तत्र संसाधयेत्पूर्वं मन्त्रं मन्त्रार्थवित्तमः दृष्टसिद्धिकरं कर्म नान्यथा फलदं यतः
सिद्धमन्त्रो ऽप्यदृष्टेन प्रबलेन तु केनचित् प्रतिबन्धफलं कर्म न कुर्यात्सहसा बुधः
तस्य तु प्रतिबन्धस्य कर्तुं शक्येह निष्कृतिः परीक्ष्य शकुनाद्यैस्तदादौ निष्कृतिमाचरेत्
यो ऽन्यथा कुरुते मोहात्कर्मैहिकफलं नरः न तेन फलभाक्स स्यात्प्राप्नुयाच्चोपहास्यताम्
अबिस्रब्धो न कुर्वीत कर्म दृष्टफलं क्वचित् स खल्वश्रद्धधानः स्यान्नाश्रद्धः फलमृच्छति
नापराधोस्ति देवस्य कर्मण्यपि तु निष्फले यथोक्तकारिणां पुंसामिहैव फलदर्शनात्
साधकः सिद्धमंत्रश्च निरस्तप्रतिबंधकः विश्वस्तः श्रद्धधानश्च कुर्वन्नाप्नोति तत्फलम्
अथवा तत्फलावाप्त्यै ब्रह्मचर्यरतो भवेत् रात्रौ हविष्यमश्नीयात्पायसं वा फलानि वा
हिंसादि यन्निषिद्धं स्यान्न कुर्यान्मनसापि तत् सदा भस्मानुलिप्तां गस्सुवेषश्च शुचिर्भवेत्
इत्थमाचारवान्भूत्वा स्वानुकूले शुभे ऽहनि पूर्वोक्तलक्षणे देशे पुष्पदामाद्यलंकृते
विलिखेत्कमले भद्रे दीप्यमानं स्वतेजसा
तप्तजांबूनदमयमष्टपत्रं सकेसरम् मध्ये कर्णिकया युक्तं सर्वरत्नैरलंकृतम्
स्वाकारसदृशेनैव नालेन च समन्वितम् तादृशे स्वर्णनिर्माणे कंदे सम्यग्विधानतः
तत्राणिमादिकं सर्वं संकल्प्य मनसा पुनः रत्नजं वाथ सौवर्णं स्फटिकं वा सलक्षणम् लिङ्गं सवेदिकं चैव स्थापयित्वा विधानतः
तत्रावाह्य यजेद्देवं सांबं सगणमव्ययम् तत्र माहेश्वरी कल्प्या मूर्तिर्मूर्तिमतः प्रभोः
चतुर्भुजा चतुर्वक्त्रा सर्वाभरणभूषिता शार्दूलचर्मवसना किंचिद्विहसितानना
वरदाभयहस्ता च मृगटंकधरा तथा अथ वाष्टभुजा चिंत्या चिंतकस्य यथारुचि
तदा त्रिशूलपरशुखड्गवज्राणि दक्षिणे वामे पाशांकुशौ तद्वत्खेटं नागं च बिभ्रती
बालार्कसदृशप्रख्या प्रतिवक्त्रं त्रिलोचना तस्याः पूर्वमुखं सौम्यं स्वाकारसदृशप्रभम्
दक्षिणं नीलजीमूतसदृशं घोरदर्शनम् उत्तरं विद्रुमप्रख्यं नीलालकविभूषितम्
पश्चिमं पूर्णचंद्राभं सौम्यमिंदुकलाधरम् तदंकमंडलारूढा शक्तिर्माहेश्वरी परा
महालक्ष्मीरिति ख्याता श्यामा सर्वमनोहरा मूर्तिं कृत्वैवमाकारां सकलीकृत्य च क्रमात्
मूर्तिमंतमथावाह्य यजेत्परमकारणम् स्नानार्थे कल्पयेत्तत्र पञ्चगव्यं तु कापिलम्
पञ्चामृतं च पूर्णानि बीजानि च विशेषतः पुरस्तान्मण्डलं कृत्वा रत्नचूर्णाद्यलंकृतम्
कर्णिकायां प्रविन्यस्येदीशानकलशं पुनः सद्यादिकलशान्पश्चात्परितस्तस्य कल्पयेत्
ततो विद्येशकलशानष्टौ पूर्वादिवत्क्रमात् तीर्थाम्बुपूरितान्कृत्वा सूत्रेणावेष्ट्य पूर्ववत्
पुण्यद्रव्याणि निक्षिप्य समन्त्रं सविधानकम् दुकूलाद्येन वस्त्रेण समाच्छाद्य समंततः
सर्वत्र मंत्रं विन्यस्य तत्तन्मंत्रपुरस्सरम् स्नानकाले तु संप्राप्ते सर्वमङ्गलनिस्वनैः
पञ्चगव्यादिभिश्चैव स्नापयेत्परमेश्वरम् ततः कुशोदकाद्यानि स्वर्णरत्नोदकान्यपि
गंधपुष्पादिसिद्धानि मन्त्रसिद्धानि च क्रमात् उद्धृत्योद्धृत्य मन्त्रेण तैस्तैस्स्नाप्य महेश्वरम्