भांडान्यपि च रम्याणि पत्राण्यपि च कृत्स्नशः
आलयं च महेशस्य शिवस्य परमात्मनः राजावसथवत्कल्प्यं शिल्पशास्त्रोक्तलक्षणम्
उच्चप्राकारसंभिन्नं भूधराकारगोपुरम् अनेकरत्नसंच्छन्नं हेमद्वारकपाटकम्
तप्तजांबूनदमयं रत्नस्तम्भशतावृतम् मुक्तादामवितानाढ्यं विद्रुमद्वारतोरणम्
चामीकरमयैर्दिव्यैर्मुकुटैः कुम्भलक्षणैः
राजन्यार्हनिवासैश्च राजवीथ्यादिशोभितैः प्रोच्छ्रितप्रांशुशिखरैः प्रासादैश्च समंततः
आस्थानस्थानवर्यैश्च स्थितैर्दिक्षु विदिक्षु च अत्यन्तालंकृतप्रांतमंतरावरणैरिव
उत्तमस्त्रीसहस्रैश्च नृत्यगेयविशारदैः वेणुवीणाविदग्धैश्च पुरुषैर्बहुभिर्युतम्
रक्षितं रक्षिभिर्वीरैर्गजवाजिरथान्वितैः अनेकपुष्पवाटीभिरनेकैश्च सरोवरैः
दीर्घिकाभिरनेकाभिर्दिग्विदिक्षु विराजितम् वेदवेदांततत्त्वज्ञैश्शिवशास्त्रपरायणैः
शिवाश्रमरतैर्भक्तैः शिवशास्त्रोक्तलक्षणैः शांतैः स्मितमुखैः स्फीतैः सदाचारपरायणैः
शैवैर्माहेश्वरैश्चैव श्रीमद्भिस्सेवितद्विजैः एवमंतर्बहिर्वाथयथाशक्तिविनिर्मितैः
स्थाने शिलामये दांते दारवे चेष्टकामये केवलं मृन्मये वापि पुण्यारण्ये ऽथ वा गिरौ
नद्यां देवालये ऽन्यत्र देशे वाथ गृहे शुभे आढ्यो वाथ दरिद्रो वा स्वकां शक्तिमवंचयन् द्रव्यैर्न्यायार्जितैरेव भक्त्या देवं समर्चयेत्
अथान्यायार्जितैश्चापि भक्त्या चेच्छिवमर्चयेत् न तस्य प्रत्यवायो ऽस्ति भाववश्यो यतः प्रभुः
न्यायार्जितैरपि द्रव्यैरभक्त्या पूजयेद्यदि न तत्फलमवाप्नोति भक्तिरेवात्र कारणम्
भक्त्या वित्तानुसारेण शिवमुद्दिश्य यत्कृतम् अल्पे महति वा तुल्यं फलमाढ्यदरिद्रयोः
भक्त्या प्रचोदितः कुर्यादल्पवित्तोपि मानवः महाविभवसारोपि न कुर्याद्भक्तिवर्जितः
सर्वस्वमपि यो दद्याच्छिवे भक्तिविवर्जितः न तेन फलभाक्स स्याद्भक्तिरेवात्र कारणम्
न तत्तपोभिरत्युग्रैर्न च सर्वैर्महामखैः गच्छेच्छिवपुरं दिव्यं मुक्त्वा भक्तिं शिवात्मकम्
गुह्याद्गुह्यतरं कृष्ण सर्वत्र परमेश्वरे शिवे भक्तिर्न संदेहस्तया भक्तो विमुच्यते
शिवमंत्रजपो ध्यानं होमो यज्ञस्तपःश्रुतम् दानमध्ययनं सर्वे भावार्थं नात्र संशयः
भावहीनो नरस्सर्वं कृत्वापि न विमुच्यते भावयुक्तः पुनस्सर्वमकृत्वापि विमुच्यते
चांद्रायणसहस्रैश्च प्राजापत्यशतैस्तथा मासोपवासैश्चान्यैश्च शिवभक्तस्य किं पुनः
अभक्ता मानवाश्चास्मिंल्लोके गिरिगुहासु च तपंति चाल्पभोगार्थं भक्तो भावेन मुच्यते
सात्त्विकं मुक्तिदं कर्म सत्त्वे वै योगिनः स्थिताः राजसं सिद्धिदं कुर्युः कर्मिणो रजसावृताः
असुरा राक्षसाश्चैव तमोगुणसमन्विताः ऐहिकार्थं यजन्तीशं नराश्चान्ये ऽपि तादृशाः
तामसं राजसं वापि सात्त्विकं भावमेव च आश्रित्य भक्त्या पूजाद्यं कुर्वन्भद्रं समश्नुते
यतः पापार्णवात्त्रातुं भक्तिर्नौरिव निर्मिता तस्माद्भक्त्युपपन्नस्य रजसा तमसा च किम्
अन्त्यजो वाधमो वापि मूर्खो वा पतितो ऽपि वा शिवं प्रपन्नश्चेत्कृष्ण पूज्यस्सर्वसुरासुरैः