ब्रह्मांडाधारका रुद्रा दशदिक्षु व्यवस्थिताः यद्गौड यच्च मामेयं यद्वा शाक्तं ततः परम्
यत्किञ्चिदस्ति शब्दस्य वाच्यं चिदचिदात्मकम् तत्सर्वं शिवयोः पार्श्वे बुद्ध्वा सामान्यतो यजेत्
कृतांजलिपुटाः सर्वे ऽचिंत्याः स्मितमुखास्तथा प्रीत्या संप्रेक्षमाणाश्च देवं देवीं च सर्वदा
इत्थमावरणाभ्यर्चां कृत्वाविक्षेपशांतये पुनरभ्यर्च्य देवेशं पक्त्वाक्षरमुदीरयेत्
निवेदयेत्ततः पश्चाच्छिवयोरमृतोपमम् सुव्यञ्जनसमायुक्तं शुद्धं चारु महाचरुम्
द्वात्रिंशदाढकैर्मुख्यमधमं त्वाढकावरम् साधयित्वा यथासंपच्छ्रद्धया विनिवेदयेत्
ततो निवेद्य पानीयं तांबूलं चोपदंशकैः नीराजनादिकं कृत्वा पूजाशेषं समापयेत्
भोगोपयोग्यद्रव्याणि विशिष्टान्येव साधयेत् वित्तशाठ्यं न कुर्वीत भक्तिमान्विभवे सति
शठस्योपेक्षकस्यापि व्यंग्यं चैवानुतिष्ठतः न फलंत्येव कर्माणि काम्यानीति सतां कथा
तस्मात्सम्यगुपेक्षां च त्यक्त्वा सर्वांगयोगतः कुर्यात्काम्यानि कर्माणि फलसिद्धिं यदीच्छति
इत्थं पूजां समाप्याथ देवं देवीं प्रणम्य च भक्त्या मनस्समाधाय पश्चात्स्तोत्रमुदीरयेत्
ततः स्तोत्रमुपास्यान्ते त्वष्टोत्तरशतावराम् जपेत्पञ्चाक्षरीं विद्यां सहस्रोत्तरमुत्सुकः
विद्यापूजां गुरोः पूजां कृत्वा पश्चाद्यथाक्रमम् यथोदयं यथाश्राद्धं सदस्यानपि पूजयेत्
ततः उद्वास्य देवेशं सर्वैरावरणैः सह मण्डलं गुरवे दद्याद्यागोपकरणैस्सह
शिवाश्रितेभ्यो वा दद्यात्सर्वमेवानुपूर्वशः अथवा तच्छिवायैव शिवक्षेत्रे समर्पयेत्
शिवाग्नौ वा यजेद्देवं होमद्रव्यैश्च सप्तभिः समभ्यर्च्य यथान्यायं सर्वावरणदेवताः
एष योगेश्वरो नाम त्रिषु लोकेषु विश्रुतः न तस्मादधिकः कश्चिद्यागो ऽस्ति भुवने क्वचित्
न तदस्ति जगत्यस्मिन्नसध्यं यदनेन तु ऐहिकं वा फलं किंचिदामुष्मिकफलं तु वा
इदमस्य फलं नेदमिति नैव नियम्यते श्रेयोरूपस्य कृत्स्नस्य तदिदं श्रेष्टसाधनम्
इदं न शक्यते वक्तुं पुरुषेण यदर्च्यते चिंतामणेरिवैतस्मात्तत्तेन प्राप्यते फलम्
तथापि क्षुद्रमुद्दिश्य फलं नैतत्प्रयोजयेत् लघ्वर्थी महतो यस्मात्स्वयं लघुतरो भवेत्
महद्वा फलमल्पं वा कृतं चेत्कर्म सिध्यति महादेवं समुद्दिश्य कृतं कर्म प्रयुज्यताम्
तस्मादनन्यलभ्येषु शत्रुमृत्युंजयादिषु फलेषु दृष्टादृष्टेषु कुर्यादेतद्विचक्षणः
महत्स्वपि च पातेषु महारागभयादिषु दुर्भिक्षादिषु शांत्यर्थं शांतिं कुर्यादनेन तु
बहुना किं प्रलापेन महाव्यापन्निवारकम् आत्मीयमस्त्रं शैवानामिदमाह महेश्वरः
तस्मादितः परं नास्ति परित्राणमिहात्मनः इति मत्वा प्रयुंजानः कर्मेदं शुभमश्नुते
स्तोत्रमात्रं शुचिर्भूत्वा यः पठेत्सुसमाहितः सोप्यभीष्टतमादर्थादष्टांशफलमाप्नुयात्
अर्थं तस्यानुसन्धाय पर्वण्यनशनः पठेत् अष्टाभ्यां वा चतुर्दश्यां फलमर्धं समाप्नुयात्
यस्त्वर्थमनुसंधाय पर्वादिषु तथा व्रती मासमेकं जपेत्स्तोत्रं स कृत्स्नं फलमाप्नुयात्
स्तोत्रं वक्ष्यामि ते कृष्ण पञ्चावरणमार्गतः योगेश्वरमिदं पुण्यं कर्म येन समाप्यते