एवं पश्चिमदिग्भागे शम्भोः षड्विंशकं शिवम् समभ्यर्च्योत्तरे पार्श्वे ततो वैकुंठमर्चयेत्
वासुदेवं पुरस्कृत्वा प्रथमावरणे यजेत् अनिरुद्धं दक्षिणतः प्रद्युम्नं पश्चिमे ततः
सौम्ये संकर्षणं पश्चाद्व्यत्यस्तौ वा यजेदिमौ प्रथमावरणं प्रोक्तं द्वितीयावरणं शुभम्
मत्स्यः कूर्मो वराहश्च नरसिंहोथ वामनः रामश्चान्यतमः कृष्णो भवानश्वमुखोपि च
तृतीयावरणे चक्रुः पूर्वभागे समर्चयेत् नारायणाख्यां याम्येस्त्रं क्वचिदव्याहतं यजेत्
पश्चिमे पांचजन्यं च शार्ङ्गंधनुरथोत्तरे एवं त्र्यावरणैः साक्षाद्विश्वाख्यां परमं हरिम्
महाविष्णुं सदाविष्णुं मूर्तीकृत्य समर्चयेत् इत्थं विष्णोश्चतुर्व्यूहक्रमान्मूर्तिचतुष्टयम् पूजयित्वा च तच्छक्तीश्चतस्रः पुजयेत्क्रमात्
प्रभामाग्नेयदिग्भागे नैरृते तु सरस्वतीम् गणांबिका च वायव्ये लक्ष्मीं रौद्रे समर्चयेत्
एवं भान्वादिमूर्तीनां तच्छक्तीनामनंतरम् पूजां विधाय लोकेशांस्तत्रैवावरणे यजेत्
इन्द्रमग्निं यमं चैव निरृतिं वरुणं तथा वायुं सोमं कुबेरं च पश्चादीशानमर्चयेत्
एवं चतुर्थावरणं पूजयित्वा विधानतः आयुधानि महेशस्य पश्चाद्बांह्यं समर्चयेत्
श्रीमन्त्रिशूलमैशाने वज्रं माहेन्द्रदिङ्मुखे परशुं वह्निदिग्भागे याम्ये सायकमर्चयेत्
नैरृते तु यजेत्खड्गं पाशं वारुणगोचरे अंकुशं मारुते भागे पिनाकं चोत्तरे यजेत्
पश्चिमाभिमुखं रौद्रं क्षेत्रपालं समर्चयेत् पञ्चमावरणं चैव सम्पूज्यानन्तरं बहिः
सर्वावरणदेवानां बहिर्वा पञ्चमे ऽथवा पञ्चमे मातृभिस्सार्धं महोक्ष पुरतो यजेत्
ततः समंततः पूज्यास्सर्वा वै देवयोनयः खेचरा ऋषयस्सिद्धा दैत्या यक्षाश्च राक्षसाः
अनंताद्याश्च नागेंद्रा नागैस्तत्तत्कुलोद्भवैः डाकिनीभूतवेतालप्रेतभैरवनायकाः
पातालवासिनश्चान्ये नानायोनिसमुद्भवाः नद्यस्समुद्रा गिरयः काननानि सरांसि च
पशवः पक्षिणो वृक्षाः कीटाद्याः क्षुद्रयोनयः नराश्च विविधाकारा मृगाश्च क्षुद्रयोनयः
भुवनान्यन्तरण्डस्य ततो ब्रह्माण्डकोटयः बहिरंडान्यसंख्यानि भुवनानि सहाधिपैः
ब्रह्मांडाधारका रुद्रा दशदिक्षु व्यवस्थिताः यद्गौड यच्च मामेयं यद्वा शाक्तं ततः परम्
यत्किञ्चिदस्ति शब्दस्य वाच्यं चिदचिदात्मकम् तत्सर्वं शिवयोः पार्श्वे बुद्ध्वा सामान्यतो यजेत्
कृतांजलिपुटाः सर्वे ऽचिंत्याः स्मितमुखास्तथा प्रीत्या संप्रेक्षमाणाश्च देवं देवीं च सर्वदा
इत्थमावरणाभ्यर्चां कृत्वाविक्षेपशांतये पुनरभ्यर्च्य देवेशं पक्त्वाक्षरमुदीरयेत्
निवेदयेत्ततः पश्चाच्छिवयोरमृतोपमम् सुव्यञ्जनसमायुक्तं शुद्धं चारु महाचरुम्
द्वात्रिंशदाढकैर्मुख्यमधमं त्वाढकावरम् साधयित्वा यथासंपच्छ्रद्धया विनिवेदयेत्
ततो निवेद्य पानीयं तांबूलं चोपदंशकैः नीराजनादिकं कृत्वा पूजाशेषं समापयेत्
भोगोपयोग्यद्रव्याणि विशिष्टान्येव साधयेत् वित्तशाठ्यं न कुर्वीत भक्तिमान्विभवे सति
शठस्योपेक्षकस्यापि व्यंग्यं चैवानुतिष्ठतः न फलंत्येव कर्माणि काम्यानीति सतां कथा
तस्मात्सम्यगुपेक्षां च त्यक्त्वा सर्वांगयोगतः कुर्यात्काम्यानि कर्माणि फलसिद्धिं यदीच्छति