भानुः पूर्वदले पूज्यो दक्षिणे चतुराननः रुद्रो वरुणदिक्पत्रे विष्णुरुत्तरदिग्दले
चतुर्णामपि देवानां पृथगावरणान्यथ तस्यांगानि षडेवादौ दीप्ताद्याभिश्च शक्तिभिः
दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमला क्रमात् अमोघा विद्युता चैव पूर्वादि परितः स्थिताः
द्वितीयावरणे पूज्याश्चतस्रो मूर्तयः क्रमात् पूर्वाद्युत्तरपर्यंताः शक्तयश्च ततः परम्
आदित्यो भास्करो भानू रविश्चेत्यनुपूर्वशः अर्को ब्रह्मा तथा रुद्रो विष्णुश्चैते विवस्वतः
विस्तारा पूर्वदिग्भागे सुतरां दक्षिणे स्थिताः बोधनी पश्चिमे भागे आप्यायिन्युत्तरे पुनः
उषां प्रभां तथा प्राज्ञां सन्ध्यामपि ततः परम् ऐशानादिषु विन्यस्य द्वितीयावरणे यजेत्
सोममंगारकं चैव बुधं बुद्धिमतां वरम् बृहस्पतिं बृहद्बुद्धिं भार्गवं तेजसां निधिम्
शनैश्चरं तथा राहुं केतुं धूम्रं भयंकरम् समंततो यजेदेतांस्तृतीयावरणे क्रमात्
अथवा द्वादशादित्या द्वितीयावरणे यजेत् तृतीयावरणे चैव राशीन्द्वादश पूजयेत्
सप्तसप्त गणांश्चैव बहिस्तस्य समंततः ऋषीन्देवांश्च गंधर्वान्पन्नगानप्सरोगणान्
ग्रामण्यश्च तथा यक्षान्यातुधानांस्तथा हयान् सप्तच्छंदोमयांश्चैव वालखिल्यांश्च पूजयेत्
एवं तृतीयावरणे समभ्यर्च्य दिवाकरम् ब्रह्माणमर्चयेत्पश्चात्त्रिभिरावरणैः सहः
हिरण्यगर्भं पूर्वस्यां विराजं दक्षिणे ततः कालं पश्चिमदिग्भागे पुरुषं चोत्तरे यजेत्
हिरण्यगर्भः प्रथमो ब्रह्मा कमलसन्निभः कालो जात्यंजनप्रख्यः पुरुषः स्फटिकोपमः
त्रिगुणो राजसश्चैव तामसः सात्त्विकस्तथा चत्वार एते क्रमशः प्रथमावरणे स्थिताः
द्वितीयावरणे पूज्याः पूर्वादिपरितः क्रमात् सनत्कुमारः सनकः सनंदश्च सनातनः
तृतीयावरणे पश्चादर्चयेच्च प्रजापतीन् अष्टौ पूर्वांश्च पूर्वादौ त्रीन्प्राक्पश्चादनुक्रमात्
दक्षो रुचिर्भृगुश्चैव मरीचिश्च तथांगिराः पुलस्त्यः पुलहश्चैव क्रतुरत्रिश्च कश्यपः
वसिष्ठश्चेति विख्याताः प्रजानां पतयस्त्विमे तेषां भार्याश्च तैस्सार्धं पूजनीया यथाक्रमम्
प्रसूतिश्च तथा ऽ ऽकूतिः ख्यातिः सम्भूतिरेव च धृतिः स्मृतिः क्षमा चैव सन्नतिश्चानसूयका
देवमातारुन्धती च सर्वाः खलु पतिव्रताः शिवार्चनरतो नित्यं श्रीमत्यः प्रियदर्शनाः
प्रथमावरणे वेदांश्चतुरो वा प्रपूजयेत् इतिहासपुराणानि द्वितीयावरणे पुनः
तृतीयावरणे पश्चाद्धर्मशास्त्रपुरस्सराः वैदिक्यो निखिला विद्याः पूज्या एव समंततः
पूर्वादिपुरतो वेदास्तदन्ये तु यथारुचि अष्टधा वा चतुर्धा वा कृत्वा पूजां समंततः
एवं ब्रह्माणमभ्यर्च्य त्रिभिरावरणैर्युतम् दक्षिणे पश्चिमे पश्चाद्रुद्रं सावरणं यजेत्
तस्य ब्रह्मषडंगानि प्रथमावरणं स्मृतम् द्वितीयावरणे चैव विद्येश्वरमयं तथा
तृतीयावरणे भेदो विद्यते स तु कथ्यते चतस्रो मूर्तयस्तस्य पूज्याः पूर्वादितः क्रमात्
त्रिगुणास्सकलो देवः पुरस्ताच्छिवसंज्ञकः राजसो दक्षिणे ब्रह्मा सृष्टिकृत्पूज्यते भवः
तामसः पश्चिमे चाग्निः पूज्यस्संहारको हरः सात्त्विकस्सुखकृत्सौम्ये विष्णुर्विश्वपतिर्मृडः