शिवदर्मानसो कुर्वन्नकुर्वन्वापि मुच्यते एकावृत्तो द्विरावृत्तस्त्रिरावृत्तो निवर्तकः
न पुनश्चक्रवर्ती स्याच्छिवधर्माधिकारवान् तस्माच्च्छिवाश्रितो भूत्वा येन केनापि हेतुना
शिवधर्मे मतिं कुर्याच्छ्रेयसे चेत्कृतोद्यमः नात्र निर्बंधयिष्यामो वयं केचन केनचित्
निर्बन्धेभ्यो ऽतिवादेभ्यः प्रकृत्यैतन्न रोचते रोचते वा परेभ्यस्तु पुण्यसंस्कारगौरवात्
संसारकारणं येषां न प्ररोढुमलं भवेत् प्रकृत्यनुगुणं तस्माद्विमृश्यैतदशेषतः
शिवधर्मे ऽधिकुर्वीत यदीच्छेच्छिवमात्मनः
भगवंस्त्वन्मुखादेव श्रुतं श्रुतिसमं मया स्वाश्रितानां शिवप्रोक्तं नित्यनैमित्तिकं तथा
इदानीं श्रोतुमिच्छामि शिवधर्माधिकारिणाम् काम्यमप्यस्ति चेत्कर्म वक्तुमर्हसि साम्प्रतम्
अस्त्यैहिकफलं किञ्चिदामुष्मिकफलं तथा ऐहिकामुष्मिकञ्चापि तच्च पञ्चविधं पुनः
किंचित्क्रियामयं कर्म किंचित्कर्म तपो मयम्
जपध्यानमयं किंचित्किंचित्सर्वमयं तथा क्रियामयं तथा भिन्नं होमदानार्चनक्रमात्
सर्वशक्तिमतामेव नान्येषां सफलं भवेत् शक्तिश्चाज्ञा मदेशस्य शिवस्य परमात्मनः
तस्मात्काम्यानि कर्माणि कुर्यादाज्ञाधरोद्विजः अथ वक्ष्यामि काम्यं हि चेहामुत्र फलप्रदम्
शैवैर्माहेश्वरैश्चैव कार्यमंतर्बहिः क्रमात् शिवो महेश्वरश्चेति नात्यंतमिह भिद्यते
यथा तथा न भिद्यंते शैवा माहेश्वरा अपि शिवाश्रिता हि ते शैवा ज्ञानयज्ञरता नराः
माहेश्वरास्समाख्याता कर्मयज्ञरता भुवि तस्मादाभ्यन्तरे कुर्युः शैवा माहेश्वरा वहिः
न तु प्रयोगो भिद्येत वक्ष्यमाणस्य कर्मणः परीक्ष्य भूमिं विधिवद्गंधवर्णरसादिभिः
मनोभिलषिते तत्र वितानविततांबरे सुप्रलिप्ते महीपृष्ठे दर्पणोदरसंनिभे
प्राचीमुत्पादयेत्पूर्वं शास्त्रदृष्टेन वर्त्मना एकहस्तं द्विहस्तं वा मण्डलं परिकल्पयेत्
आलिखेद्विमलं पद्ममष्टपत्रं सकर्णिकम् रत्नहेमादिभिश्चूर्णैर्यथासंभवसंभृतैः
पञ्चावरणसंयुक्तं बहुशोभासमन्वितम् दलेषु सिद्धयः कल्प्याः केसरेषु सशक्तिकाः
रुद्रा वामादयस्त्वष्टौ पूर्वादिदलतः क्रमात् कर्णिकायां च वैराग्यं बीजेषु नव शक्तयः
स्कन्दे शिवात्मको धर्मो नाले ज्ञानं शिवाश्रयम् कर्णिकोपरि चाग्नेयं मंडलं सौरमैन्दवम्
शिवविद्यात्मतत्त्वाख्यं तत्त्वत्रयमतः परम् सर्वासनोपरि सुखं विचित्रकुसुमान्वितम्
पञ्चावरणसंयुक्तं पूजयेदंबया सह शुद्धस्फटिकसंकाशं प्रसन्नं शीतलद्युतिम्
विद्युद्वलयसंकाशजटामुकुटभूषितम् शार्दूलचर्मवसनं किञ्चित्स्मितमुखांबुजम्
रक्तपद्मदलप्रख्यपादपाणितलाधरम् सर्वलक्षणसंपन्नं सर्वाभरणभूषितम्
दिव्यायुधवरैर्युक्तं दिव्यगंधानुलेपनम् पञ्चवक्त्रं दशभुजं चन्द्रखण्डशिखामणिम्
अस्य पूर्वमुखं सौम्यं बालार्कसदृशप्रभम् त्रिलोचनारविंदाढ्यं कृतबालेंदुशेखरम्
दक्षिणं नीलजीमूतसमानरुचिरप्रभम् भ्रुकुटीकुटिलं घोरं रक्तवृत्तेक्षणत्रयम्