संहर्तारं तथा रुद्रं स्वप्रकाशमुपास्महे ज्ञानकर्मेंद्रियाणां च मनोवृत्तीर्धियस्तथा
भोगमोक्षप्रदे धर्मे ज्ञाने च प्रेरयेत्सदा इत्थमर्थं धियाध्यायन्ब्रह्मप्राप्नोति निश्चयः
केवलं वा जपेन्नित्यं ब्राह्मण्यस्य च पूर्तये सहस्रमभ्यसेन्नित्यं प्रातर्ब्राह्मणपुंगवः
अन्येषां च यथा शक्तिम् अध्याह्ने च शतं जपेत् सायं द्विदशकं ज्ञेयं शिखाष्टकसमन्वितम्
मूलाधारं समारभ्य द्वादशांतस्थितांस्तथा विद्येशब्रह्मविष्ण्वीशजीवात्मपरमेश्वरान्
ब्रह्मबुद्ध्या तदैक्यं च सोहं भावनया जपेत् तानेव ब्रह्मरंध्रादौ कायाद्बाह्ये च भावयेत्
महत्तत्त्वं समारभ्य शरीरं तु सहस्रकम् एकैकस्माज्जपादेकमतिक्रम्य शनैः शनैः
परस्मिन्योजयेज्जीवं जपतत्त्वमुदाहृतम् शतद्विदशकं देहं शिखाष्टकसमन्वितम्
मंत्राणां जप एवं हि जपमादिक्रमाद्विदुः सहस्रं ब्राह्मदं विद्याच्छतमैंद्रप्रदं विदुः
इतरत्त्वात्मरक्षार्थं ब्रह्मयोनिषु जायते दिवाकरमुपस्थाय नित्यमित्थं समाचरेत्
लक्षद्वादशयुक्तस्तु पूर्णब्राह्मण ईरितः गायत्र्या लक्षहीनं तु वेदकार्येन योजयेत्
आसप्ततेस्तु नियमं पश्चात्प्रव्राजनं चरेत् प्रातर्द्वादशसाहस्रं प्रव्राजीप्रणवं जपेत्
दिने दिने त्वतिक्रांते नित्यमेवं क्रमाज्जपेत् मासादौ क्रमशो ऽतीते सार्धलक्षजपेन हि
अत ऊर्ध्वमतिक्रांते पुनः प्रैषं समाचरेत् एवं कृत्वा दोषशांतिरन्यथा रौरवं व्रजेत्
धर्मार्थयोस्ततो यत्नं कुर्यात्कामी न चेतरः ब्राह्मणो मुक्तिकामः स्याद्ब्रह्मज्ञानं सदाभ्यसेत्
धर्मादर्थो ऽर्थतो भोगो भोगाद्वैराग्यसंभवः धर्मार्जितार्थभोगेन वैराग्यमुपजायते
विपरीतार्थभोगेन राग एव प्रजायते धर्मश्च द्विविधः प्रोक्तो द्रव्यदेहद्वयेन च
द्रव्यमिज्यादिरूपं स्यात्तीर्थस्नानादि दैहिकम् धनेन धनमाप्नोति तपसा दिव्यरूपताम्
निष्कामः शुद्धिमाप्नोति शुद्ध्या ज्ञानं न संशयः कृतादौ हि तपःश्लोघ्यं द्रव्यधर्मः कलौ युगे
कृतेध्यानाज्ज्ञानसिद्धिस्त्रेतायां तपसा तथा द्वापरे यजनाज्ज्ञानं प्रतिमापूजया कलौ
यादृशं पुण्यं पापं वा तादृशं फलमेव हि द्रव्यदेहांगभेदेन न्यूनवृद्धिक्षयादिकम्
अधर्मो हिंसिकारूपो धर्मस्तु सुखरूपकः अधर्माद्दुःखमाप्नोति धर्माद्वै सुखमेधते
विद्यादुर्वृत्तितो दुःखं सुखं विद्यात्सुवृत्तितः धर्मार्जनमतः कुर्याद्भोगमोक्षप्रसिद्धये
सकुटुंबस्य विप्रस्य चतुर्जनयुतस्य च शतवर्षस्य वृत्तिं तु दद्यात्तद्ब्रह्मलोकदम्
चांद्रायणसहस्रं तु ब्रह्मलोकप्रदं विदुः सहस्रस्य कुटुंबस्य प्रतिष्ठां क्षत्रियश्चरेत्
इंद्रलोकप्रदं विद्यादयुतं ब्रह्मलोकदम् यां देवतां पुरस्कृत्य दानमाचरते नरः
तत्तल्लोकमवाप्नोति इति वेदविदो विदुः अर्थहीनः सदा कुर्यात्तपसा मार्जनं तथा
तीर्थाच्च तपसा प्राप्यं सुखमक्षय्यमश्नुते अर्थार्जनमथो वक्ष्ये न्यायतः सुसमाहितः
कृतात्प्रतिग्रहाच्चैव याजनाच्च विशुद्धितः अदैन्यादनतिक्लेशाद्ब्राह्मणो धनमर्जयेत्
क्षत्रियो बाहुवीर्येण कृषिगोरक्षणाद्विशः न्यायार्जितस्य वित्तस्य दानात्सिद्धिं समश्नुते