अरुद्रो वा सरुद्रो वा सूक्तेन शिवमर्चयेत् यः सकृत्पतितो वापिमूढो वा मुच्यते नरः
षडक्षरेण वा देवं सूक्तमन्त्रेण पूजयेत् शिवभक्तो जितक्रोधो ह्यलब्धो लब्ध एव च
अलब्धाल्लब्ध एवात्र विशिष्टो नात्र संशयः स ब्रह्मांगेन वा तेन सहंसेन विमुच्यते
तस्मान्नित्यं शिवं भक्त्या सूक्तमन्त्रेण पूजयेत् एककालं द्विकालं वा त्रिकालं नित्यमेव वा
ये ऽर्चयंति महादेवं विज्ञेयास्ते महेश्वराः ज्ञानेनात्मसहायेन नार्चितो भगवाञ्छिवः
स चिरं संसरत्यस्मिन्संसारे दुःखसागरे दुर्ल्लभं प्राप्य मानुष्यं मूढो नार्चयते शिवम्
निष्फलं तस्य तज्जन्म मोक्षाय न भवेद्यतः दुर्ल्लभं प्राप्य मानुष्यं ये ऽर्चयन्ति पिनाकिनम्
तेषां हि सफलं जन्म कृतार्थास्ते नरोत्तमाः भवभक्तिपरा ये च भवप्रणतचेतसः
भवसंस्मरणोद्युक्ता न ते दुःखस्य भागिनः भवनानि मनोज्ञानि विभ्रमाभरणाः स्त्रियः
धनं चातृप्तिपर्यन्तं शिवपूजाविधेः फलम् ये वाञ्छन्ति महाभोगान्राज्यं च त्रिदशालये
ते वाञ्छन्ति सदाकालं हरस्य चरणाम्बुजम् सौभाग्यं कान्तिमद्रूपं सत्त्वं त्यागार्द्रभावता
शौर्यं वै जगति ख्यातिश्शिवमर्चयतो भवेत् तस्मात्सर्वं परित्यज्य शिवैकाहितमानसः
शिवपूजाविधिं कुर्याद्यदीच्छेच्छिवमात्मनः त्वरितं जीवितं याति त्वरितं याति यौवनम्
त्वरितं व्याधिरभ्येति तस्मात्पूज्यः पिनाकधृक् यावन्नायाति मरणं यावन्नाक्रमते जरा
यावन्नेन्द्रियवैकल्यं तावत्पूजय शंकरम् न शिवार्चनतुल्यो ऽस्ति धर्मो ऽन्यो भुवनत्रये
इति विज्ञाय यत्नेन पूजनीयस्सदाशिवः द्वारयागं जवनिकां परिवारबलिक्रियाम्
नित्योत्सवं च कुर्वीत प्रसादे यदि पूजयेत् हविर्निवेदनादूर्ध्वं स्वयं चानुचरो ऽपि वा
प्रसादपरिवारेभ्यो बलिं दद्याद्यथाक्रमम् निर्गम्य सह वादित्रैस्तदाशाभिमुखः स्थितः
पुष्पं धूपं च दीपञ्च दद्यादन्नं जलैः सह ततो दद्यान्महापीठे तिष्ठन्बलिमुदङ्मुखः
ततो निवेदितं देवे यत्तदन्नादिकं पुरा तत्सर्वं सावशेषं वा चण्डाय विनिवेदयेत्
हुत्वा च विधिवत्पश्चात्पूजाशेषं समापयेत् कृत्वा प्रयोगं विधिवद्यावन्मन्त्रं जपं ततः
नित्योत्सवं प्रकुर्वीत यथोक्तं शिवशासने विपुले तैजसे पात्रे रक्तपद्मोपशोभिते
अस्त्रं पाशुपतं दिव्यं तत्रावाह्य समर्चयेत् शिवस्यारोप्यः तत्पात्रं द्विजस्यालंकृतस्य च
न्यस्तास्त्रवपुषा तेन दीप्तयष्टिधरस्य च प्रासादपरिवारेभ्यो बहिर्मंगलनिःस्वनैः
नृत्यगेयादिभिश्चैव सह दीपध्वजादिभिः प्रदक्षिणत्रयं कृत्वा न द्रुतं चाविलम्बितम्
महापीठं समावृत्य त्रिःप्रदक्षिणयोगतः पुनः प्रविष्टो द्वारस्थो यजमानः कृताञ्जलिः आदायाभ्यंतरं नीत्वा ह्यस्त्रमुद्वासयेत् ततः
प्रदक्षिणादिकं कृत्वा यथापूर्वोदितं क्रमात् आदाय चाष्टपुष्पाणि पूजामथ समापयेत्
अथाग्निकार्यं वक्ष्यामि कुण्डे वा स्थंडिले ऽपि वा वेद्यां वा ह्यायसे पात्रे मृन्मये वा नवे शुभे
आधायाग्निं विधानेन संस्कृत्य च ततः परम् तत्राराध्य महादेवं होमकर्म समाचरेत्
कुण्डं द्विहस्तमानं वा हस्तमात्रमथापि वा वृत्तं वा चतुरस्रं वा कुर्याद्वेदिं च मण्डलम्