सत्कृत्य शिवयोराज्ञां स मे दिशतु मंगलम् दिवाकरषडंगानि दीप्ताद्याश्चाष्टशक्तयः
आदित्यो भास्करो भानू रविश्चेत्यनुपूर्वशः अर्को ब्रह्मा तथा रुद्रो विष्नुश्चादित्यमूर्तयः
विस्तरासुतराबोधिन्याप्यायिन्यपराः पुनः उषा प्रभा तथा प्राज्ञा संध्या चेत्यपि शक्तयः
सोमादिकेतुपर्यंता ग्रहाश्च शिवभाविताः शिवयोराज्ञयानुन्ना मंगलं प्रदिशंतु मे
अथवा द्वादशादित्यास्तथा द्वादश शक्तयः ऋषयो देवगंधर्वाः पन्नगाप्सरसां गणाः
ग्रामण्यश्च तथा यक्षा राक्षसाश्चासुरास्तथा सप्तसप्तगणाश्चैते सप्तच्छंदोमया हयाः
वालखिल्या दयश्चैव सर्वे शिवपदार्चकाः सत्कृत्यशिवयोराज्ञां मंगलं प्रदिशंतु मे
ब्रह्माथ देवदेवस्य मूर्तिर्भूमण्डलाधिपः चतुःषष्टिगुणैश्वर्यो बुद्धितत्त्वे प्रतिष्ठितः
निर्गुणो गुणसंकीर्णस्तथैव गुणकेवलः अविकारात्मको देवस्ततस्साधारणः पुरः
असाधारणकर्मा च सृष्टिस्थितिलयक्रमात् भुवं त्रिधा चतुर्धा च विभक्तः पञ्चधा पुनः
चतुर्थावरणे शंभो पूजितश्च सहानुगैः शिवप्रियः शिवासक्तश्शिवपादार्चने रतः
सत्कृत्य शिवयोराज्ञां स मे दिशतु मंगलम् हिरण्यगर्भो लोकेशो विराट् कालश्च पूरुषः
सनत्कुमारः सनकः सनंदश्च सनातनः प्रजानां पतयश्चैव दक्षाद्या ब्रह्मसूनवः
एकादश सपत्नीका धर्मस्संकल्प एव च शिवार्चनरताश्चैते शिवभक्तिपरायणाः
शिवाज्ञावशगास्सर्वे दिशंतु मम मंगलम् चत्वारश्च तथा वेदास्सेतिहासपुराणकाः
धर्मशास्त्राणि विद्याभिर्वैदिकीभिस्समन्विताः परस्परविरुद्धार्थाः शिवप्रकृतिपादकाः
सत्कृत्य शिवयोराज्ञां मंगलं प्रदिशंतु मे अथ रुद्रो महादेवः शंभोर्मूर्तिर्गरीयसी
वाह्नेयमण्डलाधीशः पौरुषैश्वर्यवान्प्रभुः शिवाभिमानसंपन्नो निर्गुणस्त्रिगुणात्मकः
केवलं सात्त्विकश्चापि राजसश्चैव तामसः अविकाररतः पूर्वं ततस्तु समविक्रियः
असाधारणकर्मा च सृष्ट्यादिकरणात्पृथक् ब्रह्मणोपि शिरश्छेत्ता जनकस्तस्य तत्सुतः
जनकस्तनयश्चापि विष्णोरपि नियामकः बोधकश्च तयोर्नित्यमनुग्रहकरः प्रभुः
अंडस्यांतर्बहिर्वर्ती रुद्रो लोकद्वयाधिपः शिवप्रियः शिवासक्तः शिवपादार्चने रतः
शिवस्याज्ञां पुरस्कृत्य स मे दिशतु मंगलम् तस्य ब्रह्म षडंगानि विद्येशांतं तथाष्टकम्
चत्वारो मूर्तिभेदाश्च शिवपूर्वाः शिवार्चकाः शिवो भवो हरश्चैव मृडश्चैव तथापरः शिवस्याज्ञां पुरस्कृत्य मंगलं प्रदिशंतु मे
अथ विष्णुर्महेशस्य शिवस्यैव परा तनुः वारितत्त्वाधिपः साक्षादव्यक्तपदसंस्थितः
निर्गुणस्सत्त्वबहुलस्तथैव गुणकेवलः अविकाराभिमानी च त्रिसाधारणविक्रियः
असाधारणकर्मा च सृष्ट्यादिकरणात्पृथक् दक्षिणांगभवेनापि स्पर्धमानः स्वयंभुवा
आद्येन ब्रह्मणा साक्षात्सृष्टः स्रष्टा च तस्य तु अंडस्यांतर्बहिर्वर्ती विष्णुर्लोकद्वयाधिपः
असुरांतकरश्चक्री शक्रस्यापि तथानुजः प्रादुर्भूतश्च दशधा भृगुशापच्छलादिह
भूभारनिग्रहार्थाय स्वेच्छयावातरक्षितौ अप्रमेयबलो मायी मायया मोहयञ्जगत्