विद्यायाः पुरतः कृत्वा गुरोरपि च मण्डलम् तत्रासनवरं कृत्वा पुष्पाद्यै गुरुमर्चयेत्
ततोनुपूजयेत्पूज्यान् भोजयेच्च बुभुक्षितान् ततस्स्वयं च भुंजीत शुद्धमन्नं यथासुखम्
निवेदितं च वा देवे तच्छेषं चात्मशुद्धये श्रद्दधानो न लोभेन न चण्डाय समर्पितम्
गन्धमाल्यादि यच्चान्यत्तत्राप्येष समो विधिः न तु तत्र शिवोस्मीति बुद्धिं कुर्याद्विचक्षणः
भुक्त्वाचम्य शिवं ध्यात्वा हृदये मूलमुच्चरेत् कालशेषं नयेद्योग्यैः शिवशास्त्रकथादिभिः
रात्रौ व्यतीते पूर्वांशे कृत्वा पूजां मनोहराम् शिवयोः शयनं त्वेकं कल्पयेदतिशोभनम्
भक्ष्यभोज्यांबरालेपपुष्पमालादिकं तथा मनसा कर्मणा वापि कृत्वा सर्वं मनोहरम्
ततो देवस्य देव्याश्च पादमूले शुचिस्स्वपेत् गृहस्थो भार्यया सार्धं तदन्ये ऽपि तु केवलाः
प्रत्यूषसमयं बुद्ध्वा मात्रामाद्यामुदीरयेत् प्रणम्य मनसां देवं सांबं सगणमव्ययम्
देशकालोचितं कृत्वा शौचाद्यमपि शक्तितः शंखादिनिनदैर्दिव्यैर्देवं देवीं च बोधयेत्
ततस्तत्समयोन्निद्रैः पुष्पैरतिसुगंधिभिः निर्वर्त्य शिवयोः पूजां प्रारभेत पुरोदितम्
अतः परं प्रवक्ष्यामि शिवाश्रमनिषेविणाम् शिवशास्त्रोक्तमार्गेण नैमित्तिकविधिक्रमम्
सर्वेष्वपि च मासेषु पक्षयोरुभयोरपि अष्टाभ्यां च चतुर्दश्यां तथा पर्वाणि च क्रमात्
अयने विषुवे चैव ग्रहणेषु विशेषतः कर्तव्या महती पूजा ह्यधिका वापि शक्तितः
मासिमासि यथान्यायं ब्रह्मकूर्चं प्रसाध्य तु स्नापयित्वा शिवं तेन पिबेच्छेषमुपोषितः
ब्रह्महत्यादिदोषाणामतीव महतामपि निष्कृतिर्ब्रह्मकूर्चस्य पानान्नान्या विशिष्यते
पौषे पुष्यनक्षत्रे कुर्यान्नीराजनं विभोः माघे मघाख्ये नक्षत्रे प्रदद्याद् घृतकंबलम्
फाल्गुने चोत्तरान्ते वै प्रारभेत महोत्सवम् चैत्रे चित्रापौर्णमास्यां दोलां कुर्याद्यथाविधि
वैशाख्यां तु विशाखायां कुर्यात्पुष्पमहालयम् ज्येष्ठे मूलाख्यनक्षत्रे शीतकुम्भं प्रदापयेत्
आषाढे चोत्तराषाढे पवित्रारोपणं तथा श्रावणे प्राकृतान्यापि मण्डलानि प्रकल्पयेत्
श्रविष्ठाख्ये तु नक्षत्रे प्रौष्ठपद्यां ततः परम् प्रोक्षयेच्च जलक्रीडां पूर्वाषाढाश्रये दिने
आश्वयुज्यां ततो दद्यात्पायसं च नवोदनम् अग्निकार्यं च तेनैव कुर्याच्छतभिषग्दिने
कार्तिक्यां कृतिकायोगे दद्याद्दीपसहस्रकम् मार्गशीर्षे तथार्द्रायां घृतेन स्नापयेच्छिवम्
अशक्तस्तेषु कालेषु कुर्यादुत्सवमेव वा आस्थानं वा महापूजामधिकं वा समर्चनम्
आवृत्ते ऽपि च कल्याणे प्रशस्तेष्वपि कर्मसु दौर्मनस्ये दुराचारे दुःस्वप्ने दुष्टदर्शने
उत्पाते वाशुभेन्यस्मिन्रोगे वा प्रबले ऽथ वा स्नानपूजाजपध्यानहोमदानादिकाः क्रियः
निर्मितानुगुणाः कार्याः पुरश्चरणपूर्विकाः शिवानले च विहते पुनस्सन्धानमाचरेत्
य एवं शर्वधर्मिष्ठो वर्तते नित्यमुद्यतः तस्यैकजन्मना मुक्तिं प्रयच्छति महेश्वरः
एतद्यथोत्तरं कुर्यान्नित्यनैमित्तिकेषु यः दिव्यं श्रीकंठनाथस्य स्थानमाद्यं स गच्छति
तत्र भुक्त्वा महाभोगान्कल्पकोटिशतन्नरः कालांतरेच्युतस्तस्मादौमं कौमारमेव च