दंष्ट्राकरालं दुर्धर्षं स्फुरिताधरपल्लवम् उत्तरं विद्रुमप्रख्यं नीलालकविभूषितम्
सविलासं त्रिनयनं चन्द्राभरणशेखरम् पश्चिमं पूर्णचन्द्राभं लोचनत्रितयोज्ज्वलम्
चन्द्ररेखाधरं सौम्यं मंदस्मितमनोहरम् पञ्चमं स्फटिकप्रख्यमिंदुरेखासमुज्ज्वलम्
अतीव सौम्यमुत्फुल्ललोचनत्रितयोज्ज्वलम् दक्षिणे शूलपरशुवज्रखड्गानलोज्ज्वलम्
सव्ये च नागनाराचघण्टापाशांकुशोज्ज्वलम् निवृत्त्याजानुसंबद्धमानाभेश्च प्रतिष्ठया
आकंठं विद्यया तद्वदाललाटं तु शांतया तदूर्ध्वं शांत्यतीताख्यकलया परया तथा
पञ्चाध्वव्यापिनं साक्षात्कलापञ्चकविग्रहम् ईशानमुकुटं देवं पुरुषाख्यं पुरातनम्
अघोरहृदयं तद्वद्वामगुह्यं महेश्वरम् सद्यपादं च तन्मूर्तिमष्टत्रिंशत्कलामयम्
मातृकामयमीशानं पञ्चब्रह्ममयं तथा ओंकाराख्यमयं चैव हंसशक्त्या समन्वितम्
तथेच्छात्मिकया शक्त्या समारूढांकमंडलम् ज्ञानाख्यया दक्षिणतो वामतश्च क्रियाख्यया
तत्त्वत्रयमयं साक्षाद्विद्यामूर्तिं सदाशिवम् मूर्तिमूलेन संकल्प्य सकलीकृत्य च क्रमात्
संपूज्य च यथान्यायमर्घान्तं मूलविद्यया मूर्तिमन्तं शिवं साक्षाच्छक्त्या परमया सह
तत्रावाह्य महादेवं सदसद्व्यक्तिवर्जितम् पञ्चोपकरणं कृत्वा पूजयेत्परमेश्वरम्
ब्रह्मभिश्च षडङ्गैश्च ततो मातृकया सह प्रणवेन शिवेनैव शक्तियुक्तेन च क्रमात्
शांतेन वा तथान्यैश्च वेदमन्त्रैश्च कृत्स्नशः पूजयेत्परमं देवं केवलेन शिवेन वा
पाद्यादिमुखवासांतं कृत्वा प्रस्थापनं विना पञ्चावरणपूजां तु ह्यारभेत यथाक्रमम्
तत्रादौ शिवयोः पार्श्वे दक्षिणे वामतः क्रमात् गंधाद्यैरर्चयेत्पूर्वं देवौ हेरंबषण्मुखौ
ततो ब्रह्माणि परित ईशानादि यथाक्रमम् सशक्तिकानि सद्यांतं प्रथमावरणे यजेत्
षडंगान्यपि तत्रैव हृदयादीन्यनुक्रमात् शिवस्य च शिवायाश्च वाह्नेयादि समर्चयेत्
तत्र वामादिकान्रुद्रानष्टौ वामादिशक्तिभिः अर्चयेद्वा न वा पश्चात्पूर्वादिपरितः क्रमात्
प्रथमावरणं प्रोक्तं मया ते यदुनंदन द्वितीयावरणं प्रीत्या प्रोच्यते श्रद्धया शृणु
अनंतं पूर्वादिक्पत्रे तच्छक्तिं तस्य वामतः सूक्ष्मं दक्षिणदिक्पत्रे सह शक्त्या समर्चयेत्
ततः पश्चिमदिक्पत्रे सह शक्त्या शिवोत्तमम् तथैवोत्तरदिक्पत्रे चैकनेत्रं समर्चयेत्
एकरुद्रं च तच्छक्तिं पश्चादीशदले ऽर्चयेत् त्रिमूर्तिं तस्य शक्तिं च पूजयेदग्निदिग्दले
श्रीकण्ठं नैरृते पत्रे तच्छक्तिं तस्य वामतः तथैव मारुते पत्रे शिखंडीशं समर्चयेत्
द्वितीयावरणे चेज्यास्सर्वर्तश्चक्रवर्तिनः तृतीयावरणे पूज्याः शक्तिभिश्चाष्टमूर्तयः
अष्टसु क्रमशो दिक्षु पूर्वादिपरितः क्रमात् भवः शर्वस्तथेशानो रुद्रः पशुपतिस्ततः
उग्रो भीमो महादेव इत्यष्टौ मूर्तयः क्रमात् अनंतरं ततश्चैव महादेवादयः क्रमात् शक्तिभिस्सह संपूज्यास्तत्रैकादशमूर्तयः
महादेवः शिवो रुद्रः शंकरो नीललोहितः ईशानो विजयो भीमो देवदेवो भवोद्भवः
कपर्दीशश्च कथ्यंते तथैकादशशक्तयः तत्राष्टौ प्रथमं पूज्याः वाह्नेयादि यथाक्रमम्