जलदेवान्नमस्कृत्य मंत्रेण स्नानमाचरेत् अशक्तः कंठदघ्नं वा कटिदघ्नमथापि वा
आजानु जलमाविश्य मंत्रस्नानं समाचरेत् देवादींस्तर्पयेद्विद्वांस्तत्र तीर्थजलेन च
धौतवस्त्रं समादाय पञ्चकच्छेन धारयेत् उत्तरीयं च किं चैव धार्यं सर्वेषु कर्मसु
नद्यादितीर्थस्नाने तु स्नानवस्त्रं न शोधयेत् वापीकूपगृहादौ तु स्नानादूर्ध्वं नयेद्बुधः
शिलादार्वादिके वापि जले वापि स्थलेपि वा संशोध्य पीडयेद्वस्त्रं पित्ःणां तृप्तये द्विजाः
जाबालकोक्तमंत्रेण भस्मना च त्रिपुंड्रकम् अन्यथा चेज्जले पात इतस्तन्नरकमृच्छति
आपोहिष्ठेति शिरसि प्रोक्षयेत्पापशांतये यस्येति मंत्रं पादे तु संधिप्रोक्षणमुच्यते
पादे मूर्ध्नि हृदि चैव मूर्ध्नि हृत्पाद एव च हृत्पादमूर्ध्नि संप्रोक्ष्य मंत्रस्नानं विदुर्बुधाः
ईषत्स्पर्शे च दौः स्वास्थ्ये राजराष्ट्रभये ऽपि च अत्यागतिकाले च मंत्रस्नानं समाचरेत्
प्रातः सूर्यानुवाकेन सायमग्न्यनुवाकतः अपः पीत्वा तथामध्ये पुनः प्रोक्षणमाचरेत्
गायत्र्या जपमंत्रांते वीरूर्ध्वं प्राग्विनिक्षिपेत् मंत्रेण सह चैकं वै मध्ये ऽर्घ्यं तु रवेर्द्विजा
अथ जाते च सायाह्ने भुवि पश्चिमदिङ्मुखः उद्धृत्य दद्यात्प्रातस्तु मध्याह्नेंगुलिभिस्तथा
अंगुलीनां च रंध्रेण लंबं पश्येद्दिवाकरम् आत्मप्रदक्षिणं कृत्वा शुद्धाचमनमाचरेत्
सायं मुहूर्तादर्वाक्तु कृता संध्या वृथा भवेत् अकालात्काल इत्युक्तो दिने ऽतीते यथाक्रमम्
दिवा ऽतीते च गायत्रीं शतं नित्ये क्रमाज्जपेत् आदर्शाहात्परा ऽतीते गायत्रीं लक्षमभ्यसेत्
मासातीते तु नित्ये हि पुनश्चोपनयं चरेत् ईशो गौरीगुहो विष्णुर्ब्रह्मा चेंद्रश्च वै यमः
एवं रूपांश्च वै देवांस्तर्पयेदर्थसिद्धये ब्रह्मार्पणं ततः कृत्वा शुद्धाचमनमाचरेत्
तीर्थदक्षिणतः शस्ते मठे मंत्रालये बुधः तत्र देवालये वापि गृहे वा नियतस्थले
सर्वान्देवान्नमस्कृत्य स्थिरबुद्धिः स्थिरासनः प्रणवं पूर्वमभ्यस्य गायत्रीमभ्यसेत्ततः
जीवब्रह्मैक्यविषयं बुद्ध्वा प्रणवमभ्यसेत् त्रैलोक्यसृष्टिकर्तारं स्थितिकर्तारमच्युतम्
संहर्तारं तथा रुद्रं स्वप्रकाशमुपास्महे ज्ञानकर्मेंद्रियाणां च मनोवृत्तीर्धियस्तथा
भोगमोक्षप्रदे धर्मे ज्ञाने च प्रेरयेत्सदा इत्थमर्थं धियाध्यायन्ब्रह्मप्राप्नोति निश्चयः
केवलं वा जपेन्नित्यं ब्राह्मण्यस्य च पूर्तये सहस्रमभ्यसेन्नित्यं प्रातर्ब्राह्मणपुंगवः
अन्येषां च यथा शक्तिम् अध्याह्ने च शतं जपेत् सायं द्विदशकं ज्ञेयं शिखाष्टकसमन्वितम्
मूलाधारं समारभ्य द्वादशांतस्थितांस्तथा विद्येशब्रह्मविष्ण्वीशजीवात्मपरमेश्वरान्
ब्रह्मबुद्ध्या तदैक्यं च सोहं भावनया जपेत् तानेव ब्रह्मरंध्रादौ कायाद्बाह्ये च भावयेत्
महत्तत्त्वं समारभ्य शरीरं तु सहस्रकम् एकैकस्माज्जपादेकमतिक्रम्य शनैः शनैः
परस्मिन्योजयेज्जीवं जपतत्त्वमुदाहृतम् शतद्विदशकं देहं शिखाष्टकसमन्वितम्
मंत्राणां जप एवं हि जपमादिक्रमाद्विदुः सहस्रं ब्राह्मदं विद्याच्छतमैंद्रप्रदं विदुः
इतरत्त्वात्मरक्षार्थं ब्रह्मयोनिषु जायते दिवाकरमुपस्थाय नित्यमित्थं समाचरेत्