यथोक्तमेव कर्मैतदाचरेद्यो ऽनपायतः फलं व्यभिचरेन्नैवमित्यतः किं प्ररोचकम्
तथाप्युद्देशतो वक्ष्ये कर्मणः सिद्धिमुत्तमम् अपि शत्रुभिराक्रांतो व्याधिभिर्वाप्यनेकशः
मृत्योरास्यगतश्चापि मुच्यते निरपायतः पूजायते ऽतिकृपणो रिक्तो वैश्रवणायते
कामायते विरूपो ऽपि वृद्धो ऽपि तरुणायते शत्रुर्मित्रायते सद्यो विरोधी किंकरायते
विषायते यदमृतं विषमप्यमृतायते स्थलायते समुद्रो ऽपि स्थलमप्यर्णवायते
महीधरायते श्वभ्रं स च श्वभ्रायते गिरिः पद्माकरायते वह्निः सरो वैश्वानरायते
वनायते यदुद्यानं तदुद्यानायते वनम् सिंहायते मृगः क्षुद्रः सिंहः क्रीडामृगायते
स्त्रियो ऽभिसारिकायन्ते लक्ष्मीः सुचरितायते स्वैरप्रेष्यायते वाणी कीर्तिस्तु गणिकायते
स्वैराचारायते मेधा वज्रसूचीयते मनः महावातायते शक्तिर्बलं मत्तगजायते
स्तम्भायते समुद्योगैः शत्रुपक्षे स्थिता क्रिया शत्रुपक्षायते ऽरीणां सर्व एव सुहृज्जनः
शत्रवः कुणपायन्ते जीवन्तोपि सबांधवाः आपन्नो ऽपि गतारिष्टः स्वयं खल्वमृतायते
रसाय नायते नित्यमपथ्यमपि सेवितम् अनिशं क्रियमाणापि रतिस्त्वभिनवायते
अनागतादिकं सर्वं करस्थामलकायते यादृच्छिकफलायन्ते सिद्धयो ऽप्यणिमादयः
बहुनात्र किमुक्तेन सर्वकामार्थसिद्धिषु अस्मिन्कर्मणि निर्वृत्ते त्वनवाप्यं न विद्यते
अतः परं प्रवक्ष्यामि केवलामुष्मिकं विधिम् नैतेन सदृशं किंचित्कर्मास्ति भुवनत्रये
पुण्यातिशयसंयुक्तः सर्वैर्देवैरनुष्ठितः ब्रह्मणा विष्णुना चैव रुद्रेण च विशेषतः
इंद्रादिलोकपारैश्च सूर्याद्यैर्नवभिर्ग्रहैः विश्वामित्रवसिष्ठाद्यैर्ब्रह्मविद्भिर्महर्षिभिः
श्वेतागस्त्यदधीचाद्यैरस्माभिश्च शिवाश्रितैः नंदीश्वरमहाकालभृंगीशाद्यैर्गणेश्वरैः
पातालवासिभिर्दैत्यैः शेषाद्यैश्च महोरगैः सिद्धैर्यक्षैश्च गंधर्वै रक्षोभूतपिशाचकैः
स्वंस्वं पदमनुप्राप्तं सर्वैरयमनुष्ठितः अनेन विधिना सर्वे देवा देवत्वमागताः
ब्रह्मा ब्रह्मत्वमापन्नो विष्णुर्विष्णुत्वमागतः रुद्रो रुद्रत्वमापन्न इंद्रश्चेन्द्रत्वमागतः
गणेशश्च गणेशत्वमनेन विधिना गतः सितचंदनतोयेन लिंगं स्नाप्य शिवं शिवाम् श्वेतैर्विकसितैः पद्मैः संपूज्य प्रणिपत्य च
तत्र पद्मासनं रम्यं कृत्वा लक्षणसंयुतम् विभवे सति हेमाद्यै रत्नाद्यैर्वा स्वशक्तितः
मध्ये केसरजालास्य स्थाप्य लिंगं कनीयसम् अंगुष्ठप्रतिमं रम्यं सर्वगन्धमयं शुभम्
दक्षिणे स्थापयित्वा तु बिल्वपत्रैः समर्चयेत् अगुरुं दक्षिणे पार्श्वे पश्चिमे तु मनःशिलाम्
उत्तरे चंदनं दद्याद्धरितालं तु पूर्वतः सुगन्धैः कुसुमै रम्यैर्विचित्रैश्चापि पूजयेत्
धूपं कृष्णागुरुं दद्यात्सर्वतश्च सगुग्गुलम् वासांसि चातिसूक्ष्माणि विकाशानि निवेदयेत्
पायसं घृतसंमिश्रं घृतदीपांश्च दापयेत् सर्वं निवेद्य मन्त्रेण ततो गच्छेत्प्रदक्षिणाम्
प्रणम्य भक्त्या देवेशं स्तुत्वा चान्ते क्षमापयेत् सर्वोपहारसंमिश्रं ततो लिंगं निवेदयेत्
शिवाय शिवमन्त्रेण दक्षिणामूर्तिमाश्रितः एवं यो ऽर्चयते नित्यं पञ्चगन्धमयं शुभम्