शिवस्य तु शिवायाश्च हृन्मूर्तिशिवभाविते तयोराज्ञां पुरस्कृत्य ते मे कामं प्रयच्छताम्
शिवस्य च शिवायाश्च शिखामूर्तिशिवाश्रिते सत्कृत्य शिवयोराज्ञां ते मे कामं प्रयच्छताम्
शिवस्य च शिवायाश्च वर्मणा शिवभाविते सत्कृत्य शिवयोराज्ञां ते मे कामं प्रयच्छताम्
शिवस्य च शिवायाश्च नेत्रमूर्तिशिवाश्रिते सत्कृत्य शिवयोराज्ञां ते मे कामं प्रयच्छताम्
अस्त्रमूर्ती च शिवयोर्नित्यमर्चनतत्परे सत्कृत्य शिवयोराज्ञां ते मे कामं प्रयच्छताम्
वामौ ज्येष्ठस्तथा रुद्रः कालो विकरणस्तथा बलो विकरणश्चैव बलप्रमथनः परः
सर्वभूतस्य दमनस्तादृशाश्चाष्टशक्तयः प्रार्थितं मे प्रयच्छंतु शिवयोरेव शासनात्
अथानंतश्च सूक्ष्मश्च शिवश्चाप्येकनेत्रकः एक रुद्राख्यमर्तिश्च श्रीकण्ठश्च शिखंडकः
तथाष्टौ शक्तयस्तेषां द्वितीयावरणे ऽर्चिताः ते मे कामं प्रयच्छंतु शिवयोरेव शासनात्
भवाद्या मूर्तयश्चाष्टौ तासामपि च शक्तयः महादेवादयश्चान्ये तथैकादशमूर्तयः
शक्तिभिस्सहितास्सर्वे तृतीयावरणे स्थिताः सत्कृत्य शिवयोराज्ञां दिशंतु फलमीप्सितम्
वृक्षराजो महातेजा महामेघसमस्वनः मेरुमंदरकैलासहिमाद्रिशिखरोपमः
सिताभ्रशिखराकारः ककुदा परिशोभितः महाभोगींद्रकल्पेन वालेन च विराजितः
रक्तास्यशृंगचरणौ रक्तप्रायविलोचनः पीवरोन्नतसर्वांगस्सुचारुगमनोज्ज्वलः
प्रशस्तलक्षणः श्रीमान्प्रज्वलन्मणिभूषणः शिवप्रियः शिवासक्तः शिवयोर्ध्वजवाहनः
तथा तच्चरणन्यासपावितापरविग्रहः गोराजपुरुषः श्रीमाञ्छ्रीमच्छूलवरायुधः तयोराज्ञां पुरस्कृत्य स मे कामं प्रयच्छतु
नन्दीश्वरो महातेजा नगेन्द्रतनयात्मजः सनारायणकैर्देवैर्नित्यमभ्यर्च्य वंदितः
शर्वस्यांतःपुरद्वारि सार्धं परिजनैः स्थितः सर्वेश्वरसमप्रख्यस्सर्वासुरविमर्दनः
सर्वेषां शिवधर्माणामध्यक्षत्वे ऽभिषेचितः शिवप्रियश्शिवासक्तश्श्रीमच्छूलवरायुधः
शिवाश्रितेषु संसक्तस्त्वनुरक्तश्च तैरपि सत्कृत्य शिवयोराज्ञां स मे कामं प्रयच्छतु
महाकालो महाबाहुर्महादेव इवापरः
शिवप्रियः शिवासक्तश्शिवयोरर्चकस्सदा सत्कृत्य शिवयोराज्ञां स मे दिशतु कांक्षितम्
सर्वशास्त्रार्थतत्त्वज्ञः शास्ता विष्नोः परा तनुः महामोहात्मतनयो मधुमांसासवप्रियः तयोराज्ञां पुरस्कृत्य स मे कामं प्रयच्छतु
ब्रह्माणी चैव माहेशी कौमारी वैष्णवी तथा वाराही चैव माहेंद्री चामुंडा चंडविक्रमा
एता वै मातरः सप्त सर्वलोकस्य मातरः प्रार्थितं मे प्रयच्छंतु परमेश्वरशासनात्
मत्तमातंगवदनो गंगोमाशंकरात्मजः आकाशदेहो दिग्बाहुस्सोमसूर्याग्निलोचनः
ऐरावतादिभिर्दिव्यैर्दिग्गजैर्नित्यमर्चितः शिवज्ञानमदोद्भिन्नर्स्त्रिदशानामविघ्नकृत्
विघ्नकृच्चासुरादीनां विघ्नेशः शिवभावितः सत्कृत्य शिवयोराज्ञां स मे दिशतु कांक्षितम्
षण्मुखश्शिवसम्भूतः शक्तिवज्रधरः प्रभुः अग्नेश्च तनयो देवो ह्यपर्णातनयः पुनः
गंगायाश्च गणांबायाः कृत्तिकानां तथैव च विशाखेन च शाखेन नैगमेयेन चावृतः