इत्थं पूजां समाप्याथ देवं देवीं प्रणम्य च भक्त्या मनस्समाधाय पश्चात्स्तोत्रमुदीरयेत्
ततः स्तोत्रमुपास्यान्ते त्वष्टोत्तरशतावराम् जपेत्पञ्चाक्षरीं विद्यां सहस्रोत्तरमुत्सुकः
विद्यापूजां गुरोः पूजां कृत्वा पश्चाद्यथाक्रमम् यथोदयं यथाश्राद्धं सदस्यानपि पूजयेत्
ततः उद्वास्य देवेशं सर्वैरावरणैः सह मण्डलं गुरवे दद्याद्यागोपकरणैस्सह
शिवाश्रितेभ्यो वा दद्यात्सर्वमेवानुपूर्वशः अथवा तच्छिवायैव शिवक्षेत्रे समर्पयेत्
शिवाग्नौ वा यजेद्देवं होमद्रव्यैश्च सप्तभिः समभ्यर्च्य यथान्यायं सर्वावरणदेवताः
एष योगेश्वरो नाम त्रिषु लोकेषु विश्रुतः न तस्मादधिकः कश्चिद्यागो ऽस्ति भुवने क्वचित्
न तदस्ति जगत्यस्मिन्नसध्यं यदनेन तु ऐहिकं वा फलं किंचिदामुष्मिकफलं तु वा
इदमस्य फलं नेदमिति नैव नियम्यते श्रेयोरूपस्य कृत्स्नस्य तदिदं श्रेष्टसाधनम्
इदं न शक्यते वक्तुं पुरुषेण यदर्च्यते चिंतामणेरिवैतस्मात्तत्तेन प्राप्यते फलम्
तथापि क्षुद्रमुद्दिश्य फलं नैतत्प्रयोजयेत् लघ्वर्थी महतो यस्मात्स्वयं लघुतरो भवेत्
महद्वा फलमल्पं वा कृतं चेत्कर्म सिध्यति महादेवं समुद्दिश्य कृतं कर्म प्रयुज्यताम्
तस्मादनन्यलभ्येषु शत्रुमृत्युंजयादिषु फलेषु दृष्टादृष्टेषु कुर्यादेतद्विचक्षणः
महत्स्वपि च पातेषु महारागभयादिषु दुर्भिक्षादिषु शांत्यर्थं शांतिं कुर्यादनेन तु
बहुना किं प्रलापेन महाव्यापन्निवारकम् आत्मीयमस्त्रं शैवानामिदमाह महेश्वरः
तस्मादितः परं नास्ति परित्राणमिहात्मनः इति मत्वा प्रयुंजानः कर्मेदं शुभमश्नुते
स्तोत्रमात्रं शुचिर्भूत्वा यः पठेत्सुसमाहितः सोप्यभीष्टतमादर्थादष्टांशफलमाप्नुयात्
अर्थं तस्यानुसन्धाय पर्वण्यनशनः पठेत् अष्टाभ्यां वा चतुर्दश्यां फलमर्धं समाप्नुयात्
यस्त्वर्थमनुसंधाय पर्वादिषु तथा व्रती मासमेकं जपेत्स्तोत्रं स कृत्स्नं फलमाप्नुयात्
स्तोत्रं वक्ष्यामि ते कृष्ण पञ्चावरणमार्गतः योगेश्वरमिदं पुण्यं कर्म येन समाप्यते
जय जय जगदेकनाथ शंभो प्रकृतिमनोहर नित्यचित्स्वभाव अतिगतकलुषप्रपञ्चवाचामपि मनसां पदवीमतीततत्त्वम्
स्वभावनिर्मलाभोग जय सुन्दरचेष्टित स्वात्मतुल्यमहाशक्ते जय शुद्धगुणार्णव
अनन्तकांतिसंपन्न जयासदृशविग्रह अतर्क्यमहिमाधार जयानाकुलमंगल
निरंजन निराधार जय निष्कारणोदय निरन्तरपरानन्द जय निर्वृतिकारण
जयातिपरमैश्वर्य जयातिकरुणास्पद जय स्वतंत्रसर्वस्व जयासदृशवैभव
जयावृतमहाविश्व जयानावृत केनचित् जयोत्तर समस्तस्य जयात्यन्तनिरुत्तर
जयाद्भुत जयाक्षुद्र जयाक्षत जयाव्यय जयामेय जयामाय जयाभाव जयामल
महाभुज महासार महागुण महाकथ महाबल महामाय महारस महारथ
नमः परमदेवाय नमः परमहेतवे नमश्शिवाय शांताय नमश्शिवतराय ते
त्वदधीनमिदं कृत्स्नं जगद्धि ससुरासुरम्