द्रव्येणैकेन वा ऽलाभे जुहुयाच्छ्रद्धया पुनः प्रायश्चित्ताय जुहुयान्मंत्रयित्वाहुतित्रयम्
ततो होमविशिष्टेन घृतेनापूर्य वै स्रुचम् निधाय पुष्पं तस्याग्रे श्रुवेणाधोमुखेन ताम्
सदर्भेन समाच्छाद्य मूलेनांजलिनोत्थितः वौषडंतेन जुहुयाद्धारां तु यवसंमिताम्
इत्थं पूर्णाहुतिं कृत्वा परिषिंचेच्च पूर्ववत् तत उद्वास्य देवेशं गोपयेत्तु हुताशनम्
तमप्युद्वास्य वा नाभौ यजेत्संधाय नित्यशः अथवा वह्निमानीय शिवशास्त्रोक्तवर्त्मना
वागीशीगर्भसंभूतं संस्कृत्य विधिवद्यजेत् अन्वाधानं पुनः कृत्वा परिधीन् परिधाय च
पात्राणि द्वन्द्वरूपेण निक्षिप्येष्ट्वा शिवं ततः संशोध्य प्रोक्षणीपात्रं प्रोक्ष्यतानि तदंभसा
प्रणीतापात्रमैशान्यां विन्यस्या पूरितं जलैः आज्यसंस्कारपर्यंतं कृत्वा संशोध्य स्रक्स्रुवौ
गर्भाधानं पुंसवनं सीमन्तोन्नयनं ततः कृत्वा पृथक्पृथग्घुत्वा जातमग्निं विचिन्तयेत्
त्रिपादं सप्तहस्तं च चतुःशृंगं द्विशीर्षकम् मधुपिंगं त्रिनयनं सकपर्देन्दुशेखरम्
रक्तं रक्ताम्बरालेपं माल्यभूषनभूषितम् सर्वलक्षणसंपन्नं सोपवीतं त्रिमेखलम्
शक्तिमन्तं स्रुक्स्रुवौ च दधानं दक्षिणे करे तोमरं तालवृंतं च घृतपात्रं तथेतरैः
जातं ध्यात्वैवमाकारं जातकर्म समाचरेत् नालापनयनं कृत्वा ततः संशोध्य सूतकम्
शिवाग्निरुचिनामास्य कृत्वाहुतिपुरस्सरम् पित्रोर्विसर्जनं कृत्वा चौलोपनयनादिकम्
अप्तोर्यामावसानान्तं कृत्वा संस्कारमस्य तु आज्यधारादिहोमं च कृत्वा स्विष्टकृतं ततः
रमित्यनेन बीजेन परिषिंचेत्ततः परम् ब्रह्मविष्णुशिवेशानां लोकेशानां तथैव च
तदस्त्राणां च परितः कृत्वा पूजां यथाक्रमम् धूपदीपादिसिद्ध्यर्थं वह्निमुद्धृत्य कृत्यवित्
साधयित्वाज्यपूर्वाणि द्रव्याणि पुनरेव च कल्पयित्वासनं वह्नौ तत्रावाह्य यथापुरा
संपूज्य देवं देवीं च ततः पूर्णांतमाचरेत् अथ वा स्वाश्रमोक्तं तु वह्निकर्म शिवार्पणम्
बुद्ध्वा शिवाश्रमी कुर्यान्न च तत्रापरो विधिः शिवाग्नेर्भस्मसंग्राह्यमग्निहोत्रोद्भवं तु वा
वैवाहोग्निभवं वापि पक्वं शुचि सुगंधि च कपिलायाः शकृच्छस्तं गृहीतं गगने पतत्
न क्लिन्नं नातिकठिनं न दुर्गन्धं न शोषितम् उपर्यधः परित्यज्य गृह्णीयात्पतितं यदि
पिंडीकृत्य शिवाग्न्यादौ तत्क्षिपेन्मूलमंत्रतः अपक्वमतिपाक्वं च संत्यज्य भसितं सितम्
आदाय वा समालोड्य भस्माधारे विनिक्षिपेत् तैजसं दारवं वापि मृन्मयं शैलमेव च
अन्यद्वा शोभनं शुद्धं भस्माधारं प्रकल्पयेत् समे देशे शुभे शुद्धे धनवद्भस्म निक्षिपेत्
न चायुक्तकरे दद्यान्नैवाशुचितले क्षिपेत् न संस्पृशेच्च नीचांगैर्नोपेक्षेत न लंघयेत्
तस्माद्भसितमादाय विनियुंजीत मन्त्रतः कालेषूक्तेषु नान्यत्र नायोग्येभ्यः प्रदापयेत्
भस्मसंग्रहणं कुर्याद्देवे ऽनुद्वासिते सति उद्वासने कृते यस्माच्चण्डभस्म प्रजापते
अग्निकार्ये कृते पश्चाच्छिवशास्त्रोक्तमार्गतः स्वसूत्रोक्तप्रकाराद्वा बलिकर्म समाचरेत्
अथ विद्यासनं न्यस्य सुप्रलिप्ते तु मण्दले विद्याकोशं प्रतिष्ठाप्य यजेत्पुष्पादिभिः क्रमात्