प्रथमावरणं प्रोक्तं मया ते यदुनंदन द्वितीयावरणं प्रीत्या प्रोच्यते श्रद्धया शृणु
अनंतं पूर्वादिक्पत्रे तच्छक्तिं तस्य वामतः सूक्ष्मं दक्षिणदिक्पत्रे सह शक्त्या समर्चयेत्
ततः पश्चिमदिक्पत्रे सह शक्त्या शिवोत्तमम् तथैवोत्तरदिक्पत्रे चैकनेत्रं समर्चयेत्
एकरुद्रं च तच्छक्तिं पश्चादीशदले ऽर्चयेत् त्रिमूर्तिं तस्य शक्तिं च पूजयेदग्निदिग्दले
श्रीकण्ठं नैरृते पत्रे तच्छक्तिं तस्य वामतः तथैव मारुते पत्रे शिखंडीशं समर्चयेत्
द्वितीयावरणे चेज्यास्सर्वर्तश्चक्रवर्तिनः तृतीयावरणे पूज्याः शक्तिभिश्चाष्टमूर्तयः
अष्टसु क्रमशो दिक्षु पूर्वादिपरितः क्रमात् भवः शर्वस्तथेशानो रुद्रः पशुपतिस्ततः
उग्रो भीमो महादेव इत्यष्टौ मूर्तयः क्रमात् अनंतरं ततश्चैव महादेवादयः क्रमात् शक्तिभिस्सह संपूज्यास्तत्रैकादशमूर्तयः
महादेवः शिवो रुद्रः शंकरो नीललोहितः ईशानो विजयो भीमो देवदेवो भवोद्भवः
कपर्दीशश्च कथ्यंते तथैकादशशक्तयः तत्राष्टौ प्रथमं पूज्याः वाह्नेयादि यथाक्रमम्
देवदेवः पूर्वपत्रे ईशानं चाग्निगोचरे भवोद्भवस्तयोर्मध्ये कपालीशस्ततः परम्
तस्मिन्नावरणे भूयो वृषेन्द्रं पुरतो यजेत् नंदिनं दक्षिणे तस्य महाकालं तथोत्तरे
शास्तारं वह्निदिक्पत्रे मात्ःर्दक्षिणदिग्दले गजास्यं नैरृते पत्रे षण्मुखं वारुणे पुनः
ज्येष्ठां वायुदले गौरीमुत्तरे चंडमैश्वरे शास्तृनन्दीशयोर्मध्ये मुनीन्द्रं वृषभं यजेत्
महाकालस्योत्तरतः पिंगलं तु समर्चयेत् शास्तृमातृसमूहस्य मध्ये भृंगीश्वरं ततः
मातृविघ्नेशमध्ये तु वीरभद्रं समर्चयेत् स्कन्दविघ्नेशयोर्मध्ये यजेद्देवीं सरस्वतीम्
ज्येष्ठाकुमारयोर्मध्ये श्रियं शिवपदार्चिताम् ज्येष्ठागणाम्बयोर्मध्ये महामोटीं समर्चयेत्
गणाम्बाचण्डयोर्मध्ये देवीं दुर्गां प्रपूजयेत् अत्रैवावरणे भूयः शिवानुचरसंहतिम्
रुद्रप्रथमभूताख्यां विविधां च सशक्तिकाम् शिवायाश्च सखीवर्गं जपेद्ध्यात्वा समाहितः
एवं तृतीयावरणे वितते पूजिते सति चतुर्थावरणं ध्यात्वा बहिस्तस्य समर्चयेत्
भानुः पूर्वदले पूज्यो दक्षिणे चतुराननः रुद्रो वरुणदिक्पत्रे विष्णुरुत्तरदिग्दले
चतुर्णामपि देवानां पृथगावरणान्यथ तस्यांगानि षडेवादौ दीप्ताद्याभिश्च शक्तिभिः
दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमला क्रमात् अमोघा विद्युता चैव पूर्वादि परितः स्थिताः
द्वितीयावरणे पूज्याश्चतस्रो मूर्तयः क्रमात् पूर्वाद्युत्तरपर्यंताः शक्तयश्च ततः परम्
आदित्यो भास्करो भानू रविश्चेत्यनुपूर्वशः अर्को ब्रह्मा तथा रुद्रो विष्णुश्चैते विवस्वतः
विस्तारा पूर्वदिग्भागे सुतरां दक्षिणे स्थिताः बोधनी पश्चिमे भागे आप्यायिन्युत्तरे पुनः
उषां प्रभां तथा प्राज्ञां सन्ध्यामपि ततः परम् ऐशानादिषु विन्यस्य द्वितीयावरणे यजेत्
सोममंगारकं चैव बुधं बुद्धिमतां वरम् बृहस्पतिं बृहद्बुद्धिं भार्गवं तेजसां निधिम्
शनैश्चरं तथा राहुं केतुं धूम्रं भयंकरम् समंततो यजेदेतांस्तृतीयावरणे क्रमात्
अथवा द्वादशादित्या द्वितीयावरणे यजेत् तृतीयावरणे चैव राशीन्द्वादश पूजयेत्