आयसौ स्रुक्स्रुवौ कार्यौ मारणादिषु कर्मसु तदन्यत्र तु सौवर्णौ शांतिकाद्येषु कृत्स्नशः
दूर्वया घृतगोक्षीरमिश्रया मधुना तथा चरुणा सघृतेनैव केवलं पयसापि वा
जुहुयान्मृत्युविजये तिलै रोगोपशांतये घृतेन पयसा चैव कमलैर्वाथ केवलैः
समृद्धिकामो जुहुयान्महादारिद्र्यशांतये जातीपुष्पेण वश्यार्थी जुहुयात्सघृतेन तु
घृतेन करवीरैश्च कुर्यादाकर्षणं द्विजः तैलेनोच्चाटनं कुर्यात्स्तंभनं मधुना पुनः
स्तंभनं सर्षपेणापि लशुनेन तु पातनम् ताडनं रुधिरेण स्यात्खरस्योष्ट्रस्य चोभयोः
मारणोच्चाटने कुर्याद्रोहिबीजैस्तिलान्वितैः विद्वेषणं च तैलेन कुर्याल्लांगलकस्य तु
बंधनं रोहिबीजेन सेनास्तंभनमेव च रक्तसर्षपसंमिश्रैर्होमद्रव्यैरशेषतः
हस्तयंत्रोद्भवैस्तैलैर्जुहुयादाभिचारिके कटुकीतुषसंयुक्तैः कार्पासास्थिभिरेव च
सर्षपैस्तैलसंमिश्रैर्जुहुयादाभिचारिके ज्वरोपशांतिदं क्षीरं सौभाग्यफलदं तथा
सर्वसिद्धिकरो होमः क्षौद्राज्यदधिभिर्युतैः क्षीरेण तंदुलैश्चैव चरुणा केवलेन वा
शांतिकं पौष्टिकं वापि सप्तभिः समिदादिभिः द्रव्यैर्विशेषतो होमे वश्यमाकर्षणं तथा
वश्यमाकर्षणं चैव श्रीपदं च विशेषतः बिल्वपत्रैस्तु हवनं शत्रोर्विजयदं तथा
समिधः शांतिकार्येषु पालाशखदिरादिकाः करवीरार्कजाः क्रौर्ये कण्टकिन्यश्च विग्रहे
प्रशांतः शांतिकं कुर्यात्पौष्टिकं च विशेषतः निर्घृणः क्रुद्धचित्तस्तु प्रकुर्यादाभिचारिकम्
अतीवदुरवस्थायां प्रतीकारांतरं न चेत् आततायिनमुद्दिश्य प्रकुर्यादाभिचारिकम्
स्वराष्ट्रपतिमुद्दिश्य न कुर्यादाभिचारिकम् यद्यास्तिकस्सुधर्मिष्ठो मान्यो वा यो ऽपि कोपि वा
तमुद्दिश्यापि नो कुर्यादाततायिनमप्युत मनसा कर्मणा वाचा यो ऽपि कोपि शिवाश्रितः
स्वराष्ट्रपतिमुद्दिश्य शिवा श्रितमथापि वा कृत्वाभिचारिकं कर्म सद्यो विनिपतेन्नरः
स्वराष्ट्रपालकं तस्माच्छिवभक्तं च कञ्चन न हिंस्यादभिचाराद्यैर्यदीच्छेत्सुखमात्मनः
अन्यं कमपि चोद्दिश्य कृत्वा वै मारणादिकम् पश्चात्तापेन संयुक्तः प्रायश्चित्तं समाचरेत्
बाणलिंगे ऽपि वा कुर्यान्निर्धनो धनवानपि स्वयंभूते ऽथ वा लिंगे आर्षके वैदिके ऽपि वा
अभावे हेमरत्नानामशक्तौ च तदर्जने मनसैवाचरेदेतद्द्रव्यैर्वा प्रतिरूपकैः
क्वचिदंशे तु यः शक्तस्त्वशक्तः क्वचिदंशके सो ऽपि शक्त्यनुसारेण कुर्वंश्चेत्फलमृच्छति
कर्मण्यनुष्ठिते ऽप्यस्मिन्फलं यत्र न दृश्यते द्विस्त्रिर्वावर्तयेत्तत्र सर्वथा दृश्यते फलम्
पूजोपयुक्तं यद्द्रव्यं हेमरत्नाद्यनुत्तमम् तत्सर्वं गुरवे दद्याद्दक्षिणां च ततः पृथक्
स चेन्नेच्छति तत्सर्वं शिवाय विनिवेदयेत् अथवा शिवभक्तेभ्यो नान्येभ्यस्तु प्रदीयते
यः स्वयं साधयेच्छक्त्या गुर्वादिनिरपेक्षया सो ऽप्येवमाचरेदत्र न गृह्णीयात्स्वयं पुनः
स्वयं गृह्णाति यो लोभात्पूजांगद्रव्यमुत्तमम् कांक्षितं न लभेन्मूढो नात्र कार्या विचारणा
अर्चितं यत्तु तल्लिंगं गृह्णीयाद्वा नवा स्वयम् गृह्णीयाद्यदि तन्नित्यं स्वयं वान्यो ऽपि वार्चयेत्