ब्रह्मा ब्रह्मत्वमापन्नो विष्णुर्विष्णुत्वमागतः रुद्रो रुद्रत्वमापन्न इंद्रश्चेन्द्रत्वमागतः
गणेशश्च गणेशत्वमनेन विधिना गतः सितचंदनतोयेन लिंगं स्नाप्य शिवं शिवाम् श्वेतैर्विकसितैः पद्मैः संपूज्य प्रणिपत्य च
तत्र पद्मासनं रम्यं कृत्वा लक्षणसंयुतम् विभवे सति हेमाद्यै रत्नाद्यैर्वा स्वशक्तितः
मध्ये केसरजालास्य स्थाप्य लिंगं कनीयसम् अंगुष्ठप्रतिमं रम्यं सर्वगन्धमयं शुभम्
दक्षिणे स्थापयित्वा तु बिल्वपत्रैः समर्चयेत् अगुरुं दक्षिणे पार्श्वे पश्चिमे तु मनःशिलाम्
उत्तरे चंदनं दद्याद्धरितालं तु पूर्वतः सुगन्धैः कुसुमै रम्यैर्विचित्रैश्चापि पूजयेत्
धूपं कृष्णागुरुं दद्यात्सर्वतश्च सगुग्गुलम् वासांसि चातिसूक्ष्माणि विकाशानि निवेदयेत्
पायसं घृतसंमिश्रं घृतदीपांश्च दापयेत् सर्वं निवेद्य मन्त्रेण ततो गच्छेत्प्रदक्षिणाम्
प्रणम्य भक्त्या देवेशं स्तुत्वा चान्ते क्षमापयेत् सर्वोपहारसंमिश्रं ततो लिंगं निवेदयेत्
शिवाय शिवमन्त्रेण दक्षिणामूर्तिमाश्रितः एवं यो ऽर्चयते नित्यं पञ्चगन्धमयं शुभम्
सर्वपापविनिर्मुक्तः शिवलोके महीयते एतद्व्रतोत्तमं गुह्यं शिवलिंगमहाव्रतम्
भक्तस्य ते समाख्यातं न देयं यस्य कस्यचित् देयं च शिवभक्तेभ्यः शिवेन कथितं पुरा
नित्यनैमित्तिकात्काम्याद्या सिद्धिरिह कीर्तिता सा सर्वा लभ्येत सद्यो लिंगबेरप्रतिष्ठया
सर्वो लिंगमयो लोकस्सर्वं लिंगे प्रतिष्ठितम् तस्मात्प्रतिष्ठिते लिंगे भवेत्सर्वं पतिष्ठितम्
ब्रह्मणा विष्णुना वापि रुद्रेणान्येन केन वा लिंगप्रतिष्ठामुत्सृज्य क्रियते स्वपदस्थितिः
किमन्यदिह वक्तव्यं प्रतिष्ठां प्रति कारणम् पर्तिष्ठितं शिवेनापि लिंगं वैश्वेश्वरं यतः
तस्मात्सर्वप्रयत्नेन परत्रेह च शर्मणे स्थापयेत्परमेशस्य लिंगं बेरमथापि वा
किमिदं लिंगमाख्यातं कथं लिंगी महेश्वरः कथं च लिंगभावो ऽस्य कस्मादस्मिञ्छिवो ऽर्च्यते
अव्यक्तं लिंगमाख्यातं त्रिगुणप्रभवाप्ययम् अनाद्यनंतं विश्वस्य यदुपादानकारणम्
तदेव मूलप्रकृतिर्माया च गगनात्मिका तत एव समुत्पन्नं जगदेतच्चराचरम्
अशुद्धं चैव शुद्धं यच्छुद्धाशुद्धं च तत्त्रिधा ततः शिवो महेशश्च रुद्रो विष्णुः पितामहः
भूतानि चेन्द्रियैर्जाता लीयन्ते ऽत्र शिवाज्ञया अत एव शिवो लिंगो लिंगमाज्ञापयेद्यतः
यतो न तदनाज्ञातं कार्याय प्रभवेत्स्वतः ततो जातस्य विश्वस्य तत्रैव विलयो यतः
अनेन लिंगतां तस्य भवेन्नान्येन केनचित् लिंगं च शिवयोर्देहस्ताभ्यां यस्मादधिष्ठितम्
अतस्तत्र शिवः साम्बो नित्यमेव समर्चयेत् लिंगवेदी महादेवी लिंगं साक्षान्महेश्वरः
तयोः संपूजनादेव स च सा च समर्चितौ न तयोर्लिंगदेहत्वं विद्यते परमार्थतः
यतस्त्वेतौ विशुद्धौ तौ देहस्तदुपचारतः तदेव परमा शक्तिः शिवस्य परमात्मनः
शक्तिराज्ञां यदादत्ते प्रसूते तच्चराचरम् न तस्य महिमा शक्यो वक्तुं वर्षशतैरपि
येनादौ मोहितौ स्यातां ब्रह्मनारायणावपि पुरा त्रिभुवनस्यास्य प्रलये समुपस्थिते
वारिशय्यागतो विष्णुः सुष्वापानाकुलः सुखम् यदृच्छया गतस्तत्र ब्रह्मा लोकपितामहः