इंद्रजिच्चंद्रसेनानीस्तारकासुरजित्तथा शैलानां मेरुमुख्यानां वेधकश्च स्वतेजसा
तप्तचामीकरप्रख्यः शतपत्रदलेक्षणः कुमारस्सुकुमाराणां रूपोदाहरणं महत्
शिवप्रियः शिवासक्तः शिवपदार्चकस्सदा सत्कृत्य शिवयोराज्ञां स मे दिशतु कांक्षितम्
ज्येष्ठा वरिष्ठा वरदा शिवयोर्यजनेरता तयोराज्ञां पुरस्कृत्य सा मे दिशतु कांक्षितम्
त्रैलोक्यवंदिता साक्षादुल्काकारा गणांबिका जगत्सृष्टिविवृद्ध्यर्थं ब्रह्मणा ऽभ्यर्थिता शिवात्
शिवायाः प्रविभक्ताया भ्रुवोरन्तरनिस्सृताः दक्षायणी सती मेना तथा हैमवती ह्युमा
कौशिक्याश्चैव जननी भद्रकाल्यास्तथैव च अपर्णायाश्च जननी पाटलायास्तथैव च
शिवार्चनरता नित्यं रुद्राणी रुद्रवल्लभा सत्कृट्य शिवयोराज्ञां सा मे दिशतु कांक्षितम्
चंडः सर्वगणेशानः शंभोर्वदनसंभवः सत्कृत्य शिवयोराज्ञां स मे दिशतु कांक्षितम्
पिंगलो गणपः श्रीमाञ्छिवासक्तः शिवप्रियः आज्ञया शिवयोरेव स मे कामं प्रयच्छतु
भृंगीशो नाम गणपः शिवराधनतत्परः प्रयच्छतु स मे कामं पत्युराज्ञा पुरःसरम्
वीरभद्रो महातेजा हिमकुंदेंदुसन्निभः भद्रकालीप्रियो नित्यं मात्ःणां चाभिरक्षिता
यज्ञस्य च शिरोहर्ता दक्षस्य च दुरात्मनः उपेंद्रेंद्रयमादीनां देवानामंगतक्षकः
शिवस्यानुचरः श्रीमाञ्छिवशासनपालकः शिवयोः शासनादेव स मे दिशतु कांक्षितम्
सरस्वती महेशस्य वाक्सरोजसमुद्भवा शिवयोः पूजने सक्ता स मे दिशतु कांक्षितम्
विष्णोर्वक्षःस्थिता लक्ष्मीः शिवयोः पूजने रता शिवयोः शासनादेव सा मे दिशतु कांक्षितम्
महामोटी महादेव्याः पादपूजापरायणा तस्या एव नियोगेन सा मे दिशतु कांक्षितम्
कौशिकी सिंहमारूढा पार्वत्याः परमा सुता विष्णोर्निद्रामहामाया महामहिषमर्दिनी
निशंभशुंभसंहत्री मधुमांसासवप्रिया सत्कृत्य शासनं मातुस्सा मे दिशतु कांक्षितम्
रुद्रा रुद्रसमप्रख्याः प्रथमाः प्रथितौजसः भूताख्याश्च महावीर्या महादेवसमप्रभाः
नित्यमुक्ता निरुपमा निर्द्वन्द्वा निरुपप्लवाः सशक्तयस्सानुचरास्सर्वलोकनमस्कृताः
सर्वेषामेव लोकानां सृष्टिसंहरणक्षमाः परस्परानुरक्ताश्च परस्परमनुव्रताः
परस्परमतिस्निग्धाः परस्परनमस्कृताः शिवप्रियतमा नित्यं शिवलक्षणलक्षिताः
सौम्याधारास्तथा मिश्राश्चांतरालद्वयात्मिकाः विरूपाश्च सुरूपाश्च नानारूपधरास्तथा
सत्कृत्य शिवयोराज्ञां ते मे कामं दिशंतु वै देव्या प्रियसखीवर्गो देवीलक्षणलक्षितः
सहितो रुद्रकन्याभिः शक्तिभिश्चाप्यनेकशः तृतीयावरणे शंभोर्भक्त्या नित्यं समर्चितः
सत्कृत्य शिवयोराज्ञां स मे दिशतु मंगलम् दिवाकरो महेशस्य मूर्तिर्दीप्तिसुमंडलः
निर्गुणो गुणसंकीर्णस्तथैव गुणकेवलः अविकारात्मकश्चाद्य एकस्सामान्यविक्रियः
असाधारणकर्मा च सृष्टिस्थितिलयक्रमात् एवं त्रिधा चतुर्धा च विभक्ताः पञ्चधा पुनः
चतुर्थावरणे शंभोः पूजितश्चानुगैः सह शिवप्रियः शिवासक्तः शिवपादार्चने रतः