य इदं कीर्तयेन्नित्यं शृणुयाद्वा समाहितः स विधूयाशु पापानि शिवसायुज्यमाप्नुयात्
गोघ्नश्चैव कृतघ्नश्च वीरहा भ्रूणहापि वा शरणागतघाती च मित्रविश्रंभघातकः
दुष्टपापसमाचारो मातृहा पितृहापि वा स्तवेनानेन जप्तेन तत्तत्पापात्प्रमुच्यते
दुःस्वप्नादिमहानर्थसूचकेषु भयेषु च यदि संकीर्तयेदेतन्न ततो नार्थभाग्भवेत्
आयुरारोग्यमैश्वर्यं यच्चान्यदपि वाञ्छितम् स्तोत्रस्यास्य जपे तिष्ठंस्तत्सर्वं लभते नरः
असंपूज्य शिवस्तोत्रं जपात्फलमुदाहृतम् संपूज्य च जपे तस्य फलं वक्तुं न शक्यते
आस्तामियं फलावाप्तिरस्मिन्संकीर्तिते सति सार्धमंबिकया देवः श्रुत्यैवं दिवि तिष्ठति
तस्मान्नभसि संपूज्य देवं देवं सहोमया कृतांजलिपुटस्तिष्ठंस्तोत्रमेतदुदीरयेत्
एतत्ते कथितं कृष्ण कर्मेहामुत्र सिद्धिदम् क्रियातपोजपध्यानसमुच्चयमयं परम्
अथ वक्ष्यामि शैवानामिहैव फलदं नृणाम् पूजाहोमजपध्यानतपोदानमयं महत्
तत्र संसाधयेत्पूर्वं मन्त्रं मन्त्रार्थवित्तमः दृष्टसिद्धिकरं कर्म नान्यथा फलदं यतः
सिद्धमन्त्रो ऽप्यदृष्टेन प्रबलेन तु केनचित् प्रतिबन्धफलं कर्म न कुर्यात्सहसा बुधः
तस्य तु प्रतिबन्धस्य कर्तुं शक्येह निष्कृतिः परीक्ष्य शकुनाद्यैस्तदादौ निष्कृतिमाचरेत्
यो ऽन्यथा कुरुते मोहात्कर्मैहिकफलं नरः न तेन फलभाक्स स्यात्प्राप्नुयाच्चोपहास्यताम्
अबिस्रब्धो न कुर्वीत कर्म दृष्टफलं क्वचित् स खल्वश्रद्धधानः स्यान्नाश्रद्धः फलमृच्छति
नापराधोस्ति देवस्य कर्मण्यपि तु निष्फले यथोक्तकारिणां पुंसामिहैव फलदर्शनात्
साधकः सिद्धमंत्रश्च निरस्तप्रतिबंधकः विश्वस्तः श्रद्धधानश्च कुर्वन्नाप्नोति तत्फलम्
अथवा तत्फलावाप्त्यै ब्रह्मचर्यरतो भवेत् रात्रौ हविष्यमश्नीयात्पायसं वा फलानि वा
हिंसादि यन्निषिद्धं स्यान्न कुर्यान्मनसापि तत् सदा भस्मानुलिप्तां गस्सुवेषश्च शुचिर्भवेत्
इत्थमाचारवान्भूत्वा स्वानुकूले शुभे ऽहनि पूर्वोक्तलक्षणे देशे पुष्पदामाद्यलंकृते
विलिखेत्कमले भद्रे दीप्यमानं स्वतेजसा
तप्तजांबूनदमयमष्टपत्रं सकेसरम् मध्ये कर्णिकया युक्तं सर्वरत्नैरलंकृतम्
स्वाकारसदृशेनैव नालेन च समन्वितम् तादृशे स्वर्णनिर्माणे कंदे सम्यग्विधानतः
तत्राणिमादिकं सर्वं संकल्प्य मनसा पुनः रत्नजं वाथ सौवर्णं स्फटिकं वा सलक्षणम् लिङ्गं सवेदिकं चैव स्थापयित्वा विधानतः
तत्रावाह्य यजेद्देवं सांबं सगणमव्ययम् तत्र माहेश्वरी कल्प्या मूर्तिर्मूर्तिमतः प्रभोः
चतुर्भुजा चतुर्वक्त्रा सर्वाभरणभूषिता शार्दूलचर्मवसना किंचिद्विहसितानना
वरदाभयहस्ता च मृगटंकधरा तथा अथ वाष्टभुजा चिंत्या चिंतकस्य यथारुचि
तदा त्रिशूलपरशुखड्गवज्राणि दक्षिणे वामे पाशांकुशौ तद्वत्खेटं नागं च बिभ्रती
बालार्कसदृशप्रख्या प्रतिवक्त्रं त्रिलोचना तस्याः पूर्वमुखं सौम्यं स्वाकारसदृशप्रभम्
दक्षिणं नीलजीमूतसदृशं घोरदर्शनम् उत्तरं विद्रुमप्रख्यं नीलालकविभूषितम्