महाकालो महाबाहुर्महादेव इवापरः
शिवप्रियः शिवासक्तश्शिवयोरर्चकस्सदा सत्कृत्य शिवयोराज्ञां स मे दिशतु कांक्षितम्
सर्वशास्त्रार्थतत्त्वज्ञः शास्ता विष्नोः परा तनुः महामोहात्मतनयो मधुमांसासवप्रियः तयोराज्ञां पुरस्कृत्य स मे कामं प्रयच्छतु
ब्रह्माणी चैव माहेशी कौमारी वैष्णवी तथा वाराही चैव माहेंद्री चामुंडा चंडविक्रमा
एता वै मातरः सप्त सर्वलोकस्य मातरः प्रार्थितं मे प्रयच्छंतु परमेश्वरशासनात्
मत्तमातंगवदनो गंगोमाशंकरात्मजः आकाशदेहो दिग्बाहुस्सोमसूर्याग्निलोचनः
ऐरावतादिभिर्दिव्यैर्दिग्गजैर्नित्यमर्चितः शिवज्ञानमदोद्भिन्नर्स्त्रिदशानामविघ्नकृत्
विघ्नकृच्चासुरादीनां विघ्नेशः शिवभावितः सत्कृत्य शिवयोराज्ञां स मे दिशतु कांक्षितम्
षण्मुखश्शिवसम्भूतः शक्तिवज्रधरः प्रभुः अग्नेश्च तनयो देवो ह्यपर्णातनयः पुनः
गंगायाश्च गणांबायाः कृत्तिकानां तथैव च विशाखेन च शाखेन नैगमेयेन चावृतः
इंद्रजिच्चंद्रसेनानीस्तारकासुरजित्तथा शैलानां मेरुमुख्यानां वेधकश्च स्वतेजसा
तप्तचामीकरप्रख्यः शतपत्रदलेक्षणः कुमारस्सुकुमाराणां रूपोदाहरणं महत्
शिवप्रियः शिवासक्तः शिवपदार्चकस्सदा सत्कृत्य शिवयोराज्ञां स मे दिशतु कांक्षितम्
ज्येष्ठा वरिष्ठा वरदा शिवयोर्यजनेरता तयोराज्ञां पुरस्कृत्य सा मे दिशतु कांक्षितम्
त्रैलोक्यवंदिता साक्षादुल्काकारा गणांबिका जगत्सृष्टिविवृद्ध्यर्थं ब्रह्मणा ऽभ्यर्थिता शिवात्
शिवायाः प्रविभक्ताया भ्रुवोरन्तरनिस्सृताः दक्षायणी सती मेना तथा हैमवती ह्युमा
कौशिक्याश्चैव जननी भद्रकाल्यास्तथैव च अपर्णायाश्च जननी पाटलायास्तथैव च
शिवार्चनरता नित्यं रुद्राणी रुद्रवल्लभा सत्कृट्य शिवयोराज्ञां सा मे दिशतु कांक्षितम्
चंडः सर्वगणेशानः शंभोर्वदनसंभवः सत्कृत्य शिवयोराज्ञां स मे दिशतु कांक्षितम्
पिंगलो गणपः श्रीमाञ्छिवासक्तः शिवप्रियः आज्ञया शिवयोरेव स मे कामं प्रयच्छतु
भृंगीशो नाम गणपः शिवराधनतत्परः प्रयच्छतु स मे कामं पत्युराज्ञा पुरःसरम्
वीरभद्रो महातेजा हिमकुंदेंदुसन्निभः भद्रकालीप्रियो नित्यं मात्ःणां चाभिरक्षिता
यज्ञस्य च शिरोहर्ता दक्षस्य च दुरात्मनः उपेंद्रेंद्रयमादीनां देवानामंगतक्षकः
शिवस्यानुचरः श्रीमाञ्छिवशासनपालकः शिवयोः शासनादेव स मे दिशतु कांक्षितम्
सरस्वती महेशस्य वाक्सरोजसमुद्भवा शिवयोः पूजने सक्ता स मे दिशतु कांक्षितम्
विष्णोर्वक्षःस्थिता लक्ष्मीः शिवयोः पूजने रता शिवयोः शासनादेव सा मे दिशतु कांक्षितम्
महामोटी महादेव्याः पादपूजापरायणा तस्या एव नियोगेन सा मे दिशतु कांक्षितम्
कौशिकी सिंहमारूढा पार्वत्याः परमा सुता विष्णोर्निद्रामहामाया महामहिषमर्दिनी
निशंभशुंभसंहत्री मधुमांसासवप्रिया सत्कृत्य शासनं मातुस्सा मे दिशतु कांक्षितम्
रुद्रा रुद्रसमप्रख्याः प्रथमाः प्रथितौजसः भूताख्याश्च महावीर्या महादेवसमप्रभाः