अतस्त्वद्विहितामाज्ञां क्षमते को ऽतिवर्तितुम्
अयं पुनर्जनो नित्यं भवदेकसमाश्रयः भवानतो ऽनुगृह्यास्मै प्रार्थितं संप्रयच्छतु
जयांबिके जगन्मातर्जय सर्वजगन्मयि जयानवधिकैश्वर्ये जयानुपमविग्रहे
जय वाङ्मनसातीते जयाचिद्ध्वांतभंजिके जय जन्मजराहीने जय कालोत्तरोत्तरे
जयानेकविधानस्थे जय विश्वेश्वरप्रिये जय विश्वसुराराध्ये जय विश्वविजृंभिणि
जय मंगलदिव्यांगि जय मंगलदीपिके जय मंगलचारित्रे जय मंगलदायिनि
नमः परमकल्याणगुणसंचयमूर्तये त्वत्तः खलु समुत्पन्नं जगत्त्वय्येव लीयते
त्वद्विनातः फलं दातुमीश्वरोपि न शक्नुयात् जन्मप्रभृति देवेशि जनोयं त्वदुपाश्रितः
अतो ऽस्य तव भक्तस्य निर्वर्तय मनोरथम् पञ्चवक्त्रो दशभुजः शुद्धस्फटिकसन्निभः
वर्णब्रह्मकलादेहो देवस्सकलनिष्कलः शिवभक्तिसमारूढः शांत्यतीतस्सदाशिवः भक्त्या मयार्चितो मह्यं प्रार्थितं शं प्रयच्छतु
सदाशिवांकमारूढा शक्तिरिच्छा शिवाह्वया जननी सर्वलोकानां प्रयच्छतु मनोरथम्
शिवयोर्दयिता पुत्रौ देवौ हेरंबषण्मुखौ शिवानुभावौ सर्वज्ञौ शिवज्ञानामृताशिनौ
तृप्तौ परस्परं स्निग्धौ शिवाभ्यां नित्यसत्कृतौ सत्कृतौ च सदा देवौ ब्रह्माद्यैस्त्रिदशैरपि
सर्वलोकपरित्राणं कर्तुमभ्युदितौ सदा स्वेच्छावतारं कुर्वंतौ स्वांशभेदैरनेकशः
ताविमौ शिवयोः पार्श्वे नित्यमित्थं मयार्चितौ तयोराज्ञां पुरस्कृत्य प्रार्थितं मे प्रयच्छताम्
शुद्धस्फटिकसंकाशमीशानाख्यं सदाशिवम् मूर्धाभिमानिनी मूर्तिः शिवस्य परमात्मनः
शिवार्चनरतं शांतं शांत्यतीतं मखास्थितम् पञ्चाक्षरांतिमं बीजं कलाभिः पञ्चभिर्युतम्
प्रथमावरणे पूर्वं शक्त्या सह समर्चितम् पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु
बालसूर्यप्रतीकाशं पुरुषाख्यं पुरातनम् पूर्ववक्त्राभिमानं च शिवस्य परमेष्ठिनः
शांत्यात्मकं मरुत्संस्थं शम्भोः पादार्चने रतम् प्रथमं शिवबीजेषु कलासु च चतुष्कलम्
पूर्वभागे मया भक्त्या शक्त्या सह समर्चितम् पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु
अञ्जनादिप्रतीकाशमघोरं घोरविग्रहम् देवस्य दक्षिणं वक्त्रं देवदेवपदार्चकम्
विद्यापादं समारूढं वह्निमण्डलमध्यगम् द्वितीयं शिवबीजेषु कलास्वष्टकलान्वितम्
शंभोर्दक्षिणदिग्भागे शक्त्या सह समर्चितम् पवित्रं मध्यमं ब्रह्म प्रार्थितं मे प्रयच्छतु
कुंकुमक्षोदसंकाशं वामाख्यं वरवेषधृक् वक्त्रमुत्तरमीशस्य प्रतिष्ठायां प्रतिष्ठितम्
वारिमंडलमध्यस्थं महादेवार्चने रतम् तुरीयं शिवबीजेषु त्रयोदशकलान्वितम्
देवस्योत्तरदिग्भागे शक्त्या सह समर्चितम् पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु
शंखकुंदेंदुधवलं संध्याख्यं सौम्यलक्षणम् शिवस्य पश्चिमं वक्त्रं शिवपादार्चने रतम्
निवृत्तिपदनिष्ठं च पृथिव्यां समवस्थितम् तृतीयं शिवबीजेषु कलाभिश्चाष्टभिर्युतम्
देवस्य पश्चिमे भागे शक्त्या सह समर्चितम् पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु