रह्मणा विष्णुना तथा रजसा तमसा चित्तं तयोर्यस्मात्तिरस्कृतम्
तदा विभक्तमभवच्चतुर्धैकं तदक्षरम् अ उ मेति त्रिमात्राभिः परस्ताच्चार्धमात्रया
तत्राकारः श्रितो भागे ज्वलल्लिंगस्य दक्षिणे उकारश्चोत्तरे तद्वन्मकारस्तस्य मध्यतः
अर्धमात्रात्मको नादः श्रूयते लिंगमूर्धनि विभक्ते ऽपि तदा तस्मिन्प्रणवे परमाक्षरे
विभावार्थं च तौ देवौ न किंचिदवजग्मतुः वेदात्मना तदाव्यक्तः प्रणवो विकृतिं गतः
तत्राकारो ऋगभवदुकारो यजुरव्ययः मकारस्साम संजातो नादस्त्वाथर्वणी श्रुतिः
ऋगयं स्थापयामास समासात्त्वर्थमात्मनः रजोगुणेषु ब्रह्माणं मूर्तिष्वाद्यं क्रियास्वपि
सृष्टिं लोकेषु पृथिवीं तत्त्वेष्वात्मानमव्ययम् कलाध्वनि निवृत्तिं च सद्यं ब्रह्मसु पञ्चसु
लिंगभागेष्वधोभागं बीजाख्यं कारणत्रये चतुःषष्टिगुणैश्वर्यं बौद्धं यदणिमादिषु
तदित्थमर्थैर्दशभिर्व्याप्तं विश्वमृचा जगत् अथोपस्थापयामास स्वार्थं दशविधं यजुः
सत्त्वं गुणेषु विष्णुं च मूर्तिष्वाद्यं क्रियास्वपि स्थितिं लोकेष्वंतरिक्षं विद्यां तत्त्वेषु च त्रिषु
कलाध्वसु प्रतिष्ठां च वामं ब्रह्मसु पञ्चसु मध्यं तु लिंगभागेषु योनिं च त्रिषु हेतुषु
प्राकृतं च यथैश्वर्यं तस्माद्विश्वं यजुर्मयम् ततोपस्थापयामास सामार्थं दशधात्मनः
तमोगुणेष्वथो रुद्रं मूर्तिष्वाद्यं क्रियासु च संहृतिं त्रिषु लोकेषु तत्त्वेषु शिवमुत्तमम्