मूर्तिं कृत्वा महाविष्णुं सदाशिष्णुमथापि वा वैष्णवैः पूजितो नित्यं मूर्तित्रयमयासने
शिवप्रियः शिवासक्तः शिवपादार्चने रतः शिवस्याज्ञां पुरस्कृत्य स मे दिशतु मंगलम्
वासुदेवो ऽनिरुद्धश्च प्रद्युम्नश्च ततः परः संकर्षणस्समाख्याताश्चतस्रो मूर्तयो हरेः
मत्स्यः कूर्मो वराहश्च नारसिंहो ऽथ वामनः रामत्रयं तथा कृष्णो विष्णुस्तुरगवक्त्रकः
चक्रं नारायणस्यास्त्रं पांचजन्यं च शार्ङ्गकम् सत्कृत्य शिवयोराज्ञां मंगलं प्रदिशंतु मे
प्रभा सरस्वती गौरी लक्ष्मीश्च शिवभाविता शिवयोः शासनादेता मंगलं प्रदिशंतु मे
इन्द्रो ऽग्निश्च यमश्चैव निरृतिर्वरुणस्तथा वायुः सोमः कुबेरश्च तथेशानस्त्रिशूलधृक्
सर्वे शिवार्चनरताः शिवसद्भावभाविताः सत्कृत्य शिवयोराज्ञां मंगलं प्रदिशंतु मे
त्रिशूलमथ वज्रं च तथा परशुसायकौ खड्गपाशांकुशाश्चैव पिनाकश्चायुधोत्तमः
दिव्यायुधानि देवस्य देव्याश्चैतानि नित्यशः सत्कृत्य शिवयोराज्ञां रक्षां कुर्वंतु मे सदा
वृषरूपधरो देवः सौरभेयो महाबलः वडवाख्यानलस्पर्धां पञ्चगोमातृभिर्वृतः
वाहनत्वमनुप्राप्तस्तपसा परमेशयोः तयोराज्ञां पुरस्कृत्य स मे कामं प्रयच्छतु
नंदा सुनंदा सुरभिः सुशीला सुमनास्तथा पञ्चगोमातरस्त्वेताश्शिवलोके व्यवस्थिताः
शिवभक्तिपरा नित्यं शिवार्चनपरायणाः शिवयोः शासनादेव दिशंतु मम वांछितम्
क्षेत्रपालो महातेजा नील जीमूतसन्निभः दंष्ट्राकरालवदनः स्फुरद्रक्ताधरोज्ज्वलः
रक्तोर्ध्वमूर्धजः श्रीमान्भ्रुकुटीकुटिलेक्षणः रक्तवृत्तत्रिनयनः शशिपन्नगभूषणः
नग्नस्त्रिशूलपाशासिकपालोद्यतपाणिकः भैरवो भैरवैः सिद्धैर्योगिनीभिश्च संवृतः
क्षेत्रेक्षेत्रे समासीनः स्थितो यो रक्षकस्सताम् शिवप्रणामपरमः शिवसद्भावभावितः
शिवश्रितान्विशेषेण रक्षन्पुत्रानिवौरसान् सत्कृत्य शिवयोराज्ञां स मे दिशतु मङ्गलम्
तालजङ्घादयस्तस्य प्रथमावरणेर्चिताः सत्कृत्य शिवयोराज्ञां चत्वारः समवन्तु माम्
भैरवाद्याश्च ये चान्ये समंतात्तस्य वेष्टिताः ते ऽपि मामनुगृह्णंतु शिवशासनगौरवात्
नारदाद्याश्च मुनयो दिव्या देवैश्च पूजिताः साध्या मागाश्च ये देवा जनलोकनिवासिनः
विनिवृत्ताधिकाराश्च महर्लोकनिवासिनः सप्तर्षयस्तथान्ये वै वैमानिकगुणैस्सह
सर्वे शिवार्चनरताः शिवाज्ञावशवर्तिनः
गंधर्वाद्याः पिशाचांताश्चतस्रो देवयोनयः सिद्धा विद्याधराद्याश्च ये ऽपि चान्ये नभश्चराः
असुरा राक्षसाश्चैव पातालतलवासिनः अनंताद्याश्च नागेन्द्रा वैनतेयादयो द्विजाः
कूष्मांडाः प्रेतवेताला ग्रहा भूतगणाः परे डाकिन्यश्चापि योगिन्यः शाकिन्यश्चापि तादृशाः
क्षेत्रारामगृहादीनि तीर्थान्यायतनानि च द्वीपाः समुद्रा नद्यश्च नदाश्चान्ये सरांसि च
गिरयश्च सुमेर्वाद्याः कननानि समंततः पशवः पक्षिणो वृक्षाः कृमिकीटादयो मृगाः
भुवनान्यपि सर्वाणि भुवनानामधीश्वरः अण्डान्यावरणैस्सार्धं मासाश्च दश दिग्गजाः