ध्यानादेव हि तन्नश्येन्नान्यथा नाशमृच्छति वाचिकं जपजालेन कायिकं कायशोषणात्
दानाद्धनकृतं नश्येन्ना ऽन्यथाकल्पकोटिभिः क्वचित्पापेन पुण्यं च वृद्धिपूर्वेण नश्यति
बीजांशश्चैव वृद्ध्यंशो भोगांशः पुण्यपापयोः ज्ञाननाश्यो हि बीजांशो वृद्धिरुक्तप्रकारतः
भोजांशो भोगनाश्यस्तु नान्यथा पुण्यकोटिभिः बीजप्ररोहे नष्टे तु शेषो भोगाय कल्पते
देवानां पूजया चैव ब्रह्मणानां च दानतः तपोधिक्याच्च कालेन भोगः सह्यो भवेन्नृणाम् तस्मात्पापमकृत्वैव वस्तव्यंस्सुखमिच्छता
सदाचारं श्रावयाशु येन लोकाञ्जयेद्बुधः धर्माधर्ममयान्ब्रूहि स्वर्गनारकदांस्तथा
सदाचारयुतो विद्वान्ब्राह्मणो नाम नामतः वेदाचारयुतो विप्रो ह्येतैरेकैकवान्द्विजः
अल्पाचारोल्पवेदश्च क्षत्रियो राजसेवकः किंचिदाचारवान्वैश्यः कृषिवाणिज्यकृत्तया
शूद्रब्राह्मण इत्युक्तः स्वयमेव हि कर्षकः असूयालुः परद्रोही चंडालद्विज उच्यते
पृथिवीपालको राजा इतरेक्षत्रिया मताः धान्यादिक्रयवान्वैश्य इतरो वणिगुच्यते
ब्रह्मक्षत्रियवैश्यानां शुश्रूषुः शूद्र उच्यते कर्षको वृषलो ज्ञेय इतरे चैव दस्यवः
सर्वो ह्युषःप्राचीमुखश्चिन्तयेद्देवपूर्वकान् धर्मानर्थांश्च तत्क्लेशानायं च व्ययमेव च
आयुर्द्वेषश्च मरणं पापं भाग्यं तथैव च व्याधिः पुष्टिस्तथा शक्तिः प्रातरुत्थानदिक्फलम्
निशांत्यायामोषा ज्ञेया यामार्धं संधिरुच्यते तत्काले तु समुत्थाय विण्मूत्रे विसृजेद्द्विजः
गृहाद्दूरं ततो गत्वा बाह्यतः प्रवृतस्तथा उदङ्मुखः समाविश्य प्रतिबंधे ऽन्यदिङ्मुखः
जलाग्निब्राह्मणादीनां देवानां नाभिमुख्यतः लिंगं पिधाय वामेन मुखमन्येन पाणिना
मलमुत्सृज्य चोत्थाय न पश्येच्चैव तन्मलम् उद्धृतेन जलेनैव शौचं कुर्याज्जलाद्बहिः
अथवा देवपित्रार्षतीर्थावतरणं विना सप्त वा पञ्च वा त्रीन्वा गुदं संशोधयेन्मृदा
लिंगे कर्कोटमात्रं तु गुदे प्रसृतिरिष्यते तत उत्थाय पद्धस्तशौचं गण्डूषमष्टकम्
येन केन च पत्रेण काष्ठेन च जलाद्बहिः कार्यं संत्यज्य तर्जनीं दंतधावनमीरितम्
जलदेवान्नमस्कृत्य मंत्रेण स्नानमाचरेत् अशक्तः कंठदघ्नं वा कटिदघ्नमथापि वा
आजानु जलमाविश्य मंत्रस्नानं समाचरेत् देवादींस्तर्पयेद्विद्वांस्तत्र तीर्थजलेन च
धौतवस्त्रं समादाय पञ्चकच्छेन धारयेत् उत्तरीयं च किं चैव धार्यं सर्वेषु कर्मसु
नद्यादितीर्थस्नाने तु स्नानवस्त्रं न शोधयेत् वापीकूपगृहादौ तु स्नानादूर्ध्वं नयेद्बुधः
शिलादार्वादिके वापि जले वापि स्थलेपि वा संशोध्य पीडयेद्वस्त्रं पित्ःणां तृप्तये द्विजाः
जाबालकोक्तमंत्रेण भस्मना च त्रिपुंड्रकम् अन्यथा चेज्जले पात इतस्तन्नरकमृच्छति
आपोहिष्ठेति शिरसि प्रोक्षयेत्पापशांतये यस्येति मंत्रं पादे तु संधिप्रोक्षणमुच्यते
पादे मूर्ध्नि हृदि चैव मूर्ध्नि हृत्पाद एव च हृत्पादमूर्ध्नि संप्रोक्ष्य मंत्रस्नानं विदुर्बुधाः
ईषत्स्पर्शे च दौः स्वास्थ्ये राजराष्ट्रभये ऽपि च अत्यागतिकाले च मंत्रस्नानं समाचरेत्
प्रातः सूर्यानुवाकेन सायमग्न्यनुवाकतः अपः पीत्वा तथामध्ये पुनः प्रोक्षणमाचरेत्