गुह्याद्गुह्यतरं कृष्ण सर्वत्र परमेश्वरे शिवे भक्तिर्न संदेहस्तया भक्तो विमुच्यते
शिवमंत्रजपो ध्यानं होमो यज्ञस्तपःश्रुतम् दानमध्ययनं सर्वे भावार्थं नात्र संशयः
भावहीनो नरस्सर्वं कृत्वापि न विमुच्यते भावयुक्तः पुनस्सर्वमकृत्वापि विमुच्यते
चांद्रायणसहस्रैश्च प्राजापत्यशतैस्तथा मासोपवासैश्चान्यैश्च शिवभक्तस्य किं पुनः
अभक्ता मानवाश्चास्मिंल्लोके गिरिगुहासु च तपंति चाल्पभोगार्थं भक्तो भावेन मुच्यते
सात्त्विकं मुक्तिदं कर्म सत्त्वे वै योगिनः स्थिताः राजसं सिद्धिदं कुर्युः कर्मिणो रजसावृताः
असुरा राक्षसाश्चैव तमोगुणसमन्विताः ऐहिकार्थं यजन्तीशं नराश्चान्ये ऽपि तादृशाः
तामसं राजसं वापि सात्त्विकं भावमेव च आश्रित्य भक्त्या पूजाद्यं कुर्वन्भद्रं समश्नुते
यतः पापार्णवात्त्रातुं भक्तिर्नौरिव निर्मिता तस्माद्भक्त्युपपन्नस्य रजसा तमसा च किम्
अन्त्यजो वाधमो वापि मूर्खो वा पतितो ऽपि वा शिवं प्रपन्नश्चेत्कृष्ण पूज्यस्सर्वसुरासुरैः
तस्मात्सर्वप्रयत्नेन भक्त्यैव शिवमर्चयेत् अभुक्तानां क्वचिदपि फलं नास्ति यतस्ततः
वक्ष्याम्यतिरहस्यं ते शृणु कृष्ण वचो मम वेदैश्शास्त्रैर्वेदविद्भिर्विचार्य सुविनिश्चितम्
ब्रह्मघ्नो वा सुरापो वा स्तेयीवा गुरुतल्पगः मातृहा पितृहा वापि वीरहा भ्रूणहापि वा
संपूज्यामन्त्रकं भक्त्या शिवं परमकारणम् तैस्तैः पापैः प्रमुच्येत वर्षैर्द्वादशभिः क्रमात्
तस्मात्सर्वप्रयत्नेन पतितो ऽपि यजेच्छिवम् भक्तश्चेन्नापरः कश्चिद्भिक्षाहारो जितेंद्रियः
कृत्वापि सुमहत्पापं भक्त्या पञ्चाक्षरेण तु पूजयेद्यदि देवेशं तस्मात्पापात्प्रमुच्यते
अब्भक्षा वायुभक्षाश्च ये चान्ये व्रतकर्शिताः तेषामेतैर्व्रतैर्नास्ति शिवलोकसमागमः
भक्त्या पञ्चाक्षरेणैव यः शिवं सकृदर्चयेत् सोपि गच्छेच्छिवस्थानं शिवमन्त्रस्य गौरवात्
तस्मात्तपांसि यज्ञांश्च सर्वे सर्वस्वदक्षिणाः शिवमूर्त्यर्चनस्यैते कोट्यंशेनापि नो समाः
बद्धो वाप्यथ मुक्तो वा पश्चात्पञ्चाक्षरेण चेत् पूजयन्मुच्यते भक्तो नात्र कार्या विचारणा
अरुद्रो वा सरुद्रो वा सूक्तेन शिवमर्चयेत् यः सकृत्पतितो वापिमूढो वा मुच्यते नरः
षडक्षरेण वा देवं सूक्तमन्त्रेण पूजयेत् शिवभक्तो जितक्रोधो ह्यलब्धो लब्ध एव च
अलब्धाल्लब्ध एवात्र विशिष्टो नात्र संशयः स ब्रह्मांगेन वा तेन सहंसेन विमुच्यते
तस्मान्नित्यं शिवं भक्त्या सूक्तमन्त्रेण पूजयेत् एककालं द्विकालं वा त्रिकालं नित्यमेव वा
ये ऽर्चयंति महादेवं विज्ञेयास्ते महेश्वराः ज्ञानेनात्मसहायेन नार्चितो भगवाञ्छिवः
स चिरं संसरत्यस्मिन्संसारे दुःखसागरे दुर्ल्लभं प्राप्य मानुष्यं मूढो नार्चयते शिवम्
निष्फलं तस्य तज्जन्म मोक्षाय न भवेद्यतः दुर्ल्लभं प्राप्य मानुष्यं ये ऽर्चयन्ति पिनाकिनम्
तेषां हि सफलं जन्म कृतार्थास्ते नरोत्तमाः भवभक्तिपरा ये च भवप्रणतचेतसः
भवसंस्मरणोद्युक्ता न ते दुःखस्य भागिनः भवनानि मनोज्ञानि विभ्रमाभरणाः स्त्रियः
धनं चातृप्तिपर्यन्तं शिवपूजाविधेः फलम् ये वाञ्छन्ति महाभोगान्राज्यं च त्रिदशालये