एवं चतुर्थावरणं पूजयित्वा विधानतः आयुधानि महेशस्य पश्चाद्बांह्यं समर्चयेत्
श्रीमन्त्रिशूलमैशाने वज्रं माहेन्द्रदिङ्मुखे परशुं वह्निदिग्भागे याम्ये सायकमर्चयेत्
नैरृते तु यजेत्खड्गं पाशं वारुणगोचरे अंकुशं मारुते भागे पिनाकं चोत्तरे यजेत्
पश्चिमाभिमुखं रौद्रं क्षेत्रपालं समर्चयेत् पञ्चमावरणं चैव सम्पूज्यानन्तरं बहिः
सर्वावरणदेवानां बहिर्वा पञ्चमे ऽथवा पञ्चमे मातृभिस्सार्धं महोक्ष पुरतो यजेत्
ततः समंततः पूज्यास्सर्वा वै देवयोनयः खेचरा ऋषयस्सिद्धा दैत्या यक्षाश्च राक्षसाः
अनंताद्याश्च नागेंद्रा नागैस्तत्तत्कुलोद्भवैः डाकिनीभूतवेतालप्रेतभैरवनायकाः
पातालवासिनश्चान्ये नानायोनिसमुद्भवाः नद्यस्समुद्रा गिरयः काननानि सरांसि च
पशवः पक्षिणो वृक्षाः कीटाद्याः क्षुद्रयोनयः नराश्च विविधाकारा मृगाश्च क्षुद्रयोनयः
भुवनान्यन्तरण्डस्य ततो ब्रह्माण्डकोटयः बहिरंडान्यसंख्यानि भुवनानि सहाधिपैः
ब्रह्मांडाधारका रुद्रा दशदिक्षु व्यवस्थिताः यद्गौड यच्च मामेयं यद्वा शाक्तं ततः परम्
यत्किञ्चिदस्ति शब्दस्य वाच्यं चिदचिदात्मकम् तत्सर्वं शिवयोः पार्श्वे बुद्ध्वा सामान्यतो यजेत्
कृतांजलिपुटाः सर्वे ऽचिंत्याः स्मितमुखास्तथा प्रीत्या संप्रेक्षमाणाश्च देवं देवीं च सर्वदा
इत्थमावरणाभ्यर्चां कृत्वाविक्षेपशांतये पुनरभ्यर्च्य देवेशं पक्त्वाक्षरमुदीरयेत्
निवेदयेत्ततः पश्चाच्छिवयोरमृतोपमम् सुव्यञ्जनसमायुक्तं शुद्धं चारु महाचरुम्
द्वात्रिंशदाढकैर्मुख्यमधमं त्वाढकावरम् साधयित्वा यथासंपच्छ्रद्धया विनिवेदयेत्
ततो निवेद्य पानीयं तांबूलं चोपदंशकैः नीराजनादिकं कृत्वा पूजाशेषं समापयेत्
भोगोपयोग्यद्रव्याणि विशिष्टान्येव साधयेत् वित्तशाठ्यं न कुर्वीत भक्तिमान्विभवे सति
शठस्योपेक्षकस्यापि व्यंग्यं चैवानुतिष्ठतः न फलंत्येव कर्माणि काम्यानीति सतां कथा
तस्मात्सम्यगुपेक्षां च त्यक्त्वा सर्वांगयोगतः कुर्यात्काम्यानि कर्माणि फलसिद्धिं यदीच्छति
इत्थं पूजां समाप्याथ देवं देवीं प्रणम्य च भक्त्या मनस्समाधाय पश्चात्स्तोत्रमुदीरयेत्
ततः स्तोत्रमुपास्यान्ते त्वष्टोत्तरशतावराम् जपेत्पञ्चाक्षरीं विद्यां सहस्रोत्तरमुत्सुकः
विद्यापूजां गुरोः पूजां कृत्वा पश्चाद्यथाक्रमम् यथोदयं यथाश्राद्धं सदस्यानपि पूजयेत्
ततः उद्वास्य देवेशं सर्वैरावरणैः सह मण्डलं गुरवे दद्याद्यागोपकरणैस्सह
शिवाश्रितेभ्यो वा दद्यात्सर्वमेवानुपूर्वशः अथवा तच्छिवायैव शिवक्षेत्रे समर्पयेत्
शिवाग्नौ वा यजेद्देवं होमद्रव्यैश्च सप्तभिः समभ्यर्च्य यथान्यायं सर्वावरणदेवताः
एष योगेश्वरो नाम त्रिषु लोकेषु विश्रुतः न तस्मादधिकः कश्चिद्यागो ऽस्ति भुवने क्वचित्
न तदस्ति जगत्यस्मिन्नसध्यं यदनेन तु ऐहिकं वा फलं किंचिदामुष्मिकफलं तु वा
इदमस्य फलं नेदमिति नैव नियम्यते श्रेयोरूपस्य कृत्स्नस्य तदिदं श्रेष्टसाधनम्
इदं न शक्यते वक्तुं पुरुषेण यदर्च्यते चिंतामणेरिवैतस्मात्तत्तेन प्राप्यते फलम्