ऐशान्यां पूर्वभागे च दक्षिणे चोत्तरे तथा पश्चिमे च तथाग्नेय्यामैशान्यां नैरृते तथा
वायव्यां पुनरैशान्यां चतुर्दिक्षु ततः परम् गर्भावरणमाख्यातं मन्त्रसंघातमेव वा
हृदयाद्यस्त्रपर्यंतमथवापि समर्चयेत् तद्बहिः पूर्वतः शक्रं यमं दक्षिणतो यजेत्
वरुणं वारुणे भागे धनदं चोत्तरे बुधः ईशमैशे ऽनलं स्वीये नैरृते निरृतिं यजेत्
मारुते मारुतं विष्णुं नैरृते विधिमैश्वरे बहिःपद्मस्य वज्राद्यान्यब्जांतान्यायुधान्यपि
प्रसिद्धरूपाण्याशासु लोकेशानां क्रमाद्यजेत् देवं देवीं च संप्रेक्ष्य सर्वावरणदेवताः
बद्धांजलिपुटा ध्येयाः समासीना यथासुखम् सर्वावरणदेवानां स्वाभिधानैर्नमोयुतैः
पुष्पैः संपूजनं कुर्यान्नत्वा सर्वान्यथाक्रमम् गर्भावरणमेवापि यजेत्स्वावरणेन वा
योगे ध्याने जपे होमे वाह्ये वाभ्यंतरे ऽपि वा हविश्च षड्विधं देयं शुद्धं मुद्गान्नमेव च
पायसं दधिसंमिश्रं गौडं च मधुनाप्लुतम् एतेष्वेकमनेकं वा नानाव्यंजनसंयुतम्
गुडखंडन्वितं दद्यान्मथितं दधि चोत्तमम् भक्ष्याण्यपूपमुख्यानि स्वादुमंति फलानि च
रक्तचन्दनपुष्पाढ्यं पानीयं चातिशीतलम् मृदु एलारसाक्तं च खण्डं पूगफलस्य च
दलानि नागवल्ल्याश्च युक्तानि खदिरादिभिः गौराणि स्वर्णवर्णानि विहितानि शिवानि च शैलमेव सितं चूर्णं नातिरूक्षं न दूषितम्
कर्पूरं चाथ कंकोलं जात्यादि च नवं शुभम् आलेपनं चन्दनं स्यान्मूलकाष्ठंरजोमयम्
कस्तूरिका कुंकुमं च रसो मृगमदात्मकः पुष्पाणि सुरभीण्येव पवित्राणि शुभानि च
निर्गंधान्युग्रगंधानि दूषितान्युषितानि च स्वयमेव विशीर्णानि न देयानि शिवार्चने
वासांसि च मृदून्येव तपनीयमयानि च विद्युद्वलयकल्पानि भूषणानि विशेषतः
सर्वाण्येतानि कर्पूरनिर्यासागुरुचन्दनैः आधूपितानि पुष्पौघैर्वासितानि समंततः
चन्दनागुरुकर्पूरकाष्ठगुग्गुलुचूर्णिकैः घृतेन मधुना चैव सिद्धो धूपः प्रशस्यते
कपिलासम्भवेनैव घृतेनातिसुगन्धिना नित्यं प्रदीपिता दीपाः शस्ताः कर्पूरसंयुताः
पञ्चगव्यं च मधुरं पयो दधि घृतं तथा कपिलासम्भवं शम्भोरिष्टं स्नाने च पानके
आसनानि च भद्राणि गजदंतमयानि च सुवर्णरत्नयुक्तानि चित्राण्यास्तरणानि च
मृदूपधानयुक्तानि सूक्ष्मतूलमयानि च उच्चावचानि रम्याणि शयनानि सुखानि च
नद्यस्समुद्रगामिन्या नटाद्वाम्भः समाहृतम् शीतञ्च वस्त्रपूतं तद्विशिष्टं स्नानपानयोः
छत्रं शशिनिभं चारु मुक्तादामविराजितम् नवरत्नचितं दिव्यं हेमदण्डमनोहरम्
चामरे च सिते सूक्ष्मे चामीकरपरिष्कृते राजहंसद्वयाकारे रत्नदंडोपशोभिते
दर्पणं चापि सुस्निग्धं दिव्यगन्धानुलेपनम् समंताद्रत्नसञ्छन्नं स्रग्वैरैश्चापि भूषितम्
गम्भीरनिनदः शंखो हंसकुंदेन्दुसन्निभः आस्वपृष्ठादिदेशेषु रत्नचामीकराचितः
काहलानि च रम्याणि नानानादकराणि च सुवर्णनिर्मितान्येव मौक्तिकालंकृतानि च
भेरीमृदंगमुरजतिमिच्छपटहादयः समुद्रकल्पसन्नादाः कल्पनीयाः प्रयत्नतः