गंधं पुष्पादिदीपांश्च पूजाकर्म समाचरेत् पलावरः स्यादालेप एकादशपलोत्तरः
सुवर्णरत्नपुष्पाणि शुभानि सुरभीणि च नीलोत्पलाद्युत्पलानि बिल्वपत्राण्यनेकशः
कमलानि च रक्तानि श्वेतान्यपि च शंभवे कृष्णागुरूद्भवो धूपः सकर्पूराज्यगुग्गुलः
कपिलाघृतसंसिद्धा दीपाः कर्पूरवर्तिजाः पञ्चब्रह्मषडंगानि पूज्यान्यावरणानि च
नैवेद्यः पयसा सिद्धः स गुडाज्यो महाचरुः पाटलोत्पलपद्माद्यैः पानीयं च सुगन्धितम्
पञ्चसौगंधिकोपेतं तांबूलं च सुसंस्कृतम् सुवर्णरत्नसिद्धानि भूषणानि विशेषतः
वासांसि च विचित्राणि सूक्ष्माणि च नवानि च दर्शनीयानि देयानि गानवाद्यादिभिस्सह
जपश्च मूलमंत्रस्य लक्षः परमसंख्यया एकावरा त्र्युत्तरा च पूजा फलवशादिह
दशसंख्यावरो होमः प्रतिद्रव्यं शतोत्तरः घोररूपश्शिवश्चिंत्यो मारणोच्चाटनादिषु
शिवलिंगे शिवाग्नौ च ह्यन्यासु प्रतिमासु च चिंत्यस्सौम्यतनुश्शंभुः कार्ये शांतिकपौष्टिके
आयसौ स्रुक्स्रुवौ कार्यौ मारणादिषु कर्मसु तदन्यत्र तु सौवर्णौ शांतिकाद्येषु कृत्स्नशः
दूर्वया घृतगोक्षीरमिश्रया मधुना तथा चरुणा सघृतेनैव केवलं पयसापि वा
जुहुयान्मृत्युविजये तिलै रोगोपशांतये घृतेन पयसा चैव कमलैर्वाथ केवलैः
समृद्धिकामो जुहुयान्महादारिद्र्यशांतये जातीपुष्पेण वश्यार्थी जुहुयात्सघृतेन तु
घृतेन करवीरैश्च कुर्यादाकर्षणं द्विजः तैलेनोच्चाटनं कुर्यात्स्तंभनं मधुना पुनः
स्तंभनं सर्षपेणापि लशुनेन तु पातनम् ताडनं रुधिरेण स्यात्खरस्योष्ट्रस्य चोभयोः
मारणोच्चाटने कुर्याद्रोहिबीजैस्तिलान्वितैः विद्वेषणं च तैलेन कुर्याल्लांगलकस्य तु
बंधनं रोहिबीजेन सेनास्तंभनमेव च रक्तसर्षपसंमिश्रैर्होमद्रव्यैरशेषतः
हस्तयंत्रोद्भवैस्तैलैर्जुहुयादाभिचारिके कटुकीतुषसंयुक्तैः कार्पासास्थिभिरेव च
सर्षपैस्तैलसंमिश्रैर्जुहुयादाभिचारिके ज्वरोपशांतिदं क्षीरं सौभाग्यफलदं तथा
सर्वसिद्धिकरो होमः क्षौद्राज्यदधिभिर्युतैः क्षीरेण तंदुलैश्चैव चरुणा केवलेन वा
शांतिकं पौष्टिकं वापि सप्तभिः समिदादिभिः द्रव्यैर्विशेषतो होमे वश्यमाकर्षणं तथा
वश्यमाकर्षणं चैव श्रीपदं च विशेषतः बिल्वपत्रैस्तु हवनं शत्रोर्विजयदं तथा
समिधः शांतिकार्येषु पालाशखदिरादिकाः करवीरार्कजाः क्रौर्ये कण्टकिन्यश्च विग्रहे
प्रशांतः शांतिकं कुर्यात्पौष्टिकं च विशेषतः निर्घृणः क्रुद्धचित्तस्तु प्रकुर्यादाभिचारिकम्
अतीवदुरवस्थायां प्रतीकारांतरं न चेत् आततायिनमुद्दिश्य प्रकुर्यादाभिचारिकम्
स्वराष्ट्रपतिमुद्दिश्य न कुर्यादाभिचारिकम् यद्यास्तिकस्सुधर्मिष्ठो मान्यो वा यो ऽपि कोपि वा
तमुद्दिश्यापि नो कुर्यादाततायिनमप्युत मनसा कर्मणा वाचा यो ऽपि कोपि शिवाश्रितः
स्वराष्ट्रपतिमुद्दिश्य शिवा श्रितमथापि वा कृत्वाभिचारिकं कर्म सद्यो विनिपतेन्नरः
स्वराष्ट्रपालकं तस्माच्छिवभक्तं च कञ्चन न हिंस्यादभिचाराद्यैर्यदीच्छेत्सुखमात्मनः