भैरवाद्याश्च ये चान्ये समंतात्तस्य वेष्टिताः ते ऽपि मामनुगृह्णंतु शिवशासनगौरवात्
नारदाद्याश्च मुनयो दिव्या देवैश्च पूजिताः साध्या मागाश्च ये देवा जनलोकनिवासिनः
विनिवृत्ताधिकाराश्च महर्लोकनिवासिनः सप्तर्षयस्तथान्ये वै वैमानिकगुणैस्सह
सर्वे शिवार्चनरताः शिवाज्ञावशवर्तिनः
गंधर्वाद्याः पिशाचांताश्चतस्रो देवयोनयः सिद्धा विद्याधराद्याश्च ये ऽपि चान्ये नभश्चराः
असुरा राक्षसाश्चैव पातालतलवासिनः अनंताद्याश्च नागेन्द्रा वैनतेयादयो द्विजाः
कूष्मांडाः प्रेतवेताला ग्रहा भूतगणाः परे डाकिन्यश्चापि योगिन्यः शाकिन्यश्चापि तादृशाः
क्षेत्रारामगृहादीनि तीर्थान्यायतनानि च द्वीपाः समुद्रा नद्यश्च नदाश्चान्ये सरांसि च
गिरयश्च सुमेर्वाद्याः कननानि समंततः पशवः पक्षिणो वृक्षाः कृमिकीटादयो मृगाः
भुवनान्यपि सर्वाणि भुवनानामधीश्वरः अण्डान्यावरणैस्सार्धं मासाश्च दश दिग्गजाः
वर्णाः पदानि मंत्राश्च तत्त्वान्यपि सहाधिपैः ब्रह्मांडधारका रुद्रा रुद्राश्चान्ये सशक्तिकाः
यच्च किंचिज्जगत्यस्मिन्दृष्टं चानुमितं श्रुतम् सर्वे कामं प्रयच्छन्तु शिवयोरेव शासनात्
अथ विद्या परा शैवी पशुपाशविमोचिनी पञ्चार्थसंज्ञिता दिव्या पशुविद्याबहिष्कृता
शास्त्रं च शिवधर्माख्यं धर्माख्यं च तदुत्तरम् शैवाख्यं शिवधर्माख्यं पुराणं श्रुतिसंमितम्
शैवागमाश्च ये चान्ये कामिकाद्याश्चतुर्विधाः शिवाभ्यामविशेषेण सत्कृत्येह समर्चिताः
ताभ्यामेव समाज्ञाता ममाभिप्रेतसिद्धये कर्मेदमनुमन्यंतां सफलं साध्वनुष्ठितम्
श्वेताद्या नकुलीशांताः सशिष्याश्चापि देशिकाः तत्संततीया गुरवो विशेषाद्गुरवो मम
शैवा माहेश्वराश्चैव ज्ञानकर्मपरायणाः कर्मेदमनुमन्यंतां सफलं साध्वनुष्ठितम्
लौकिका ब्राह्मणास्सर्वे क्षत्रियाश्च विशः क्रमात् वेदवेदांगतत्त्वज्ञाः सर्वशास्त्रविशारदाः
सांख्या वैशेषिकाश्चैव यौगा नैयायिका नराः सौरा ब्रह्मास्तथा रौद्रा वैष्णवाश्चापरे नराः
शिष्टाः सर्वे विशिष्टा च शिवशासनयंत्रिताः कर्मेदमनुमन्यंतां ममाभिप्रेतसाधकम्
शैवाः सिद्धांतमार्गस्थाः शैवाः पाशुपतास्तथा शैवा महाव्रतधराः शैवाः कापालिकाः परे
शिवाज्ञापालकाः पूज्या ममापि शिवशासनात् सर्वे ममानुगृह्णंतु शंसंतु सफलक्रियाम्
दक्षिणज्ञाननिष्ठाश्च दक्षिणोत्तरमार्गगाः अविरोधेन वर्तंतां मंत्रश्रेयो ऽर्थिनो मम
नास्तिकाश्च शठाश्चैव कृतघ्नाश्चैव तामसाः पाषंडाश्चातिपापाश्च वर्तंतां दूरतो मम
बहुभिः किं स्तुतैरत्र ये ऽपि के ऽपिचिदास्तिकाः सर्वे मामनुगृह्णंतु संतः शंसंतु मंगलम्
नमश्शिवाय सांबाय ससुतायादिहेतवे पञ्चावरणरूपेण प्रपञ्चेनावृताय ते
इत्युक्त्वा दंडवद्भूमौ प्रणिपत्य शिवं शिवाम् जपेत्पञ्चाक्षरीं विद्यामष्टोत्तरशतावराम्
तथैव शक्तिविद्यां च जपित्वा तत्समर्पणम् कृत्वा तं क्षमयित्वेशं पूजाशेषं समापयेत्
एतत्पुण्यतमं स्तोत्रं शिवयोर्हृदयंगमम् सर्वाभीष्टप्रदं साक्षाद्भुक्तिमुक्त्यैकसाधनम्