संप्राप्य वैष्णवं ब्राह्मं रुद्रलोकं विशेषतः तत्रोषित्वा चिरं कालं भुक्त्वा भोगान्यथोदितान्
पुनश्चोर्ध्वं गतस्तस्मादतीत्य स्थानपञ्चकम् श्रीकण्ठाज्ज्ञानमासाद्य तस्माच्छैवपुरं व्रजेत्
अर्धचर्यारतश्चापि द्विरावृत्त्यैवमेव तु पश्चाज्ज्ञानं समासाद्य शिवसायुज्यमाप्नुयात्
अर्धार्धचरितो यस्तु देही देहक्षयात्परम् अंडांतं वोर्ध्वमव्यक्तमतीत्य भुवनद्वयम्
संप्राप्य पौरुषं रौद्रस्थानमद्रीन्द्रजापतेः अनेकयुगसाहस्रं भुक्त्वा भोगाननेकधा
पुण्यक्षये क्षितिं प्राप्य कुले महति जायते तत्रापि पूर्वसंस्कारवशेन स महाद्युतिः
पशुधर्मान्परित्यज्य शिवधर्मरतो भवेत् तद्धर्मगौरवादेव ध्यात्वा शिवपुरं व्रजेत्
भोगांश्च विविधान्भुक्त्वा विद्येश्वरपदं व्रजेत् तत्र विद्येश्वरैस्सार्धं भुक्त्वा भोगान्बहून्क्रमात्
अण्डस्यांतर्बहिर्वाथ सकृदावर्तते पुनः ततो लब्ध्वा शिवज्ञानं परां भक्तिमवाप्य च
शिवसाधर्म्यमासाद्य न भूयो विनिवर्तते यश्चातीव शिवे भक्तो विषयासक्तचित्तवत्
शिवदर्मानसो कुर्वन्नकुर्वन्वापि मुच्यते एकावृत्तो द्विरावृत्तस्त्रिरावृत्तो निवर्तकः
न पुनश्चक्रवर्ती स्याच्छिवधर्माधिकारवान् तस्माच्च्छिवाश्रितो भूत्वा येन केनापि हेतुना
शिवधर्मे मतिं कुर्याच्छ्रेयसे चेत्कृतोद्यमः नात्र निर्बंधयिष्यामो वयं केचन केनचित्
निर्बन्धेभ्यो ऽतिवादेभ्यः प्रकृत्यैतन्न रोचते रोचते वा परेभ्यस्तु पुण्यसंस्कारगौरवात्
संसारकारणं येषां न प्ररोढुमलं भवेत् प्रकृत्यनुगुणं तस्माद्विमृश्यैतदशेषतः
शिवधर्मे ऽधिकुर्वीत यदीच्छेच्छिवमात्मनः
भगवंस्त्वन्मुखादेव श्रुतं श्रुतिसमं मया स्वाश्रितानां शिवप्रोक्तं नित्यनैमित्तिकं तथा
इदानीं श्रोतुमिच्छामि शिवधर्माधिकारिणाम् काम्यमप्यस्ति चेत्कर्म वक्तुमर्हसि साम्प्रतम्
अस्त्यैहिकफलं किञ्चिदामुष्मिकफलं तथा ऐहिकामुष्मिकञ्चापि तच्च पञ्चविधं पुनः
किंचित्क्रियामयं कर्म किंचित्कर्म तपो मयम्
जपध्यानमयं किंचित्किंचित्सर्वमयं तथा क्रियामयं तथा भिन्नं होमदानार्चनक्रमात्
सर्वशक्तिमतामेव नान्येषां सफलं भवेत् शक्तिश्चाज्ञा मदेशस्य शिवस्य परमात्मनः
तस्मात्काम्यानि कर्माणि कुर्यादाज्ञाधरोद्विजः अथ वक्ष्यामि काम्यं हि चेहामुत्र फलप्रदम्
शैवैर्माहेश्वरैश्चैव कार्यमंतर्बहिः क्रमात् शिवो महेश्वरश्चेति नात्यंतमिह भिद्यते
यथा तथा न भिद्यंते शैवा माहेश्वरा अपि शिवाश्रिता हि ते शैवा ज्ञानयज्ञरता नराः
माहेश्वरास्समाख्याता कर्मयज्ञरता भुवि तस्मादाभ्यन्तरे कुर्युः शैवा माहेश्वरा वहिः
न तु प्रयोगो भिद्येत वक्ष्यमाणस्य कर्मणः परीक्ष्य भूमिं विधिवद्गंधवर्णरसादिभिः
मनोभिलषिते तत्र वितानविततांबरे सुप्रलिप्ते महीपृष्ठे दर्पणोदरसंनिभे
प्राचीमुत्पादयेत्पूर्वं शास्त्रदृष्टेन वर्त्मना एकहस्तं द्विहस्तं वा मण्डलं परिकल्पयेत्
आलिखेद्विमलं पद्ममष्टपत्रं सकर्णिकम् रत्नहेमादिभिश्चूर्णैर्यथासंभवसंभृतैः