दत्त्वा नीराजनं कुर्यात्सर्वमंगलनिस्वनैः गीतनृत्यादिभिश्चैव जयशब्दसमन्वितः
हैमे च राजते ताम्रे पात्रे वा मृन्मये शुभे पद्मकैश्शोभितैः पुष्पैर्बीजैर्दध्यक्षतादिभिः
त्रिशूलशंखयुग्माब्जनन्द्यावर्तैः करीषजैः श्रीवत्सस्वस्तिकादर्शवज्रैर्वह्न्यादिचिह्नितैः
अष्टौ प्रदीपान्परितो विधायैकं तु मध्यमे तेषु वामादिकाश्चिन्त्याः पूज्याश्च नव शक्तयः
कवचेन समाच्छाद्य संरक्ष्यास्त्रेण सर्वतः धेनुमुद्रां च संदर्श्य पाणिभ्यां पात्रमुद्धरेत्
अथवारोपयेत्पात्रे पञ्चदीपान्यथाक्रमम् विदिक्ष्वपि च मध्ये च दीपमेकमथापि वा
ततस्तत्पात्रमुद्धृत्य लिंगादेरुपरि क्रमात् त्रिः प्रदक्षिणयोगेन भ्रामयेन्मूलविद्यया
दद्यादर्घ्यं ततो मूर्ध्नि भसितं च सुगंधितम् कृत्वा पुष्पांजलिं पश्चादुपहारान्निवेदयेत्
पानीयं च ततो दद्याद्दत्त्वा वाचमनं पुनः पञ्चसौगंधिकोपेतं ताम्बूलं च निवेदयेत्
प्रोक्षयेत्प्रोक्षणीयानि गाननाट्यानि कारयेत् लिंगादौ शिवयोश्चिन्तां कृत्वा शक्त्यजपेच्छिवम्
प्रदक्षिणं प्रणामं च स्तवं चात्मसमर्पणम् विज्ञापनं च कार्याणां कुर्याद्विनयपूर्वकम्
अर्घ्यं पुष्पांजलिं दत्त्वा बद्ध्वा मुद्रां यथाविधि पश्चात्क्षमापयेद्देवमुद्वास्यात्मनि चिंतयेत्
पाद्यादिमुखवासांतमर्घ्याद्यं चातिसंकटे पुष्पविक्षेपमात्रं वा कुर्याद्भावपुरस्सरम्
तावतैव परो धर्मो भावने सुकृतो भवेत् असंपूज्य न भुञ्जीत शिवमाप्राणसंचरात्
यदि पापस्तु भुंजीत स्वैरं तय्स न निष्कृतिः प्रमादेन तु भुंक्ते चेत्तदुद्गीर्य प्रयत्नतः
स्नात्वा द्विगुणमभ्यर्च्य देवं देवीमुपोष्य च शिवस्यायुतमभ्यस्येद्ब्रह्मचर्यपुरस्सरम्
परेद्युश्शक्तितो दत्त्वा सुवर्णाद्यं शिवाय च शिवभक्ताय वा कृत्वा महापूजां शुचिर्भवेत्
अनुक्तं चात्र पूजायाः कमलोपभयादिव यत्तदन्यत्प्रवक्ष्यामि समासान्न तु विस्तरात्
हविर्निवेदनात्पूर्वं दीपदानादनन्तरम् कुर्यादावरणाभ्यर्चां प्राप्ते नीराजने ऽथ वा
तत्रेशानादिसद्यांतं रुद्राद्यस्त्रांतमेव च शिवस्य वा शिवायाश्च प्रथमावरणे जपेत्
ऐशान्यां पूर्वभागे च दक्षिणे चोत्तरे तथा पश्चिमे च तथाग्नेय्यामैशान्यां नैरृते तथा
वायव्यां पुनरैशान्यां चतुर्दिक्षु ततः परम् गर्भावरणमाख्यातं मन्त्रसंघातमेव वा
हृदयाद्यस्त्रपर्यंतमथवापि समर्चयेत् तद्बहिः पूर्वतः शक्रं यमं दक्षिणतो यजेत्
वरुणं वारुणे भागे धनदं चोत्तरे बुधः ईशमैशे ऽनलं स्वीये नैरृते निरृतिं यजेत्
मारुते मारुतं विष्णुं नैरृते विधिमैश्वरे बहिःपद्मस्य वज्राद्यान्यब्जांतान्यायुधान्यपि
प्रसिद्धरूपाण्याशासु लोकेशानां क्रमाद्यजेत् देवं देवीं च संप्रेक्ष्य सर्वावरणदेवताः
बद्धांजलिपुटा ध्येयाः समासीना यथासुखम् सर्वावरणदेवानां स्वाभिधानैर्नमोयुतैः
पुष्पैः संपूजनं कुर्यान्नत्वा सर्वान्यथाक्रमम् गर्भावरणमेवापि यजेत्स्वावरणेन वा
योगे ध्याने जपे होमे वाह्ये वाभ्यंतरे ऽपि वा हविश्च षड्विधं देयं शुद्धं मुद्गान्नमेव च
पायसं दधिसंमिश्रं गौडं च मधुनाप्लुतम् एतेष्वेकमनेकं वा नानाव्यंजनसंयुतम्