अशुद्धं चैव शुद्धं यच्छुद्धाशुद्धं च तत्त्रिधा ततः शिवो महेशश्च रुद्रो विष्णुः पितामहः
भूतानि चेन्द्रियैर्जाता लीयन्ते ऽत्र शिवाज्ञया अत एव शिवो लिंगो लिंगमाज्ञापयेद्यतः
यतो न तदनाज्ञातं कार्याय प्रभवेत्स्वतः ततो जातस्य विश्वस्य तत्रैव विलयो यतः
अनेन लिंगतां तस्य भवेन्नान्येन केनचित् लिंगं च शिवयोर्देहस्ताभ्यां यस्मादधिष्ठितम्
अतस्तत्र शिवः साम्बो नित्यमेव समर्चयेत् लिंगवेदी महादेवी लिंगं साक्षान्महेश्वरः
तयोः संपूजनादेव स च सा च समर्चितौ न तयोर्लिंगदेहत्वं विद्यते परमार्थतः
यतस्त्वेतौ विशुद्धौ तौ देहस्तदुपचारतः तदेव परमा शक्तिः शिवस्य परमात्मनः
शक्तिराज्ञां यदादत्ते प्रसूते तच्चराचरम् न तस्य महिमा शक्यो वक्तुं वर्षशतैरपि
येनादौ मोहितौ स्यातां ब्रह्मनारायणावपि पुरा त्रिभुवनस्यास्य प्रलये समुपस्थिते
वारिशय्यागतो विष्णुः सुष्वापानाकुलः सुखम् यदृच्छया गतस्तत्र ब्रह्मा लोकपितामहः
ददर्श पुण्डरीकाक्षं स्वपन्तं तमनाकुलम् मायया मोहितः शम्भोर्विष्णुमाह पितामहः
कस्त्वं वदेत्यमर्षेण प्रहृत्योत्थाप्य माधवम् स तु हस्तप्रहारेण तीव्रेणाभिहतः क्षणात्
प्रबुद्धोत्थाय शयनाद्ददर्श परमेष्ठिनम् तमाह चांतस्संक्रुद्धः स्वयमक्रुद्धवद्धरिः
कुतस्त्वमागतो वत्स कस्मात्त्वं व्याकुलो वद इति विष्णुवचः श्रुत्वा प्रभुत्वगुणसूचकम्
रजसा बद्धवैरस्तं ब्रह्मा पुनरभाषत वत्सेति मां कुतो ब्रूषे गुरुः शिष्यमिवात्मनः
मां न जानासि किं नाथं प्रपञ्चो यस्य मे कृतिः त्रिधात्मानं विभज्येदं सृष्ट्वाथ परिपाल्यते
संहरामि नमे कश्चित्स्रष्टा जगति विद्यते इत्युक्ते सति सो ऽप्याह ब्रह्माणं विष्णुरव्ययः
अहमेवादिकर्तास्य हर्ता च परिपालकः भवानपि ममैवांगादवतीर्णः पुराव्ययात्
मन्नियोगात्त्वमात्मानं त्रिधा कृत्वा जगत्त्रयम् सृजस्यवसि चांते तत्पुनः प्रतिसृजस्यपि
विस्मृतोसि जगन्नाथं नारायणमनामयम् तवापि जनकं साक्षान्मामेवमवमन्यसे
तवापराधो नास्त्यत्र भ्रांतोसि मम मायया मत्प्रसादादियं भ्रांतिरपैष्यति तवाचिरात्
शृणु सत्यं चतुर्वक्त्र सर्वदेवेश्वरो ह्यहम् कर्ता भर्ता च हर्ता च न मयास्ति समो विभुः
एवमेव विवादोभूद्ब्रह्मविष्ण्वोः परस्परम् अभवच्च महायुद्धं भैरवं रोमहर्षणम्
मुष्टिभिर्न्निघ्नतोस्तीव्रं रजसा बद्धवैरयोः तयोर्दर्पापहाराय प्रबोधाय च देवयोः
मध्ये समाविरभवल्लिंगमैश्वरमद्भुतम् ज्वालामालासहस्राढ्यमप्रमेयमनौपमम्
क्षयवृद्धिविनिर्मुक्तमादिमध्यांतवर्जितम् तस्य ज्वालासहस्रेण ब्रह्मविष्णू विमोहितौ
विसृज्य युद्धं किं त्वेतदित्यचिंतयतां तदा न तयोस्तस्य याथात्म्यं प्रबुद्धमभवद्यदा
तदा समुद्यतौ स्यातां तस्याद्यंतं परीक्षितुम्
तत्र हंसाकृतिर्ब्रह्मा विश्वतः पक्षसंयुतः मनोनिलजवो भूत्वा गतस्तूर्ध्वं प्रयत्नतः
नारायणोपि विश्वात्मा लीलाञ्जनचयोपमम् वाराहममितं रूपमस्थाय गतवानधः