कुण्डं विस्तारवन्निम्नं तन्मध्ये ऽष्टदलाम्बुजम् चतुरंगुलमुत्सेधं तस्य द्व्यंगुलमेव वा
वितस्तिद्विगुणोन्नत्या नाभिमन्तः प्रचक्षते मध्यं च मध्यमांगुल्या मध्यमोत्तमपर्वणोः
अंगुलैः कथ्यते सद्भिश्चतुर्विंशतिभिः करः मेखलानां त्रयं वापि द्वयमेकमथापि वा
यथाशोभं प्रकुर्वीत श्लक्ष्णमिष्टं मृदा स्थिरम् अश्वत्थपत्रवद्योनिं गजाधारवदेव वा
मेखलामध्यतः कुर्यात्पश्चिमे दक्षिणे ऽपि वा शोभनामग्नितः किंचिन्निम्नामुन्मीलिकां शनैः
अग्रेण कुण्डाभिमुखीं किंचिदुत्सृज्य मेखलाम् नोत्सेधनियमो वेद्याः सा मार्दी वाथ सैकती
मंडलं गोशकृत्तोयैर्मानं पात्रस्य नोदितम् कुण्डं च मृन्मयं वेदिमालिपेद्गोमयांबुना
प्रक्षाल्य तापयेत्पात्रं प्रोक्षयेदन्यदंभसा स्वसूत्रोक्तप्रकारेण कुण्डादौ विल्लिखेत्ततः
संप्रोक्ष्य कल्पयेद्दर्भैः पुष्पैर्वा वह्निविष्टरम् अर्चनार्थं च होमार्थं सर्वद्रव्याणि साधयेत्
प्रक्षाल्यक्षालनीयानि प्रोक्षण्या प्रोक्ष्य शोधयेत् मणिजं काष्ठजं वाथ श्रोत्रियागारसम्भवम्
अन्यं वाभ्यर्हितं वह्निं ततः साधारमानयेत् त्रिः प्रदक्षिणमावृत्य कुण्डादेरुपरि क्रमात्
वह्निबीजं समुच्चार्य त्वादधीताग्निमासने योनिमार्गेण वा तद्वदात्मनः संमुखेन वा
नियोगः प्रदेश सर्वं कुंडं कुर्याद्विचक्षणः स्वनाभ्यंतःस्थितं वह्निं तद्रंध्राद्विस्फुलिंगवद्
निर्गम्य पावके बह्ये लीनं बिंबाकृति स्मरेत् आज्यसंस्कारपर्यंतमन्वाधानपुरस्सरम्
स्वसूत्रोक्तक्रमात्कुर्यान्मूलमन्त्रेण मन्त्रवित् शिवमूर्तिं समभ्यर्च्य ततो दक्षिणपार्श्वतः
न्यस्य मन्त्रं घृते मुद्रां दर्शयेद्धेनुसंज्ञिताम् स्रुक्स्रुवौ तैजसौ ग्राह्यौ न कांस्यायससैसकौ
यज्ञदारुमयौ वापि स्मार्तौ वा शिल्पसम्मतौ पर्णे वा ब्रह्मवृक्षादेरच्छिद्रे मध्य उत्थिते
संसृज्य दर्भैस्तौ वह्नौ संताप्य प्रोक्षयेत्पुनः पारार्षर्च्यस्वसूत्रोक्तक्रमेण शिवपूर्वकैः
जुहुयादष्टभिर्बीजैरग्निसंस्कारसिद्धये भ्रुंस्तुंब्रुश्रुं क्रमेणैव पुंड्रंद्रमित्यतः परम्
बीजानि सप्त सप्तानां जिह्वानामनुपूर्वशः त्रिशिखा मध्यमा जिह्वा बहुरूपसमाह्वया
रक्ताग्नेयी नैरृती च कृष्णान्या सुप्रभा मता अतिरिक्ता मरुज्जिह्वा स्वनामानुगुणप्रभा
स्वबिजानन्तरं वाच्या स्वाहांतञ्च यथाक्रमम् जिह्वामंत्रैस्तु तैर्हुत्वाज्यं जिह्वास्त्वेकैकश क्रमात्
रं वह्नयेति स्वाहेति मध्ये हुत्वाहुतित्रयम् सर्पिषा वा समिद्भिर्वा परिषेचनमाचरेत्
एवं कृते शिवाग्निः स्यात्स्मरेत्तत्र शिवासनम् तत्रावाह्य यजेद्देवमर्धनारीश्वरं शिवम् दीपान्तं परिषिच्याथ समिद्धोमं समाचरेत्
ताः पालाश्यः परा वापि याज्ञिया द्वादशांगुलाः अवक्रा न स्वयं शुष्कास्सत्वचो निर्व्रणाः समाः
दशांगुला वा विहिताः कनिष्ठांगुलिसंमिताः प्रादेशमात्रा वालाभे होतव्याः सकला अपि
दूर्वापत्रसमाकारां चतुरंगुलमायताम् दद्यादाज्याहुतिं पश्चादन्नमक्षप्रमाणतः
लाजांस्तथा सर्षपांश्च यवांश्चैव तिलांस्तथा सर्पिषाक्तानि भक्ष्याणि लेह्यचोष्याणि सम्भवे
दशैवाहुतयस्तत्र पञ्च वा त्रितयं च वा होतव्याः शक्तितो दद्यादेकमेवाथ वाहुतिम्
श्रुवेणाज्यं समित्याद्यास्रुचाशेषात्करेण वा तत्र दिव्येन होतव्यं तीर्थेनार्षेण वा तथा